पूरणपोलिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


पूरणपोलिका

साहित्यम् परिमाणम्

१ चणकदलम्- कंस-मितम्
२ शर्करा (अथवा गुड:)- पादोन-कंसमिता
३ कणिक: (गोधूमपिष्टम्)- सार्ध-कंसमित:
४ तैलम्- पोलिकाभर्जनाय यावदावश्यकम्
५ जातीफलचूर्णम् एलाचूर्णं च- सौरभ्यार्थं यावदावश्यकम्।
६ लवणम्- रोचनामात्रम्

उपकरणानि
पोलिकापट्ट: वेल्लनी च भ्राष्ट्रम् पूरणयन्त्रम्। स्वेदनयन्त्रम् (कूकर)

कृति:
१ चणकदलं शोधनीयं, क्षालनीयं, मृदु स्वेदनीयं च।
२ स्विन्नं दलं सुमर्दनीयम्
३ तत्र गुड: अथवा शर्करा मेलनीया।एतत् मिश्रणं पुन: मन्दाग्नौ घनीभवनं यावत् स्वेदनीयम्। एतत् पूरणम्।
४ पूरणं यदा शीतं भवति, तदा तत्र जातीफलचूर्णम् एलाचूर्णं च मेलनीयम्।पूरणयन्त्रेण (अथवा मिश्रकयन्त्रेण) मर्दयित्वा श्लक्ष्णं करणीयम्।
५ गोधूमपिष्टे ईषत् लवणं मेलनीयम्।जलेन तस्य मर्दनं करणीयम्।
६ मर्दितकणिकस्य शिथिला: पिण्डा: करणीया:।
७ प्रत्येकं पिण्डे गर्तं कृत्वा तत्र पूरणं निधाय पिण्ड: निमेलनीय:।
८ अस्य पिण्डस्य मृदुना हस्तेन पोलिका करणीया।
९ पोलिकापट्टं तिर्यक् कृत्वा पोलिका करतले स्वीकरणीया, भ्राष्ट्रे शनै: संस्थापनीया च।
१० किञ्चित् तैलं सिक्त्वा मन्दे अग्नौ भर्जनीया।
सा एषा पूरणपोलिका। दुग्धेन वा घृतेन वा सह स्वादुतरा भवति।

बाह्यतन्तु:[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पूरणपोलिका&oldid=481657" इत्यस्माद् प्रतिप्राप्तम्