मार्कण्डेयपुराणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


मार्कण्डेयपुराणम्  
लेखक वेदव्यास:
देश भारतम्
भाषा संस्कृतम्
शृंखला पुराणम्
विषय शक्तिमहिमा
प्रकार हिन्दू-धार्मिक-ग्रन्थ:
पृष्ठ ९,००० श्लोका:

मार्कण्डेयपुराणं (MarkandeyaPurana) प्राचीनतमपुराणेषु अन्यतमम्। पञ्च अपि पुराणलक्षणयुक्तं इदं ९००० श्लोकात्मकं ,१३८ अध्याययुक्तमस्ति। लोकप्रियपुराणं मार्कण्डेयऋषिः ब्रह्मणा प्राप्य क्रौष्ठिकाय प्रोक्तमिति कथ्यते। अस्मिन् पुराणे ऋग्वेदस्य अग्नि:, इन्द्र:, सूर्य: इत्यादिदेवतानां विषये विवेचना कृता अस्ति। तथैव गृहस्थाश्रमस्य दिनचर्या, नित्यकर्मादीनां चर्चा अस्ति। भगवत्याः विस्तृतमहिमाया: परिचयदातरि अस्मिन् पुराणे दुर्गासप्तशत्या: कथा: एवं माहात्म्यं, हरिशचन्द्रस्य कथा, मदालसा-चरित्रम्, अत्रि-अनसूययो: कथा, दत्तात्रेय-चरित्रम् इत्यादीनाम् अनेक-सुन्दर- कथानां विस्तृत वर्णनं अस्ति। तत्रापि महाविष्णु-सरस्वती-शङ्कर-देवी-सूर्यादीनां स्तुतिः बाहुल्येन दृश्यते।

सत्येनार्कः प्रतपति सत्ये तिष्टति मेधिनी।
सत्यं चोक्तम् परोधर्मः स्वर्गः सत्ये प्रतिष्टितः॥
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते॥

इत्यादीनि सत्यप्रतिपादकानि वाक्यानि मार्कण्डेयपुराणस्य औन्नत्यं प्रदर्शयति। राजसपुराणे अस्मिन् विश्वस्य भक्ति-योग-दार्शनिक-भूस्वरूप-राजनीति-दण्डनीति-शैक्षणिकादीनि विषयादीनि सुष्टु निरूपितमस्ति।महाभारते संदिग्धेषु विषयेषु स्पष्टं उत्तरं दत्त्वा महाभारतस्य औचित्यं निर्मितमस्ति।एवं स्वयं मार्कण्डेयः एतत्पुराणद्वारा लोके धर्मं सम्स्थाप्य 'पुराणाचार्य' इत्येव नामं प्राप्तवान्।

[१]

विस्तार:[सम्पादयतु]

सन्दर्भ:[सम्पादयतु]

  1. गीताप्रेस डाट काम

बाह्यनुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मार्कण्डेयपुराणम्&oldid=480789" इत्यस्माद् प्रतिप्राप्तम्