नामक्कलमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
नामक्कलमण्डलम्

நாமக்கல் மாவட்டம்

—  मण्डलम्  —
कोल्लीगिरिश्रेणिः
कोल्लीगिरिश्रेणिः


Location of नामक्कलमण्डलम्
in तमिऴ्‌नाडु
निर्देशाङ्काः

११°१३′८.४″ उत्तरदिक् ७८°१०′१.२″ पूर्वदिक् / 11.219000°उत्तरदिक् 78.167000°पूर्वदिक् / ११.२१९०००; ७८.१६७०००

देशः भारतम्
राज्यम् तमिऴ्‌नाडु
उपमण्डलम् नामक्कलः, परमदिवेलूरुः, राशिपुरम्, तिरुच्चेङ्गोडे
समीपतमं नगरम् सेलम्नगरम्, त्रिशूर्नगरम्,एरोडुनगरम्
Collector जे। कुमार्गुरुबरण्,IAS
Municipal Corporations नामक्कल् मण्डलम्
व्यावहारिकभाषा(ः) तमिळ्
समयवलयः IST (UTC+05:30)
Central location: ११°१३′ उत्तरदिक् ७८°१०′ पूर्वदिक् / 11.217°उत्तरदिक् 78.167°पूर्वदिक् / ११.२१७; ७८.१६७
जालस्थानम् Official website of Namakkal District

नामक्कल् मण्डलमं (Namakkal district) (तमिऴ्: நாமக்கல் மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । इदं मण्डलं १९९६ तमवर्षस्य जुलैमासस्य २५ दिने सेलंमण्डलात् पृथक्कृतम् । १९९७ तमवर्षस्य जनवरीमासस्य प्रथमदिनात् स्वतन्त्रतया कार्यारम्भं कृतवत् । अस्य मण्डलस्य केन्द्रस्थानं नामक्कलपत्तनम् ।

इतिहासः[सम्पादयतु]

चेर, चोळपाण्ड्यानां मध्ये प्रवृत्तस्य कलहस्य अनन्तरम् अस्मिन् मण्डले होय्सळवंशीयाः बलं प्राप्य चतुर्दशशतकपर्यन्तं शासनं कृतवन्तः । ततः १५६५ पर्यन्तं विजयनगरसाम्राज्यस्य प्रशासनम् आसीत् । १६२३ तमे वर्षे मधुरैनायकाः स्वीयं प्रशासनम् आरब्धवन्तः । तिरुमलनायकस्य द्वौ पोलिगरौ, रामचन्द्रनायकः गट्टि मुदलियारः च, सेलंप्रदेशं शासितवन्तौ । नामक्कलदुर्गः रामचन्द्रनायकेन निर्मितः । १६३५ तमवर्षस्य अनन्तरं अस्मिन् प्रदेशे क्रमशः बिजापुरस्य गोल्कोण्डायाः च मुस्लिमसुल्तानानां, मैसूरुराजानां, मराठानां, हैदरालेः च प्रशासनम् आसीत् । ततः टिप्पूसुल्तानस्य पराजयानन्तरम् अयं प्रदेशः ब्रिटिशैः आक्रान्तः अभवत् ।

भौगोलिकम्[सम्पादयतु]

नामक्कलमण्डलस्य उत्तरे सेलंमण्डलम्, पूर्वस्मिन् सेलंमण्डलस्य अत्तूरु उपमण्डलं तथा पेरम्बलूरु, तिरुच्चिराप्पळ्ळिमण्डले, दक्षिणे करूरुमण्डलम्, पश्चिमे ईरोडुमण्डलं च अस्ति । नामक्कलः तमिऴ्नाडोः वायव्यकृषिवायुगुणप्रदेशस्य भागः । कावेरी, वेल्लारुनद्योः मध्यभागे इदं मण्डलम् अस्ति ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं नामक्कलस्य जनसंख्या १,७२१,१७९ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य २८२ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ५०६ (१३१० प्रतिचतुरश्रमैल्) अस्ति । २००१-२०११ दशके जनसंख्यावृद्धिः १५.२५% आसीत् । नामक्कले पुं, स्त्री अनुपातः १०००:९८६, तथा साक्षरताप्रमाणं ७४.९२ अस्ति ।

उपमण्डलानि[सम्पादयतु]

नामक्कलमण्डले चत्वारि उपमण्डलानि सन्ति ।

  • नामक्कलः
  • परमदिवेलूरुः
  • राशिपुरम्
  • तिरुच्चेङ्गोडे

कृषिः वाणिज्यं च[सम्पादयतु]

कृषिः नामक्कलमण्डलस्य प्रमुखम् अङ्गम् । कृषिकार्यं प्रावृषं, कूपान्, तडागान् च आधारीकृत्य प्रवर्तते । कृषिभूमेः ९०% भागः आहारसस्यानां कृष्यर्थम् उपयुज्यते । तण्डुलः, जोळः, रागी, हरितः, माषः, मुद्गः, कलायः, एरण्डः, तिलः, इक्षुखण्डः, कार्पासः इत्यादीनि अत्रत्यानि प्रमुखानि कृष्युत्पन्नानि । नामक्कले १९५६ तः ट्रक्यान, लारीयानानां कायनिर्माणोद्यमः प्रचलति । तिरुच्चेङ्गोडे बृहद्वाहनानां कार्यनिर्माणकार्यागारैः भारते एव सुप्रसिद्धः । नामक्कले निर्मिताः ट्रक्, कायाः विदेशेभ्यः अपि विक्रीयन्ते । नामक्कले प्रायः ३०० तथा तिरुच्चेङ्गोडेप्रदेशे १०० कार्यागाराः कायनिर्माणरताः सन्ति । अनेन २५००० जनानाम् उद्योगः लभ्यते । नामक्कले कुक्कुटपालनोद्यमः अपि बृहदाकारः अस्ति । तमिऴ्नाडुनः ६५% कुक्कुटाण्डाः नामक्कले एव उत्पाद्यन्ते ।

वीक्षणीयस्थलानि[सम्पादयतु]

नामक्कलशिलादुर्गः अयं दुर्गः रामचन्द्रनायकेन षोडशशतके निर्मितः । ६५ मीटर् उन्नतस्य नामगिरेः उपरि अयं दुर्गः अस्ति । अस्य विस्तारः १.५ एकर् अस्ति । नामगिरेः उभयोः पार्श्वयोः देवालयौ स्तः, नरसिंहस्वामिदेवालयः, रङ्गनाथस्वामिदेवालयः च । अत्र विद्यमाने हनूमद्देवालये १८ पादोन्नता हनूमतः एकशिलामूर्तिः अस्ति । तिरुच्चेङ्गोडे – इदं पत्तनं नामक्कलपत्तनात् ३५ किलोमीटर् दूरे अस्ति । कोङ्गुनाडोः सप्तसु शिवस्थलेषु इदम् अन्यतमम् । अत्र गिरेः उपरि अर्धनारीश्वरस्य देवालयः अस्ति । अयं देवालयः अस्य प्रान्तस्य प्राचीनतममन्दिरेषु अन्यतमः ।

कोळ्ळिमलै पर्वताः – नामक्कलपत्तनात् ४५ किलोमीटर् दूरे पूर्वघट्टप्रदेशे इमे पर्वताः सन्ति । एषाम् औन्नत्यं प्रायः १२०० मीटर् । अत्र बहूनि औषधीयसस्यानि वनस्पतयः च रोहन्ति । अरपालेश्वरदेवालयः, फलशाककृषिक्षेत्रम्, औषधीयसस्यकृषिक्षेत्रम्, अगयगङ्गाजलपातः, नौकागृहं, पेरियस्वामिदेवालयः, वीक्षणाट्टः, दूरदर्शकगृहं च अत्रत्यानि वीक्षणीयस्थलानि । अत्र प्रतिवर्षम् आगस्ट् मासे वल्विल् ओरि पर्व आचर्यते ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]


  1. www.tn.gov.in
"https://sa.wikipedia.org/w/index.php?title=नामक्कलमण्डलम्&oldid=480501" इत्यस्माद् प्रतिप्राप्तम्