अरुण शौरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अरुण शौरी (जननम् १९४१ नवेम्बर् २) भारतीयपत्रकर्ता, लेखकः, राजनीतिज्ञश्च । सः विश्ववित्तकोशे अर्थशास्त्रज्ञत्वेन कार्यम् अकरोत् (१९६८-७२, १९७५-७७) । भारतस्य योजनायोगस्य मार्गदर्शकत्वेन, इण्डियन् एक्स्प्रेस्-टैम्स् आफ् इण्डिया-पत्रिकयोः सम्पादकत्वेन, भारतसर्वकारस्य मन्त्रीत्वेन च कार्यं निरवहत् । १९८४ तमे वर्षे तेन रामन् मेग्सेसे प्रशस्तिः प्राप्ता ।

बाल्यजीवनम्[सम्पादयतु]

अरुण शौरी जलन्धरे जन्म प्राप्नोत् । तदा तत्र ब्रिटिश्-आधिपत्यम् आसीत् । सः बरखम्बनगरस्थे माडर्न्-शालायां, सैण्ट् स्टीफन्-विद्यालये च शिक्षणं प्राप्नोत् । अर्थशास्त्रे विद्यावारिधिः तेन अमेरिकादेशस्य मेक्स्वेल्-स्कूल्-आफ्-सिराकूस्-विश्वविद्यालयतः प्राप्ता ।

जीवनयात्रा[सम्पादयतु]

इण्डियन् एक्स्प्रेस्-पत्रिकायाः प्रधानसम्पादकः सन् शौरी १९७९ तमे वर्षे सर्वकारस्य भ्रष्टाचारम् अनावृतवान् । तस्मात् उन्नतस्थाने विद्यमानानां बहूनां जनानां भ्रष्टाचारः सर्वैः ज्ञातः । १९८१ तमे वर्षे तदानीन्तनस्य महारष्ट्रस्य मुख्यमन्त्रिणः विरुद्धम् अभियोगम् अस्थापयत् । राज्यस्य वाणिज्यव्यवहारतः तेन सम्पाद्यमानः कोटिशः धनराशिः इन्दिरा गान्धेः नाम्ना कृतायाः वैयक्तिकविश्वस्तमण्डल्याः कृते गच्छति स्म । एतस्मात् कारणात् मुख्यमन्त्रिणा त्यागपत्रं दातव्यम् अभवत् । इन्दिरागान्ध्या काङ्ग्रेस्पक्षेण च महत् अवमाननम् अनुभूतम् ।

तस्य कारणतः एव इण्डियन्-एक्स्प्रेस्-मुम्बैकार्यालये सुदीर्घः कर्मकर-कलहः सञ्जातः । कनिष्ठवेतनं द्विगुणितं कुर्यात् इति आग्रहं कुर्वद्भिः कर्मकरैः कर्मन्यासः कृतः । ततः सर्वकारेण कष्टम् अनुभूतम् । विविधैः समूहैः इण्डियन्-एक्स्प्रेस्-विरुद्धम् अभियोगाः प्रस्तुताः । अन्ते सर्वकारस्य आग्रहस्य कारणतः पत्रिकायाः स्वामिना रामनाथगोयेङ्कावर्येण शौरी प्रेषितः ।

१९८२ तः १९८६ पर्यन्तं तेन विविधाभ्यः पत्रिकाभ्यः लिखितम् । १९८६ तमे वर्षे सः टैम्स् आफ् इण्डिया पत्रिकायाः प्रधानसम्पादकत्वेन नियुक्तः जातः । किन्तु १९८७ तमे वर्षे गोयेङ्का पुनः तम् इण्डियन्-एक्स्प्रेस्-पत्रिकां प्रति स्व्यकरोत् । तदा शौरी तदानीन्तनस्य प्रधानमन्त्रिणः बोफोर्स्-भुषुण्डि-क्रयणस्य भ्रष्टाचारविषयस्य इतिवृत्तं प्राकटयत् । तस्मात् सः अग्रिमे निर्वाचने अपजयं प्राप्नोत् ।

१९८८ तमे वर्षे सर्वकारस्य विरुद्धं पत्रिकास्वातन्त्र्यविषये तस्य नेतृत्वे इण्डियन्-एक्स्प्रेस्-संस्थया यत् कृतं तस्य अनुमोदनं सर्वाभिः पत्रिकाभिः कृतम् । कदाचित् इण्डीयन्-एक्स्प्रेस्-पत्रिकायाः विरुद्धं त्रिशताधिकाः अभियोगाः सर्वकारेण प्रस्तुताः आसन् । १९९० वर्षपर्यन्तं सर्वकारस्य भ्रष्टाचारविरोधः तेन कृतः । तदनन्तरकाले तेन लेखनकार्याय अधिकम् अवधानं प्रदत्तम् । त्रिंशदधिकासु पत्रिकासु नियतरूपेण स्तम्भलेखनं तेन लिख्यते स्म ।

शौरी भारतीयजनतापक्षस्य सदस्यः । सः राज्यसभायाः सदस्यः । अटल्बिहारिवाजपेयिवर्यस्य शासनावधौ तेन विविधानि दायित्वानि निरूढानि । तेन सर्वैः महान् आदरः प्राप्तः ।

२००७ तमे वर्षे राष्ट्रपतिस्थानाय प्रतिभापाटील न नियोक्तव्या इति विरोधं कृतवत्सु प्रमुखः एषः । प्रतिभा महिला सहकारि वित्तकोशद्वारा तया कृताः अक्रमाः तेन प्रदर्शिताः । तस्याः भ्रातुः जि एन् पाटीलस्य मारणे अपि तस्याः पात्रमस्ति इत्यपि तेन आरोपितम् ।

वैयक्तिकजीवनम्[सम्पादयतु]

तस्य पत्नी अनिता । पुत्रः आदित्यः ।

साहित्यकृषिः[सम्पादयतु]

अरुण शौरी २६ पुस्तकानि अलिखत् । तस्य लेखनानि संशोधितानि चिन्तनयोग्यानि च भवन्ति । तस्याः लेखनात् तेन बहुसंख्याकाः अभिमानिनः प्राप्ताः । राष्ट्रे अन्ताराष्ट्रे च तेन बहु सम्माननं प्राप्तम् । तेषु पद्मभूषणं, मेग्ससेप्रशस्तिः, ददभाई नवरोजिप्रशस्तिः, आस्टर्प्रशस्तिः, के एस् हेगडेप्रशस्तिः, वर्षस्य अन्ताराष्ट्रियसम्पादकप्रशस्तिः, प्रकाशनस्वातन्त्र्यप्रशस्तिः च अन्यतमा ।

ग्रन्थर्णम्[सम्पादयतु]

  • Does He Know a Mother's Heart? [१][नष्टसम्पर्कः]
  • We Must Have No Price
  • Are We Deceiving Ourselves Again [२][नष्टसम्पर्कः]
  • Where Will All This Take Us [३][नष्टसम्पर्कः]
  • The Parliamentary System
  • Courts and their Judgements: Premises, Prerequisites, Consequences
  • Eminent Historians: Their Technology, Their Line, Their Fraud
  • Falling Over Backwards: An essay against Reservations and against Judicial populism
  • Governance and the sclerosis that has set in [४][नष्टसम्पर्कः]
  • Harvesting Our Souls
  • Hinduism: Essence and Consequence
  • Indian Controversies
  • Individuals, Institutions, Processes : How One may Strengthen the Other in India Today
  • Institutions in the Janata Phase
  • Missionaries in India [५] Archived २०१८-११-१६ at the Wayback Machine
  • Arun Shourie and his Christian critics
  • Mrs Gandhi's Second Reign
  • Only Fatherland : Communists, 'Quit India,' and the Soviet Union
  • Religion in Politics
  • A Secular Agenda
  • Symptoms of Fascism
  • These Lethal, Inexorable Laws: Rajiv, His Men and His Regime
  • The State As Charade: V.P. Singh, Chandra Shekhar and the Rest
  • Will the Iron Fence Save a Tree Hollowed by Termites?
  • Worshiping False Gods [६] Archived २०१०-०६-०९ at the Wayback Machine [७]
  • The World of Fatwas [८] Archived २००९-०८-२६ at the Wayback Machine

Co-author:

बाह्यशृङ्खला[सम्पादयतु]

" Arun Shourie

"https://sa.wikipedia.org/w/index.php?title=अरुण_शौरी&oldid=481419" इत्यस्माद् प्रतिप्राप्तम्