मूला

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रविमार्गे दृश्यमानेषु २७ प्रमुखनक्षत्रसमूहेषु अन्यतमं वर्तते मूलानक्षत्रम् । प्रतिदिनं चन्द्रः यस्मिन् नक्षत्रे दृश्यते तत् नक्षत्रं दिननक्षत्रम् इति उच्यते । शिशोः जननावसरे चन्द्रः यत्र भवति तत् तस्य जन्मनक्षत्रम् इति कथ्यते । हिन्दुज्योतिष्शास्त्रस्य अनुगुणम् मूलानक्षत्रं भवति नवदशं नक्षत्रम् ।
आकाशः ३६० डिग्रियुक्तः इति भाव्यते चेत् सः सप्तविंशतिधा विभज्यते चेत् एकैकः भागः १३.२० डिग्रियुक्तः भवति । एकैकम् अपि क्षेत्रं चतुर्धा यदि विभज्येत तर्हि १०८ भागाः भवन्ति । एकैकोपि भागः ३.२० डिग्रियुक्तः भवति । तन्नाम नक्षत्रस्य प्रत्येकभागः ३.२० डिग्रियुक्तः भवति । एकस्य नक्षत्रस्य १३.२० डिग्रिपरिमितभागः । एकस्य राशेः ३० डिग्रिभागः । १२ राशीनां ३६० डिग्रिपरिमितः भागः भवति ।

मूलानक्षत्रम्

आकृतिः[सम्पादयतु]

मूला कुप्यत्केसरि पञ्च - कुपितस्य केसरिणः आकृतौ विद्यमानानि पञ्च नक्षत्राणि ।

सम्बद्धानि अक्षराणि[सम्पादयतु]

ये यो बा बि - मूलानक्षत्रसम्बद्धानि अक्षराणि ।

अधिदैवम्, वैदिकविवेचनम्[सम्पादयतु]

उदगातां भगवती विचृती नाम तारके ।
वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम् ॥

वैदिकसाहित्ये इदं नक्षत्रं 'विचृतिः' 'मूलबर्हणः' इत्यादिभिः नामभिः निर्दिष्टमस्ति । तैत्तिरीयसंहितायाम् अस्य नक्षत्रस्य स्वामी पितरः इति क्वचित्, निर्ऋतिः इति क्वचिच्च उल्लिखितमस्ति । निर्ऋतिः दिक्पालः अस्ति । अस्मिन् एव नक्षत्रे देवाः असुराणां मूलोत्पाटनम् अकुर्वन् । अस्मिन् नक्षत्रे जातः अनिष्टकारकः, कुलनाशकः भवति इति निर्दिष्टमस्ति ।

आश्रिताः पदार्थाः[सम्पादयतु]

मूले भेषजभिषजो गणमुख्याः कुसुममूलफलवार्ताः ।
बीजान्यतिधनयुक्ताः फलमूलैर्ये च वर्तन्ते ॥

भेषजमौषधम् । भिषजो वैद्याः । गणमुख्याः समूहप्रधानाः । कुसुममूलफलवार्ताः । कुसुमानि पुष्पाणि, मूलानि फलानि च वार्ता वृत्तिर्येषाम् । बीजानि सर्वाणि यान्युप्यन्ते । ये चातिधनयुक्ताः प्रभूतवित्तसमन्विताः । ये च फलमूलैर्वर्तन्ते जीवन्ति । ते सर्व एव मूले ॥

स्वरूपम्[सम्पादयतु]

कृषिभवनविपिनकार्यं वापीकूपादिबीजनिर्वापम् ।
समरविभूषणशिल्पं विग्रहसन्धिश्च मूलनक्षत्रे ॥

मूलानक्षत्रे कृषिः, भवनम्, वनकार्यम्, वापिकार्यम्, बीजावापनम्, युद्धकार्यम्, सन्धिकार्यम् इत्यादीनि कार्याणि कर्तुं शक्यन्ते ।

तीक्ष्णसंज्ञकनक्षत्राणि[सम्पादयतु]

मूलशिवशक्रभुजगाधिपानि तीक्ष्णानि तेषु सिद्ध्यन्ति ।
अभिघातमन्त्रवेतालबन्धभेदसम्बद्धाः

अथ तीक्ष्णानि नक्षत्राणि तैर्यानि कर्माणि क्रियन्ते तानि चाह - मूलं प्रसिद्धम् । शिवाधिपमार्द्रा । शक्राधिपं ज्येष्ठा । भुजगाधिपं सर्पदैवत्यमाश्लेषा । एतानि नक्षत्राणि तीक्ष्णानि दारुणानीत्यर्थः । तेषु तीक्ष्णेषु सिद्ध्यन्ति । के ते ? अभिघात उपद्रवः । मन्त्रो मन्त्रसाधनप्रयोगः । वेतालं वेतालोत्थापनादिकर्म । बन्धो बन्धनम् । वधस्ताडनम् । भेदः पृथ्क्करणं श्लिष्टयोर्द्वयोः । सम्बन्धो राजकुल आवेदनम् । एते सिद्ध्यन्ति ।

पश्य[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मूला&oldid=395736" इत्यस्माद् प्रतिप्राप्तम्