भृङ्गराजसस्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

इदं भृङ्गराजसस्यं भारते वर्धमानः कश्चन सस्यविशेषः । इदं सस्यं त्रिविधं भवति । श्वेतभृङ्गराजसस्यं, पीतभृङ्गराजसस्यं, नीलभृङ्गराजसस्यं चापि । अस्य भृङ्गराजसस्यस्य “मार्कवसस्यम्” इत्यपि अपरं नाम अस्ति । अस्य रसः, चूर्णं, मूलं चापि औषधत्वेन उपयुज्यते । आयुर्वेदशास्त्रे अस्य भृङ्गराजस्य महत् स्थानम् अस्ति । आयुर्वेदस्य औषधेषु अनेन भृङ्गराजेन निर्मितानि बहुविधानि औषधानि प्राप्यन्ते ।

इतरभाषाभिः अस्य भृङ्गराजस्य नामानि[सम्पादयतु]

इदं भृङ्गराजसस्यम् आङ्ग्लभाषयाEclipta Alba इति उच्यते । हिन्दीभाषया“भाङ्गरा” इति, तेलुगुभाषया“गलगरा” इति, तमिळ्भाषया “ करिसलाङगण्णि கரிசலாங்கண்ணி karisalāṅgaṇṇi” इति, मलयाळभाषया“माक” इति, कन्नडभाषया“गरुगद सोप्पु” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य भृङ्गराजस्य प्रयोजनानि[सम्पादयतु]

अस्य भृङ्गराजस्य रसः कटुः, तिक्तः च । सः रूक्षः, उष्णवीर्यः चापि ।

  1. अस्य भृङ्गराजस्य तैलं केशान् वर्धयति । केशाणां विगलनं निवारयति चापि ।
  2. भृङ्गराजतैलं दन्तानां समस्याः अपि निवारयति ।
  3. अस्य तैलम् आहारस्य रुचिं वर्धयति ।
  4. एतत् भृङ्गराजतैलं शिरसः सम्बद्धासु समस्यासु, केशबाधासु च “टानिक्” इव कार्यं करोति ।
  5. चर्मरोगेषु, नेत्ररोगेषु चापि इदं भृङ्गराजतैलं हितकरम् ।
  6. अस्य तैलस्य उपयोगेन यकृत्-विकाराः अपि अपगच्छन्ति ।
  7. आम्लपित्ते, विसर्पे च अस्य भृङ्गराजस्य मूलम् औषधत्वेन उपयुज्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=भृङ्गराजसस्यम्&oldid=409543" इत्यस्माद् प्रतिप्राप्तम्