वाहनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
वाहनम्

विज्ञानेन वैज्ञानिकानुसन्धानेन वा वयं महत् सौविध्यं प्राप्तवन्तः । यथा- गृहे विविधानि उपकरणानि, मनोरञ्जनाय विभिन्नानि साधनानि, कम्प्यूटरसदृशं सर्वविधकार्यसाधकं यन्त्रञ्च । अस्मिन्नेव क्रमे यातायातक्रियासम्पादानार्थं विविधानां साधनानामाविष्कारः अपि विज्ञानस्य चमत्कारः एवास्ति । अनेन साधनेन वयं महत् सौविध्यं प्राप्तवन्तः । यथा दुःसाध्येऽपि स्थले वयं क्षणे एव गन्तुं पारयामः । पृथ्वीतः चन्द्रपर्यन्तं गन्तुं पारयामः । परं विज्ञानं यादृशं सौविध्यम् अस्मभ्यं प्रदत्तं तादृशमेवासौविध्यमपि प्रदत्तम् । अनेन प्रदत्तेषु असौविध्येषु सर्वप्रमुखं भवति प्रदूषणम् । सम्प्रति वायुप्रदूषणस्य या समस्या वर्तते तस्याः समास्यायाः मुख्यं कारकं वाहनान्येवास्ति । अनुमीयते यत नगरेषु ६०% प्रदूषणं वाहनेभ्यः एव भवति । स्थितिः इदृशी अस्ति यत् वाहने उपविष्टानां कृतेऽपि श्वसनं दुष्करं जातम्, अन्येषां काकथा । वाहनानि द्विविधानि सन्ति

  1. पेट्रोलचालितानि वाहनानि ।

यथा-कार्-यानम्, जीप्-यानम्, स्कूटर्-यानम्, मोपेड्-यानम्,मोटरसाइकिल्-यानम्, ओटोरिक्सा-यानम् इत्यादीनि ।

  1. डीजलचालितानि वाहनानि ।

यथा – बसयानम्, ट्रकयानम्, टेम्पोयानमित्यदीनि । (सम्प्रति तु कानिचन कारयानानि, जीपयानानि, स्कूटररिक्सा इत्यादीन्यपि डीजलचालितानि भवन्ति)

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वाहनम्&oldid=409681" इत्यस्माद् प्रतिप्राप्तम्