माथेरान्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
माथेरान्
गिरिधाम
राज्यम् महाराष्ट्रम्
मण्डलम् रायगढमण्डलम्
Area
 • Total ७ km
Elevation
८०० m
Population
 (2001)
 • Total ५,१३९
 • Density ७३०/km
Languages
 • Official मराठी, हिन्दी, आङ्ग्लभाषा
Time zone UTC+5:30 (IST)
PIN
410102
Telephone code 02148
Vehicle registration MH-06
Nearest city Karjat
लूयिस् पायिण्ट्

माथेरान् गिरिधाम (०२१४८)[सम्पादयतु]

दक्षिणप्रस्थभूमेः सह्याद्रिपर्वतश्रेण्याः हरिद्वनेषु अत्यन्तं सुन्दरम् अपूर्वं गिरिधाम एतदस्ति । सागरस्तरतः ८०३ मीटरोन्नते प्रदेशे एतत् गिरिधाम अस्ति । ठाणाविभागस्य आङ्गलाधिकारी ह्यूग मालेट् क्रिस्ताब्दे १८५० तमे वर्षे एतत् प्रथमतः दृष्टवान् । अनन्तरं नेराळप्रदेशतः वाहनमार्गनिर्माणं कारितवान् । क्रिस्ताब्दे १९०७ तमे वर्षे मुम्बयीवणिक् पीरभायीपुत्रः अब्दुल् हुसेन् धूमशकटयान् सौलभ्यं कारितवान् ( तस्मिन् काले एतस्य व्ययः १६लक्षरूप्यकाणि)। अत्र पक्षिवीक्षणं दृश्यवैभवं वनप्रदेशे पादचारणं च आनन्दविषयाः सन्ति ।

सूर्योदयात्पूर्वमेव दृश्यवीक्षणाय निश्चितं स्थानं प्राप्तव्यं भवति । पोर्कुपैन् पायिण्ट् लूयिस् पायिण्ट, ६ कि.मी दूरे स्तः । अन्यानि स्थानानि नाम कपाडिया पायिण्ट्, नवरोजिलार्ड्स् उद्यानं, शिवाजील्याडर्, इत्यादीनि सन्दर्शनयोग्यानि सन्ति । उपरिष्टात् कन्दरदर्शनं चेतोहारि भवति । वृक्षाः अपि दर्शनीयाः सन्ति । चारलोट्टेनामकं किञ्चन सुन्दरसरोवरम् । अत्र नौकाविहारः तरणं मत्स्यग्रहणं च आनन्दकारणानि भवन्ति । अस्मिन् गिरिधाम्नि वाहनानि न आगच्छन्ति । वाहनानां निषेधः अस्ति । तथा प्लास्टिक् इत्यादीनामपि निषेधः अस्ति । ४० निमेषान् यावत् पादचारणेनैव गन्तव्यं भवति । पादचारणाय अत्र उत्तमव्यवस्था अस्ति ।

व्यवस्था[सम्पादयतु]

वासाय महाराष्ट्रप्रवासोद्यमनिलयाः सन्ति । उपाहारवसतिगृहाणि अपि अत्र सन्ति । पर्वतप्रदेशे सञ्चाराय अश्वशकटानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

मुम्बयीपुणेमार्गे नैराल् निस्थानतः २५ कि.मी । मुम्बयीतः १०८ कि.मी । पुणेतः १४० कि.मी ३ कि.मी पादचारणेनैव गन्तव्यम् । अक्टोबरमासतः जनवरीमासं यावत् उत्तमः कालः भवति ।

चित्रशाला[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=माथेरान्&oldid=390217" इत्यस्माद् प्रतिप्राप्तम्