गृञ्जनकरसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
गृञ्जनकरसः
कूप्यां संरक्षितः गृञ्जनकरसः
गृञ्जनकानि
गृञ्जनकरसस्य निर्माणम्

गृञ्जनकस्य रसः एव गृञ्जनकरसः । एतत् गृञ्जनकम् आङ्ग्लभाषायां Carrot इति उच्यते । तस्य रसः Carrot Juice इति उच्यते । गृञ्जनकरसः आरोग्यार्थम् अपि बहु उत्तमम् । अस्य शाकरसस्य निर्माणं कृत्वा कूपीषु, करण्डकेषु वा पूरयित्वा संरक्ष्यते । तादृशः शाकरसः बहुकालं यावत् न नश्यति । यदा आवश्यकं तदा गृहे एव निर्माय पातुम् अपि शक्यते । आपणेषु उपहारमन्दिरेषु चापि अस्य गृञ्जनकरसस्य विक्रयणं क्रियते । कुत्रचित् मार्गपार्श्वे अपि गृञ्जनकरसं निर्माय विक्रयणं कुर्वन्ति अपि । भारते तु अयं गृञ्जनकरसः अत्यन्तं प्रसिद्धं पेयम् अस्ति । गृञ्जनकानि बहुविधानि सन्ति । तदनुगुणं रसस्य अपि वर्णः रुचिः च परिवर्तते ।

अस्य गृञ्जनकरसस्य निर्माणम्[सम्पादयतु]

अस्य गृञ्जनकरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् गृञ्जनकं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । तदनन्तरं तेषु खण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=गृञ्जनकरसः&oldid=345355" इत्यस्माद् प्रतिप्राप्तम्