स्वर्णरथः (गोल्डन् चारियट्)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


गोल्डन् चारियट् (कर्णाटकस्य वैभवोपेतं धूमशकटम्)

एतत् वाहनं प्रवासोद्यमविभागेन अभिमानेन यात्रिणां सौलभ्याय कल्पितम् विशेषधूमशकटयानम् अस्ति । अस्य नाम सुवर्णरथम् इत्यस्ति । यथा महाराष्ट्रराज्ये डेक्कन् ओडिस्सी, राजास्थानराज्यस्यप्यालेस् आन् व्हील्स्’ तथा सुवर्णरथयानम् सुव्यवस्थितम् अस्ति । अस्य संरचनायाः कृते २६ कोटिरुप्यकाणि व्ययीकृतानि सन्ति । अतिसुन्दरम् धूमशकटयानमेतत् १९ विभागयुक्तम् अस्ति । याने एव उपहारगृहं , सभाभवनं, व्यायामशाला इत्यादयः विभागाः सन्ति । आहत्य १०३ जनाः एव अनेन यानेन गन्तंथ शक्नुवन्ति । प्रत्येकं प्रवासिनः कृते जनद्वयं सेवानिरतं भवति । एतत् यानं बेङ्गळूरुतः मैसूरु हासन हम्पी गदग् हुब्बळ्ळीमार्गात् गोवाराज्यस्य सम्पर्कं कल्पयति । मार्गे श्रीरङ्गपट्टणम् बेलूरुहळेबीडु श्रवणबेळगोळ ऐहोळे बादामी पट्टदकल्लु प्रदेशदर्शनमपि भवति । अस्य प्रवासस्य ६२० कि.मीमार्गः । सप्तदिनेषु एकवारं प्रवासः समाप्तः भवति । षण्णां रात्रीणां शयनव्यवस्था धूमशकटयाने एव भवति । विशेषयात्रिकानामेव एतत् सौकर्यम् उपयुक्तम् अस्ति । मूल्यं च अधिकं भवति । क्रिस्ताब्दे २००८ तमे एतत् यानम् कार्यरतम् अभवत् ।