अगस्त्यवृक्षः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अगस्त्यवृक्षः/Sesbania grandiflora
அகத்திப்பூ.jpg
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae[१]
वंशः Sesbania
जातिः S. grandiflora
द्विपदनाम
Sesbania grandiflora
(L.) Poiret

अयं वृक्षः २०-३० पादपरिमितम् उन्नतः भवति १/२ -१ पादपरिमितदीर्घेषु संयुक्तपन्नेषु ४१-६१ पत्रकाणि भवन्ति । पुष्पं श्वेतं, नौकाकारे भवति । अस्मिन् २-४ अक्षीयमञ्जर्यः भवन्ति । अस्य शिम्बा (ब्रीजकोशः) एकपादपरिमिता दीर्घा किञ्चित् वक्रा च भवति । शरदृतौ पुष्पाणि, शीतकाले फलानि च भवन्ति । आकाशे अगस्त्यनक्षत्रस्य उदये सति पुष्पाणि भवन्ति इति कारणेन अस्य नाम अगत्यः मुनुद्रमः इति अस्ति । बङ्ग्गालप्रदेशे अयम् अधिकतया वर्धते इति कारणेन वङ्गसेनः इत्यपि अस्य नामान्तरं विद्यते । अयम् अत्यन्तं शीघ्रं वर्धते म्रियते च ।

वर्धनस्थलम्[सम्पादयतु]

अगस्त्यवृक्षः मूलस्थानं मलेशिया इति वदन्ति । मसिषस्, ईजिप्ट् आष्ट्रेलिया इत्यादिषु देशेषु अयम् अधिकतया दृश्यते । अयं भारते अपि सामान्यतः सर्वत्र दृश्यते । गृहोद्यानेषु, उद्यानेषु, पूगवाटिकासु च एनं वर्धयन्ति ।

उपयोगः[सम्पादयतु]

अगस्थवृक्षस्य सर्वेषु भागेषु औषधीयगुणधर्माः सन्ति । प्राचीनकालतः अयं भारतीयानां परिचितः । अनेकेषु आयुर्वेदग्रन्थेषु अस्य उलेखः लभ्यते । अस्य उपयोगाः अधः निरुपिताः

१) अस्य मूलं, त्वजं वा कुट्टयित्वा लेपयन्ति चेत् सन्धिवातसदृशाः तीव्रवेदनायुक्ताः रोगाः उपशाम्यन्ति ।
२) पर्णानां कल्कं सज्जीकृत्य पिटकानाम् उपरि लेपनं फलप्रदम् ।
३) शिरोवेदना पीनसः, कफः, ज्वरः इत्यादिषु अगस्त्यस्य पर्णस्य रसः नस्यवत् प्रयुज्यते । त्वचः रसः मधुना सह सेव्यतेच
४) अपस्मारोगे अपि अस्य पर्णानां रसस्य नस्यवत् सेवनं परिणामकारि ।
५) अगस्त्यस्य पक्वफलस्य सेवनं बुद्धिशक्तिं वर्धयतु मस्तिष्कस्य दौर्बल्यं दूरीकरोति च ।
६) तिमिरः, नक्तान्धता इत्यादिषु नेत्ररोगेषु अस्य पर्णस्य पुष्पस्य च रसः सेव्यते चेत् दृष्टिशक्तिः वर्धते ।
७) अजीर्णता, क्रिमिदोषः, उदरवेदना इत्यादिषु जीर्णाङ्गसमस्यानां निवारणाय अगस्त्यस्य पर्णानां पुष्पाणां च उपयोगः शाकवत् क्रियते । व्यञ्जनादिकं निर्मीय खादनेन समस्याशमनं भवति
८) अतिसारे आमशङ्कायां च अस्य त्वचः रसं मधुना सह सेवन्ते ।
९) महिलानां सम्बद्धेषु श्वेतप्रदरादिषु, गोनोरियारोगे विषसेवने च अगस्त्येस्य औषधं परिणामकारि ।

अगस्त्यस्य पुष्पाणि rightअगस्त्यस्य पुष्पस्य खाद्यम्

औषधसेवन परिमाणः[सम्पादयतु]

अस्य रसः १०-२० मि.ली, कषायः ५०-१०० मि.ली. परिमाणे च सेवितुं शक्यते ।

अगस्त्ये रासायनिकांशाः[सम्पादयतु]

अस्मिन् प्रोटीन् , अनेके जीवसत्त्वाः ,;लोहाः , कानिचन विशिष्टानि रासायनिकानि च सन्ति । त्वचि टयानिनु रक्तवर्णस्य कश्चन निर्यासः च विद्यते । पर्णेषु प्रोटीन्, क्याल्सियं, रञ्जकं अयः, ए-बि-सि- जीवसत्त्वाः च भवन्ति । पुष्पेषु प्रोटीन् ए-बि- जीवसत्वाः भवन्ति । बीजे अत्यधिकपरिमाणे अर्थात् माकिं ७०% प्रोटीन् भवति । अन्येषु कषु अपि वनस्पतिषु एतावति प्रोटीन न भवति । बीजे प्रोटीनीनेन सह कार्बोहैड्रेट्, किञ्चित् विधं तैलं च भवति ।

टिप्पणी[सम्पादयतु]

  1. Prajapti, Purohit, Sharma, Kumar , A Handbook of medicinal plants, Agro Bios (India), Edition Ist 2003, Page.473
"http://sa.wikipedia.org/w/index.php?title=अगस्त्यवृक्षः&oldid=255509" इत्यस्माद् पुनः प्राप्तिः