पुष्पशाकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पुष्पशाकम्
पुष्पशाकस्य व्यञ्जनम्

एतत् पुष्पशाकम् अपि भारते वर्धमानः कश्चन शाकविशेषः । इदम् अपि सस्यजन्यः आहारपादार्थः । एतत् पुष्पशाकम् आङ्ग्लभाषायां Cauliflower इति उच्यते । एतत् पुष्पशाकं भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एतेन क्वथितं, व्यञ्जनं,भर्ज्यम् इत्यादिकं निर्मीयते । अनेन पुष्पशाकेन "गोबिमञ्चूरि" नामकं विशिष्टं खाद्यम् अपि निर्मीयते । एतत् पुष्पशाकम् अपि बहुवर्णयुतं भवति । सामान्यतया काषायवर्णस्य, नीललोहितवर्णस्य, श्वेतवर्णस्य, हरितवर्णस्य च पुष्पशाकानि प्रसिद्धानि सन्ति । तद्विना पाटालवर्णस्य, पीतवर्णस्य चापि लभ्यन्ते ।

नीललोहितवर्णस्य पुष्पशाकम्
काषायवर्णस्य पुष्पशाकम्
भारवाहकयानेन विपणिं प्रति नीयमानानि पुष्पशाकानि
सस्ये वर्धमानं पुष्पशाकम्


"https://sa.wikipedia.org/w/index.php?title=पुष्पशाकम्&oldid=345530" इत्यस्माद् प्रतिप्राप्तम्