लेपाक्षी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
लेपाक्षी

లేపాక్షి

Lai Pakshi
Village and Mandal
देशः  भारतम्
State आन्ध्रप्रदेशः
District अनन्तपुरम्
Population
 (2001)
 • Total ४२,१०१
Languages
 • Official तेलुगु
 • Other तेलुगु, कन्नड, उर्दु.
Time zone UTC+5:30 (IST)
PIN
515331
Vehicle registration AP 02 [A,B,C...AB,AC..] [XXXX..4 Numbers]
Nearest city Hindupur, AP
Climate dry and hot (Köppen)

लेपाक्षी- शिल्पकलाचातुर्यम् आन्ध्रप्रदेशे लेपाक्षी इत्यत्र विजयनगरसाम्राज्ये पेनुकोण्ड-आस्थाने कोशाधिपतिना विरूपण्णेन निर्मितानि शिल्पानि सन्ति । निर्माता श्रीविरुपण्णः क्रिस्ताब्दे १५३८ तमे वर्षे श्री दुर्गादेवालयं श्रीवीरभद्रदेवालयं तथा बहन्नन्दिविग्रहं च निर्मितवान् । एषः नन्दिविग्रहः भारते एव अतिमहान् इति ख्यातः अस्ति । कूर्मशैले देवालयः प्रतिष्ठापितः अस्ति । अन्तः मण्डपे ६० स्तम्भाः शिल्पयुक्ताः सन्ति । प्रत्येकस्थम्भं वैशिष्ट्यम् अस्ति । मण्डपे छद्यां शतदलकमलचित्रणम् अतीव सुन्दरम् अस्ति । परशिवस्य विविधाः भङ्ग्यः चित्रिताः सन्ति । गर्भगृहस्य पुरतः महाविष्णुः प्रतिष्ठापितः अस्ति । गर्भगृहे छद्याम् २४x१४ पादमितं वीरभद्रस्वामिचित्रम् अस्ति । देवालयस्य पार्श्वे श्री पार्वतीपरमेश्वरकल्याणमण्डपम् अपूर्णम् अस्ति । तस्य स्थम्भेषु अपि उत्तमशिल्पानि सन्ति । एकस्य गोः शरीरे तिस्रः गावः दृश्यन्ते । तथा मर्कटद्वयस्य शिल्पे त्रयः मर्कटाः दृश्यन्ते । सङ्गीतकाराणां तथा नर्तकानामपि अनेकानि शिल्पानि सन्ति । स्वल्पदूरे शिलास्थालिकाः सन्ति । तस्य कारणं किम् इति न ज्ञायते ।

मार्गः[सम्पादयतु]

वाहनमार्गे हिन्दुपुर, पुट्टपर्ती, बागेपल्ली स्थानेभ्यः सम्पर्कः अस्ति । हिन्दुपुरे धूमशकटवाहन- निस्थानमास्ति । हिन्दुपुरतः २४.कि.मी ।

चित्रशाला[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=लेपाक्षी&oldid=332470" इत्यस्माद् प्रतिप्राप्तम्