यकृत्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
यकृत्

मनुष्यस्य यकृत् मानवशरीरे विद्यमानं बृहत् मांसलम् अङ्गम् । तत् मानवशरीरस्य रसक्रियागारम् इत्यपि कथ्यते । तच्च अङ्गम् उदरदेशस्य दक्षिणतः शरीरमध्यदेशात् अधः च भवति । तत् यकृत् पार्श्वास्थिना आवृतं सत् रक्षितं तिष्ठति । यकृत् आङ्ग्लभाषायां Liver इति उच्यते । एतदङ्गं बाह्यस्पर्शेन ज्ञातुम् अशक्यम् । परन्तु यदि रोगेण यकृत् स्फीतं भवति तर्हि पार्श्वास्थिनः पृष्ठतः स्पर्शेन तत् ज्ञातुं शक्यम्, यदि उदरम् अन्तः नीयेत् ।

यकृतः प्रमुखं कार्यद्वयं - नूतनानां रसानां संयोजनं, विषस्य दुर्बलीकरणं चेति । विज्ञानिनः वदन्ति यत् वस्तुतः यकृत् पञ्चशताधिकानि कार्याणि करोति इति । यकृतः प्रमुखाणि कार्याणि - मेदसः नाशः, शर्करांशस्य ग्लैकीजेनरुपेण परिवर्तनम् इत्यादीनि । यकृत् कोलेस्ट्राल अपि उत्पादयति ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यकृत्&oldid=408786" इत्यस्माद् प्रतिप्राप्तम्