आदिपर्व

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


इदं महाभारतस्य प्रथमं पर्व अस्ति। अस्मिन् ग्रन्थस्य परिचयः दीयते, तथा च राजकुमाराणां जन्म इत्यादिविषयाः वर्णिताः।

अनुक्रमणिकापर्व[सम्पादयतु]

ग्रन्थस्य अस्य उपक्रमः अनुक्रमणिकापर्वतः भवति । यत्र च ग्रन्थस्थविषयाणां सङ्क्षेपसूची वर्तते, तथा च महाभारतस्य महिमा वर्णितः ।

पर्वसंग्रहपर्व[सम्पादयतु]

अनन्तरं पर्वसंग्रहपर्वणि समन्तपञ्चकक्षेत्रस्य वर्णनम्, अक्षौहिणीसेनायाः परिमाणं, महाभारतपर्वणां विषयसंक्षेपः, महाभारतस्य श्रवणपठनयोः फलं च वर्णितम् ।

पौष्यपर्व[सम्पादयतु]

तृतीये पौष्यपर्वणि जनमेजयस्य सरमायाः शापः, तस्य च सोमश्रवसः पुरोहितत्वेन वरणम्, आरुणि-उपमन्यु-वेद-उत्तङ्कानां गुरुभक्तिः च वर्णिता । उत्तङ्कः जनमेजयं सर्पयागं कर्तुं प्रोत्साहयति ।

पौलोमपर्व[सम्पादयतु]

पौलोमपर्वणि आदौ कथाप्रवेशः, ततः पश्चात् भृगुमहर्षेः आश्रमे पुलोमराक्षसस्य आगमनम्, अग्निना सह तस्य सम्भाषणं च वर्ण्यते । च्यवनस्य जन्म, तस्य तेजसा राक्षसस्य भस्मीभवनम्, अग्निदेवस्य भृगुमहर्षेः शापः, शापेन कुपितस्य अग्नेः अदृश्यत्वं, ब्रह्मणा कृतः अग्निशापस्य सङ्कोचः समाधानञ्च वर्ण्यते । ततः परं प्रमद्वरायाः वृत्तान्तः, तस्याः रुरोश्च विवाहः, सर्पाणां नाशाय रुरोः निश्चयः तस्य डुण्डुभस्य च समागमः वर्ण्यते । रुरुडुण्डुभयोः सम्भाषणं, डुण्डुभस्य आत्मकथा, तेन कृतः रुरोः अहिंसोपदेशः, जनमेजयस्य सर्पसत्रस्य विषये रुरोः जिज्ञासा च वर्ण्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=आदिपर्व&oldid=371607" इत्यस्माद् प्रतिप्राप्तम्