कन्याकुमारी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कन्याकुमारी
नगरम्
विवेकानन्दस्मारकम्
विवेकानन्दस्मारकम्
देशः भारतम्
राज्यम् तमिळ्नाडु
मण्डलम् कन्याकुमारी
Government
 • District Collector तिरु एस् नागराजन्
Area
 • Total २५.८९ km
Elevation
३०० m
Population
 (2012)
 • Total २९,७६१
 • Density ६६५/km
भाषाः
 • अधिकृताः Tamil
Time zone UTC+5:30 (IST)
पिन्
629 xxx
Telephone code 914652
Vehicle registration TN 74 & TN 75
Website www.kanyakumari.tn.nic.in

कन्याकुमारी (Kanyakumari) भारतस्य दक्षिणभूशिरसि समुद्रतीरे स्थितं प्रसिद्धं यात्रास्थलम् अस्ति । एतत् नगरं तमिलनाडुराज्ये अस्ति । प्रकृति-धर्म-संस्कृतिभिरपि एतत् प्रसिद्धम् । एतत् श्रद्धालूनां पुण्यक्षेत्रम्, प्रकृतिप्रियाणां रम्यस्थानम्, विहारिणां मनोहारि धाम, जीवसागरविज्ञानीनां प्रयोगालयः च अस्ति । (निबन्धोऽयं कन्याकुमारीक्षेत्रस्य विषये लिखितः अस्ति । कन्याकुमारीशक्तिपीठविषये कन्याकुमारी (कन्याश्रमः) इति पुटं पश्यतु ।)

भारतदेशः एशियाखण्डस्य कश्चन भागः पर्यायद्वीपः च अस्ति । एतत् क्षेत्रं बङ्गालोपसागर-हिन्दुमहार्णव-अरब्बिसमुद्राणां सङ्गमस्थानम् । कन्याकुमारीक्षेत्रं पश्चिमाद्रिभागस्य एलापर्वतस्य दक्षिणभागे वर्तते । प्रवासिभिः अत्रैव स्थित्वा सूर्योदयस्य सूर्यास्तस्य च द्वयोः अपि रमणीयता द्रष्टुं शक्या । अत्रत्यसागरतटेषु सिकताराशयः मुक्तामणयः इव चकासन्ते । धृतदेहा प्रकृतिमाता इव कन्याकुमारी सदा सुशोभिता अस्ति । अत्र कन्याकुमार्याः देव्याः सुन्दरं मन्दिरम् अपि अस्ति । प्रतिवर्षं कन्याकुमारीक्षेत्रं प्रति बहवः यात्रिकाः आगच्छन्ति ।

कन्याकुमारीसागरे विवेकानन्दमन्दिरम्

पौरणिकप्राशस्त्यम्[सम्पादयतु]

कन्याकुमारीक्षेत्रं पुराणप्रसिद्धम् अपि अस्ति । पुरा बाणासुरो नामकः राक्षसः ईश्वरानुग्रहार्थं तपस्तेपे । वरं च अवाप । 'कन्यां विना तस्य मृत्युः एव न स्यात्' इति । सः स्वशक्तेः दुरुपयोगं चकार । तदा देवाः यज्ञमेकम् अन्वतिष्ठन् । तत्फलरूपेण शक्तिदेवता कुमारीरूपेण भुवि अवततार । बाणासुरः तस्याम् अनुरक्तः । किन्तु लोककण्टकं तं सा देवी जघान । देव्याः कन्याकुमार्याः विषये एषा पुराणकथा प्रथिता अस्ति । कन्याकुमारीमन्दिरं सुविशालं सुन्दरं कलापूर्णं च वर्तते । द्वारात् गर्भगृहपर्यन्तं मार्गम् उभयतः शिवम् अन्विष्यन्त्यः इव दीपं करेषु धृत्वा दीपशिलाबालाः तिष्ठन्ति । गर्भगृहे कन्याकुमार्याः विग्रहः शोभते । तस्याः हस्ते पुष्पमाला शोभते । शिवं वरयितुं प्रतीक्षमाणा इव भासते । अत्रत्यसागरतटेषु वालुकाः पीत-रक्त-कृष्णवर्णीयाः सन्ति । भावुकाः ताह् वालुकाः हरिद्राकुङ्कुमकस्तूरीत्वेन भावयन्ति । विवाहार्थम् आगतेभ्यः दातुम् एते संगृहीताः आसन् । परन्तु सूर्योदयात् पूर्वं शिवः नागतः । तस्मात् विवाहः स्थगितः । हरिद्राकुङ्कुमकस्तूरीकाः पुलिनराशिरूपेण अद्यापि अत्रैव सन्ति इति लोककथा अस्ति।

ऐतिहासिकप्राशस्त्यम्[सम्पादयतु]

कन्याकुमार्याः अनतिदूरे सागरे कश्चन प्रस्तरशैलः अस्ति । वीरसंन्यासी विवेकानन्दः समुद्रं तीर्त्वा अत्र आगतवान् । अस्मिन्नेव स्थाने दिनत्रयं यावत् उपविष्य ध्यानम् अकरोत् । सः तत्र भारतमातुः साक्षात्कारं प्राप्तवान् । तत्कालीनं भारतस्य दुर्दशां स्मरन् गुरोः रामकृष्णस्य प्रेरणया भारतस्य जनमानसं स्वाभिमानयुतं कर्तुम् अत्रैव निश्चयम् अकरोत् । तदनन्तरमेव विश्वपर्यटनं कृत्वा भारतस्य अमरसन्देशं जगति प्रसारितवान् । एतस्याः घटनायाः स्मरणार्थं श्रीमतः विवेकानन्दस्य जन्मशताब्दम् अभिलक्ष्य तस्मिन् एव स्थाने तस्य पञ्चलोहप्रतिमा स्थापिता वर्तते ।

कन्याकुमारीसागरे भक्तानां पुण्यस्नानम्

वैज्ञानिकप्राशस्त्यम्[सम्पादयतु]

सागरविज्ञानिनः विशेषाध्ययनार्थम् अत्र आगच्छन्ति । अत्रत्ये सागरगर्भे जीववैविध्यानि बहूनि सन्ति । जीवविज्ञानछात्राः सस्य-प्राणि-शुक्तिसङ्ग्रहार्थम् अत्र अटन्ति । कन्याकुमारीक्षेत्रे गान्धिमन्दिरम् अपि वर्तते । गान्धिजयन्तीदिने सूर्यस्य प्रथमकिरणानि अत्र पतन्ति ।

कन्याकुमारिपत्तने कदलीफलवाणिज्यम्

प्रकृतिप्रियाणां स्वर्गः[सम्पादयतु]

अस्मिन् क्षेत्रे प्रातःकाले सूर्योदयदर्शनं सायङ्काले च सूर्यास्तदर्शनमपि च शक्यम् अस्ति । पूर्णिमायाः दिने सूर्यास्तचन्द्रोदययोः दर्शनं भवति । तथैव परेद्यवि चन्द्रास्तम् सूर्योदयं च द्रष्टुं बहवः जनाः आगच्छन्ति । एतदपूर्वं दृश्यवैभवम् अत्रैव द्र्ष्टुं शक्यते । सागरतीरे अत्र कृष्णश्वेतरक्तवर्णवालुकाः अपि द्रष्टुम् शक्यन्ते ।

गान्धिस्मारकम्[सम्पादयतु]

गान्धिस्मारकम्

कन्याकुमारी क्षेत्रे गान्धिस्मारकभवनम् अस्ति । क्रिस्ताब्दे १२-२-१९९४ तमे दिने महात्मनः गान्धिनः अस्थिसञ्चयनात्पूर्वं भस्मपात्रं वेदिकायां स्थापितमासीत् । इदानीम् अस्मिन् प्रदेशे सर्वकारेणैकं स्मारकं निर्मितम् अस्ति । क्रिस्ताब्दे १९९६ तमे वर्षे विशेषमण्डपस्य निर्माणं पूर्णम् अभवत् । अस्य पुरतः चत्वारि गोपुराणि सन्ति । मध्ये अन्नतं गोपुरं च निर्मितम् अस्ति । मण्डपे गान्धिमहोदयस्य मूर्तिः प्रतिष्ठापिता अस्ति । विशेषतः गान्धिमहोदयस्य जन्मदिने तन्नाम अक्टोबरद्वितीये दिने मध्याह्ने द्वादशवादने मण्डपस्य रन्ध्रद्वारा उपरिष्टात् सूर्यकिरणाः गान्धिविग्रहं स्पृशन्ति । एतद् अद्भुतं दृश्यं द्रष्टुम् अनेके जनाः अत्र आगच्छन्ति ।

स्वामिविवेकानन्दराक् मेमोरियल्[सम्पादयतु]

कन्याकुमारीक्षेत्रे दर्शनीयं स्थानमेतत् । ६५६ पादपरिमितोन्नते शिलापर्वते सुन्दरः मण्डपः निर्मितः अस्ति । मण्डपे स्वामिविवेकानन्दस्य कांस्यविग्रहः स्थापितः अस्ति । मूर्तिः ८.५पादपरिमितोन्नता अस्ति । ४.५ पादपरिमितोन्नतायां वेदिकायम् स्थापिता अस्ति । प्रधानं गोपुरं ६० पादपरिमितोन्नतम् अस्ति । एतत् गोपुरं कोलकातानगरे स्थितम् बेलूरुमठगोपुरमिवास्ति । मुख्यद्वारे अजन्ता-एल्लोरासदृशानि शिल्पानि सन्ति । बहुसुन्दरतया एतत् स्मारकं निर्मितम् अस्ति । सन्यासिनः स्वामिविवेकानन्दस्य स्थितभङ्ग्यां विद्यमाना प्रतिमा भव्या सुन्दरी च अस्ति । स्वामी विवेकानन्दः हिमालयात् पादचारणेन भारतस्य तीर्थक्षेत्राणां दर्शनं कुर्वन् कन्याकुमारीक्षेत्रम् आगतवान् । सागरे तरणं कृत्वा सागरे विद्यमाने कस्मिश्चित् प्रस्तरे ध्यानासक्तः आसीत् । तत्रैव तेन दिव्यज्ञानं प्राप्तम् आसीत् । इदानीम् एतत् ध्यानशिलामण्डपम् इति विख्यातम् अस्ति । प्रतिदिनम् अत्र बहवः जनाः आगच्छन्ति । भूशिरसि अस्मिन् दिव्यं भव्यं च प्रकृतिवैभवं दृष्टुं शक्यम् अस्ति ।

सञ्चिका:Devi Kanya Kumari.jpg
देवी कन्या कुमारी

भूमार्गः[सम्पादयतु]

देशस्य सर्वेभ्यः भागेभ्यः सम्पर्कव्यवस्था अस्ति । मधुरैतः २५३ कि.मी । चेन्नैतः ६७९ कि.मी । तिरुवनन्तपुरं रामेश्वरम् इत्यादिनगरैः लोकयानानि सन्ति । धूमशकटसम्पर्कः अस्ति । मधुरैनगरतः एकदिनप्रवासव्यवस्था अस्ति ।

विवेकानन्दस्मारकस्य तिरुवळ्ळुवर् प्रतिमायाः पृष्ठभूमिकायां सूर्योदयः






बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कन्याकुमारी&oldid=480084" इत्यस्माद् प्रतिप्राप्तम्