केन्द्रीयविद्यालयसङ्घटनम् (KVS)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
केन्द्रीयविद्यालयसंघटनम्
विद्या सर्वत्र शोभते
Location
फलकम्:Countryname
Information
Established 1965
School board केन्द्रियपाठ्यक्रमः (CBSE)
Authority मानवसंपन्मूलसमितिः
Website

केन्द्रीयविद्यालयसङ्घटनम् (KVS) भारतस्य एकं प्रमुखं सङ्घटनमस्ति एतत् । केन्द्रीयविद्यालयनाम्ना देशविदेशेषु च कार्यं करोति । इदानीं १०८५ विद्यालयाः सन्ति । विद्यालयेषु (यथा ३१-३-२०११ स्थित्यनुसारम्) १०,५८,४५० छात्राः पठन्तः सन्ति । ४९,२८६ कर्मचारिणः कार्यं कुर्वन्तः सन्ति । अस्य स्थापनकालः १९६५ वर्षस्य डिसेम्बर्मासः ।

लक्ष्यम्[सम्पादयतु]

बालानां शैक्षिकश्रेष्ठतायाः, भारतीयभावनायाः, राष्ट्रियैकताभावनायाः, तथा व्यक्तित्वविकासस्य भावनायाःविकासः एव अस्य लक्ष्यम् । अत्र प्राथमिकः माध्यमिकः उच्चमाध्यमिकः इति स्तरत्रये विद्याभ्यासः भवति । विशेषतः ये केन्द्रसर्वकारे उद्योगं कुर्वन्ति, रक्षणाकार्ये ये निरताः तेषाम् अपत्यानां कृते एताः विद्यालयाः स्थापिताः सन्ति । अस्य प्रधानः कार्यालयः नवदेहल्यां वर्तते । अस्य क्षेत्रीयकार्यालयाः देशस्य विभिन्नभागेषु वर्तन्ते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]