मेषराशिः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मेषः

मेषः द्वादश राशिषु अन्यतमः अस्ति । द्वादश राशयः मेषराशिः, वृषभराशिः, मिथुनराशिः, कर्कटराशिः, सिंहराशिः, कन्यारशिः, तुलाराशिः, वृश्चिकराशिः, धनूराशिः, मकरराशिः, कुम्भराशिः, मीनराशिः च सन्ति ।

नामौचित्यम्[सम्पादयतु]

मेषस्य स्वभावः अस्ति अनुसरणशीलतागम्भीरता अपि तदीयः स्वभावः । अतः धैर्य-अग्रे गमनम्-अनुसरणशीलता-व्यवहारनिर्वहणम् - एतान् गुणान् सङ्केतयितुं मेषः उदाह्रीयते । अस्मिन् राशौ विद्यमानेषु एतानि तत्त्वानि दृश्यन्ते ।

अधिपतिः[सम्पादयतु]

मेष-वृश्चिकयोः अधिपतिः कुजः । ग्रहराज्यव्यवस्थायां कुजः भवति दण्डनायकः । निर्णयानाम् अन्वयनशक्तिः, अद्भुतनिर्वहणाशक्तिः, न्याययुत-योजनायुतजीवनाय प्रयत्नशीलता च कुजस्य स्वभावः । मेषराशिवन्तः निर्णयानां कार्यान्वयनविषये अतीव जागरूकाः भवन्ति । अन्येषाम् आधिपत्यं, स्वीये कार्ये अन्येषां प्रवेशं च एते न सहन्ते । समीचीनतया कार्यनिर्वहणं, अन्यैः कार्यकारणञ्च एतेषां वैशिष्ट्यम् । एते सर्वदा अपि कस्मिंश्चित् कार्ये मग्नाः भवन्ति । परिश्रमेण एव आनन्दः अनुभूयते एतैः । कार्यकरणे सर्वे क्लेशाः आनन्देन एव एतैः सम्मुखीक्रियन्ते ।
निर्वहणकार्ये अत्युत्तमा व्यवस्था एतैः क्रियते । रक्षणाविभागे एते प्रत्यक्षपात्रं वहन्ति । कार्यं समग्रदृष्ट्या परिशीलयन्तः स्वीयं कार्यम् इति भावयन्तः कार्योन्नतिं सम्पादयन्ति । अन्येषाम् आदर्शप्रायाः भवन्ति ।

राशिभावः[सम्पादयतु]

मेषः सहजप्रथमभावः इति निर्दिश्यते । प्रथमभावे आत्मविश्वासः, स्वयं शक्तिः, सामर्थ्यम्, शरीरम् - इत्येतेषाम् आद्यता भवति । मेषराशिवत्सु अपि अयं भावः दृग्गोचरः भवति ।

जाति-संज्ञा-तत्त्व-स्वामि-स्थान-प्रकृति-वर्ण-स्वभावादयः[सम्पादयतु]

पुरुषजातिः, चरसंज्ञकः, पूर्वदिशः स्वामी, क्षत्रियवर्णः, पर्वतीयप्रदेशे विचरणकर्ता, रजोगुणयुक्तः, कान्तिहीनः, अल्पसन्ततिः, पृष्ठोदयी, अग्नितत्त्वयुक्तश्च भवति मेषराशिः । अस्य स्वामी मङ्गलग्रहः वर्तते । उक्तं च -

पूर्ववासी नृपज्ञातिः शैलचारी रजोगुणी ।
पृष्ठोदयी पावकी च मेषराशिः कुजाधिपः ॥ (बृ पा हो शा - २/७)

स्म्बद्धानि अक्षराणि[सम्पादयतु]

मेषराशौ अश्विन्याः ४ पादाः, भरण्याः ४ पादाः, कृत्तिकायाः प्रथमः पादः भवति इत्यतः चू, चे, चो, ला, ली, लू, ले, लो, आ ... इत्येतानि अक्षराणि मेषसम्बद्धानि इति वक्तुं शक्यते ।

जन्मदिनम्[सम्पादयतु]

येषां जन्मदिनम् मार्च्-मासस्य २१ दिनाङ्कतः एप्रिल्-मासस्य २० दिनाङ्कतः पूर्वं भवति तेषां मेषराशिः ।

"https://sa.wikipedia.org/w/index.php?title=मेषराशिः&oldid=368287" इत्यस्माद् प्रतिप्राप्तम्