अक्षराणामकारोऽस्मि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

[[Category:]]

श्लोकः[सम्पादयतु]

गीतोपदेशः
अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ ३३ ॥

अयं भगवद्गीतायाः दशमोऽध्यायस्य विभूतियोगस्य त्रियस्त्रिंशत्तमः(३३) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च अहम् एव अक्षयः कालः धाता अहं विश्वतोमुखः ॥ ३३ ॥

अन्वयः[सम्पादयतु]

अक्षराणाम् अकारः अस्मि । सामासिकस्य द्वन्द्वः च । अहम् एव अक्षयः कालः । विश्वतोमुखः धाता अहम् ।

शब्दार्थः[सम्पादयतु]

अक्षराणाम् = वर्णानाम्
अकारः अस्मि = अकारः अस्मि
सामासिकस्य = समाससमूहस्य
द्वन्द्वः च = द्वन्द्वसमासः च
अक्षयः = अक्षीणः
कालः = समयः
विश्वतोमुखः = सर्वतोमुखः
धाता अहम् = कर्मफलदाता अहम् ।

अर्थः[सम्पादयतु]

वर्णेषु अकारः अस्मि । समाससमुदाये द्वन्द्वसमासः अस्मि । अहम् एव अक्षीणः कालः । सर्वजगतः सर्वतोमुखः कर्मफलदाता च अहम् अस्मि ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अक्षराणामकारोऽस्मि...&oldid=439097" इत्यस्माद् प्रतिप्राप्तम्