लूथर् बर्ब्याङ्क्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लूथर् .ए.बर्ब्याङ्क्
जननम् (१८४९-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-०७)७ १८४९
Lancaster, Massachusetts, USA
मरणम् ११ १९२६(१९२६-वाचनिकदोषः : अनपेक्षितम् उद्गारचिह्नम ०-११) (आयुः ७७)
Santa Rosa, California, USA
कार्यक्षेत्राणि Botany


लूथर् बर्ब्याङ्कस्य जन्मस्थानम्

(कालः – ०७. ०३. १८४९ तः ११. ०४ .१९२६)

अयं लूथर् बर्ब्याङ्क् (Luther Burbank) नूतनस्य सस्यवंशस्य निर्मापकः । अयं लूथर् बर्ब्याङ्क् १८४९ तमे वर्षे मार्चमासस्य ७ दिनाङ्के अमेरिकादेशे जन्म प्राप्नोत् । तस्य पितुः १५ पुत्राः आसन् । तेषु अयं लूथर् बर्ब्याङ्क् १३ तमः पुत्रः आसीत् । अस्य विद्यालयशिक्षणं प्रौढशालापर्यन्तम् एव अभवत् । १९ वयसः अनन्तरम् अध्ययनार्थं न शक्तः । एषः लूथर् बर्ब्याङ्क् बाल्यात् आरभ्य सस्यानां वर्धने आसक्तः आसीत् । बाल्यात् आरभ्य अपि अत्यन्तं बुद्धिमान् कुशलश्च आसीत् अयं लूथर् बर्ब्याङ्क् । एकं किञ्चित् सस्यम् अन्यस्मात् सस्यात् भिन्नं कथम् ? इति परीक्ष्य मिश्रवंशस्य आरम्भं कृतवान् । अत्र सफलः जातः सः लूथर् बर्ब्याङ्क् चार्ल्स् डार्विनस्य पुस्तकानाम् अध्ययनेन प्रभावितः अभवत् । ततः सः १८७० तमे वर्षे म्यासचुसेट्स् समीपे किञ्चित् प्रमाणेन भूमिं (१७ एकरे यावत्) क्रीत्वा तत्र प्रयोगान् आरब्धवान् । ५ वर्षाणाम् अनन्तरं १८७५ तमे वर्षे क्यालिफोर्निया समीपस्थं स्याण्टरोजप्रदेशं गत्वा आजीवनं तत्र सस्यानां वर्धनम् अकरोत् । विभिन्नान् प्रयोगान् च कृत्वा प्राकृतिकरूपेण यानि सस्यानि न वर्धन्ते तादृशानां सस्यानां वर्धनम् अकरोत् ।

एषः लूथर् बर्य्ब्याङ्क् १८७० तमे वर्षे सस्यविज्ञाने प्रयोगान् आरब्धवान् । वर्षाभ्यन्तरे एव तेन वर्धितानि नूतनविधस्य आलुकानि "बर्ब्याङ्क् आलुकानि” इत्येव सर्वत्र प्रसिद्धानि अभवन् । तस्य आलुकस्य स्वाम्याधिकारम् अपि प्राप्तवान् । ततः प्राप्तेन धनेन (१५० डालर्स्) एव क्यालिफोर्निया-समीपस्थे स्याण्टारोजप्रदेशे भूमिं क्रीतवान् । फलानां वर्धनार्थं प्रसिद्धे क्यालोफोर्नियानगरे विभिन्नानां फलानां वर्धनम् अकरोत् एषः लूथर् बर्ब्याङ्क् । सः स्वस्य कृषिपद्धतौ विधद्वयस्य अन्वयम् अकरोत् । सस्यद्वयस्य योजनेन नूतनस्य सस्यस्य उत्पादनार्थं सूक्ते समये एकस्य सस्यस्य पुष्पस्य परागाणुम् अन्यस्य सस्यस्य शलाकाग्रस्य उपरि संस्थाप्य भ्रूणनिर्माणम् एका विधिः । अपरा विधिः एकस्य एव सस्यस्य पुनः पुनः वर्धनं कृत्वा प्रतिचक्रम् अपि दुर्बलानि बीजानि पृथक् कृत्वा सबलानां बीजानाम् एव उत्पादनम् । एषः लूथर् बर्ब्याङ्क् ४० वर्षेषु ६० विधानि "प्लं” इत्याख्यानि फलानि, १० विधानि "बेर्रि” इत्याख्यानि फलानि च उदपादयत् । अनानसफलविषये, वातामस्य विषये अपि अयं कृषिम् अकरोत् । "प्लं” तथा नारङ्गं च योजयित्वा "प्लङ्काट्” नामकं फलं, त्रिविधं "डैसि” इत्याख्यानि फलानि योजयित्वा ३० से.मी. यावत् वैशाल्ययुक्तं "कास्तडैसि” नामकं फलं, अन्तः विद्यमानानि बीजानि अपि यथा दृश्येरन् तथा पारदर्शकं "श्वेतब्ल्याक्बेर्रि” फलं, बीजरहितं द्राक्षाफलं, मरुभूमौ पशूनाम् आहाररूपेण सज्जीकृतं कण्टकरहिता महाकण्टकिनी (Cactus) इत्यादीनि लूथर् बर्ब्याङ्कस्य एव संशोधनानि । एषः लूथर् बर्ब्याङ्क् साण्टारोजप्रदेशे एव १९२६ तमे वर्षे एप्रिलमासस्य ११ दिनाङ्के इहलोकम् अत्यजत् ।

लूथर् बर्ब्याङ्केन संशोधितानि शाकफलादीनि[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लूथर्_बर्ब्याङ्क्&oldid=480923" इत्यस्माद् प्रतिप्राप्तम्