तण्डुलपिष्टम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तण्डुलाः
तण्डुलपिष्टेन निर्मिता दोसा

पिष्टं नाम आङ्ग्लभाषायां Powder अथवा Flour इति उच्यते । तण्डुलस्य पिष्टम् एव तण्डुलपिष्टम् । अयं तण्डुलः भारते वर्धमानः कश्चन धान्यविशेषः । अयम् सस्यजन्यः आहारपदार्थः अस्ति । अयं तण्डुलः आङ्ग्लभाषायां Rice इति उच्यते । भारते प्रायः सर्वत्र तण्डुलः उपयुज्यते एव । दक्षिणभारते तु भोजनम् ओदनं विना न भवति एव । ओदनं तण्डुलेन एव सज्जीक्रियते । इदानीं प्रायः जगति सर्वत्र तण्डुलस्य उपयोगः अस्ति एव ।

अनेन तण्डुलपिष्टेन रोटिका, दोसा, इड्ली, शष्कुली, पर्पटः, अवदंशः इत्यादयः खाद्यपदार्थाः निर्मीयन्ते । यद्यपि तण्डुले विद्यमानाः एव गुणाः पिष्टे अपि भवन्ति तथापि पिष्टम् अत्यन्तं सूक्ष्मरूपम् इति कारणतः शरीरस्य सूक्ष्मान् अपि भागान् प्रविशति इति वदति आयुर्वेदशास्त्रम्

दृश्यताम्[सम्पादयतु]

अधिकविवरणार्थं तण्डुलाः इति पृष्ठं द्रष्टव्यम् ।

"https://sa.wikipedia.org/w/index.php?title=तण्डुलपिष्टम्&oldid=345426" इत्यस्माद् प्रतिप्राप्तम्