पुलस्त्यस्मृतिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

पुलस्तिः ब्रह्मणो मानससन्तान इति पौराणिकी कथा वर्णितास्ति । पुलस्तेः अपत्यं पुमान् पुलस्त्यो भवति । असौ पुलस्त्यः स्मृतिशास्त्रं लिखित्वा समाजस्य भूयांसमुपकार विहितवान् । तद्रचितायां स्मृतावस्यां संक्षेपतः धर्मशास्त्रस्य सारो वर्णितो दृश्यते । प्रथमं तावत् चतुर्णां वर्णानां कार्याकार्यरुप आचारो वर्णितोऽस्ति । तत्र च राजधर्मः पञ्चमो धर्म इति पुलस्त्येन निरुपितम् । चतुर्णां वर्णानां कृते चत्वार आश्रमाः, तथा तैः व्यावहारिके जीवने सत्यम्, अहिंसा, अध्ययनाध्यापनादिकं कर्म कर्त्तव्यत्वेन पालनीयमिति कथ्यते । शूद्राणां पक्षे ब्राह्मणसेवा समाजस्य कल्याणाय कल्पत इति वर्णितमस्ति । इयं वर्णाश्रमव्यवस्था विशेषतो हिन्दूनां स्वधर्मरक्षायै परिकल्पिताऽस्तीति स्पष्टं प्रतीयते । यथा ब्रह्मचारिणां कृते वर्णाश्रमस्य नियमानुसारेण स्वाबलम्बशीलता -शिष्ठाचाररक्षा- गुरुसेवादीनि कर्माणि भृशं महत्तराणीति तेन निर्णीतम् । तथा गृहे गृहे समाचरितं अग्निहोत्रातिथिसेवा-पञ्चमहायज्ञादिकं कर्मापि सर्वथा पालनीयमिति निरुप्यते । एवमेव् सन्यासिनां शौचम्, भावशुद्धिः, ईशसेवादिकं कर्म परमं ध्येयमिति वर्णितमस्ति । अत एवैतेनानुमीयते यत् स्वधर्मपालने पुलस्त्येन नितरां महत्त्वम् आरोप्यते स्मृतावस्यामेव । अतो भगवद्गीतायाम् उक्तं यत् " स्वस्व कर्मण्यभिरतः संसिद्धिं लभते नरः" इति ।

विशेषतः सर्वेषां मानवानां कृते क्षमा, सत्यम्, निरभिमानिता, अहिंसा, दया, परोपकारः एवं त्यागादिमनोभावः सर्वथा धर्मत्वेन गृहयते । पुनश्चैततसर्वं जीवने व्यवहारतः सदा पालनीयमिति पुलस्त्येन निर्दिश्यते । नारीणां स्वमिसेवा परमो धर्म इति कथ्यते । स्वधर्मपालने यदि कोऽपि प्रमादो जायेत्, तत्र प्रायाश्चित्तस्यापि व्यवस्था प्रदर्श्यते । सर्वं सम्भूय स्मृतावस्यामष्टाविंसतिसंख्याकाः श्लोकाः सन्ति, येषु वर्णाश्रमधर्मा अपि प्रतिपादिता वर्तन्ते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पुलस्त्यस्मृतिः&oldid=480578" इत्यस्माद् प्रतिप्राप्तम्