कच्छमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कच्छमण्डलम्

કચ્છ જિલ્લો

Kutch District
मण्डलम्
गुजरातराज्ये कच्छमण्डलम्
गुजरातराज्ये कच्छमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters भुज
Area
 • Total ४५,६५२ km
Population
 (२०११)
 • Total २०,९२,३७१
Languages
 • Official गुजराती, हिन्दी
Website kutch.gujarat.gov.in

कच्छमण्डलम् (गुजराती: કચ્છ જિલ્લો, आङ्ग्ल: Kutch District) इत्येतत् गुजरातराज्यस्य किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति भुज इति नगरम् । न केवलं गुजरातराज्ये अपि तु समग्रे भारते इदं मण्डलं विशालतमम् अस्ति । अस्य मण्डलस्य आकारः कच्छपसदृशः अस्ति इत्यतः अस्य मण्डलस्य 'कच्छ' इति नाम ।

भौगोलिकम्[सम्पादयतु]

कच्छमण्डलस्य विस्तारः ४५,६५२ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य पश्चिमभागे वर्तते । अस्य मण्डलस्य पूर्वे बनासकाठामण्डलं, पाटणमण्डलं च, पश्चिमे अरब्बीसमुद्रः, उत्तरे पाकिस्तानदेशः, दक्षिणे 'गल्फ् आफ् कच्छ' अस्ति । अस्मिन् मण्डले ५८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । गुजरातराज्ये विद्यमानः रणः, कच्छस्य लघुरणः च अस्मिन्नेव मण्डले अन्तर्भवति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसङ्ख्या २०,९२,३७१ अस्ति । अत्र १०,९६,७३७ पुरुषाः ९,९५,६३४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४६ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३२.१६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०८ अस्ति । अत्र साक्षरता ७०.५९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- १ अबडासा २ अञ्जार ३ भचाउ ४ भुज ५ गान्धीधाम ६ लखपत ७ माण्डवी ८ मुन्द्रा ९ नखत्राणा १० रापर

कृषिः वाणिज्यं च[सम्पादयतु]

कलायः, 'बाजरा', कार्पासः, 'जवार्', खर्जूरः, एरण्डं, तन्तुभः ('मस्टर्ड्'), 'सिलियम्' ('इसब्गुल्'), जीरकः, वृन्ताकं, पपितफलम्, आम्रफलं, कदलीफलं, चिकूफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । गुजरातराज्यस्य मण्डलेषु खर्जूरस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । लवणोत्पादनं, 'एञ्जिनियरिङ्ग्', समुद्ररासायनिकानाम् उद्यमः, 'सिरेमिक्स्', नौकाश्रयसम्बद्धाः उद्यमाः, रासायनिकोद्यमः, वस्त्रोत्पादनं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

धोलावीरायां विद्यमानं सिन्धूदरीसंस्कृतिस्थानम् ('इण्डस् व्याली सिविलिजेषन् सैट्'), 'आइना महल्' (पुरातनं राजगृहं), 'प्राग् महल्' (नूतनं राजगृहं), कच्छ-सङ्ग्रहालयः, कोटेश्वरः, लखपत्, भद्रेश्वरमन्दिरं, स्वामिनारायणमन्दिरं, वन्यगर्दभधाम, 'चिङ्कारा'धाम, नारायणसरोवरपक्षिधाम, कच्छ-मरु-वन्यजीविधाम, कच्छ-'बस्टर्ड्'-धाम, माण्डवीसागरतटः च अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति ।


बाह्यसम्पर्कतन्तुः[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=कच्छमण्डलम्&oldid=458254" इत्यस्माद् प्रतिप्राप्तम्