जातीफलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
जातीफलस्य बीजम्
कूप्यां सङ्गृहीतं जातीबीजस्य चूर्णम्

एतत् जातीफलम् अपि भारते वर्धमानः कश्चन फलविशेषः । एतत् जातीफलम् अपि सस्यजन्यः आहारपसार्थः । एतत् जातीफलम् आङ्ग्लभाषायां Nutmeg इति उच्यते । एतत् जातीफलम् आहारत्वेन तथा औषधत्वेन अपि उपयुज्यते । आहारत्वेन उपयोगस्य समये मितिम् अतिक्रम्य न उपयोक्तव्यम् । मधुराणां भक्ष्याणां निर्माणे अस्य जातीफलस्य उपयोगः क्रियते ।

जातीफलस्य अन्तः दृश्यमानं जातीबीजम्
जातीवृक्षस्य शाखा, पुष्पं, फलं, बीजं चापि

आयुर्वेदस्य अनुसारम् अस्य जातीफलस्य स्वभावः[सम्पादयतु]

जातीफलम्
जातीवृक्षः

एतत् जातीफलं कषाय-कटुरसयुक्तम् । एतत् उष्णवीर्यम् अपि । एतत् जातीफलं पचनार्थं लघु अपि ।

“जातीफलं कषायोष्णं कटुकण्ठमयार्तिजित् ।
वातातिसारमेहघ्नं लघु वृष्यं च दीपनम् ॥“
१. एतत् जातीफलं कण्ठदोषान् निवारयति । वातं च हरति ।
२. एतत् जातीफलम् अतिसारं शमयति । प्रमेहरोगं च निवारयति ।
३. एतत् जातीफलं पुरुषेषु वीर्यवर्धकम् । अग्निम् अपि उद्दीपयति ।
४. जातीफलं जलेन सह योजयित्वा सम्यक् अवघर्षणं कृत्वा वदने लेपनेन वदने विद्यमानाः कृष्णवर्णीयाः बिन्दवः न्यूनाः भवन्ति, पादस्य स्फोटः अपि न्यूनः भवति ।
५. जातीफलम्, एला, लवङ्गं च सुगन्धित्रिफला इति उच्यते । एषा सुगन्धित्रिफला अतिसारं शमयति । किन्तु मलस्य अवरोधं न करोति ।
६. जातीफलं, पूगपुष्पं, लवङ्गं, कर्पूरं, तक्कोलं च पञ्चसुगन्धि इति उच्यते । एतत् पञ्चसुगन्धि शीतवीर्ययुक्तम् । एतत् रक्तपित्तं हरति । मुखस्य दुर्गन्धं निवारयति । पीनसं चापि शमयति ।
७. जातीफलं, लवङ्गं, वराङ्गं, कुङ्कुमं, चन्दनं, कर्पूरं च योजयित्वा निर्मितं चूर्णं जातीफलादिचूर्णम् इति उच्यते । एतत् चूर्णम् अतिसारं, कासं, ज्वरं च निवारयति ।
८. शिशूनाम् अतिसारे जातीफलं शिलायाः उपरि द्वित्रवारं अवघर्षणं कृत्वा कृत्वा मातुः क्षीरेण सह यच्छन्ति । तस्य सेवनेन बालाः सम्यक् निद्राम् अपि कुर्वन्ति । सेवितः आहरोऽपि सम्यक् जीर्णः भवति च ।
९. एतत् जातीफलं ताम्बूलेन सह अपि योज्यते । तस्य योजनेन ताम्बूलस्य रुचिः वर्धते, ताम्बूलं सुगन्धयुक्तम् अपि भवति । तादृशस्य ताम्बूलस्य सेवनेन सेवितस्य आहारस्य पचनं सम्यक् भवति । कामवृद्धिः अपि भवति ।
१०. कम्पनेन शब्दं कुर्वत्, तैलांशयुक्तं, भारयुतं च जातीफलम् उत्तमम्, अन्यत् च हीनम् इति वदति अयं श्लोकः –
“जातीफलं सशब्दं च स्निग्धं गुरु च शस्यते ।
लघुकं शब्दहीनं च रूक्षाङ्गमतिनिन्दितम् ॥“
"https://sa.wikipedia.org/w/index.php?title=जातीफलम्&oldid=356783" इत्यस्माद् प्रतिप्राप्तम्