अग्निः
|
|
|
परम्पराः
|
|
प्रवेशद्वारम्:सनातनधर्मः |
अग्निः पञ्चभूतेषु अन्यतमः तथा तेजसः अभिमानिदैवतम् । अयं भगवतः मुखात् समुत्पन्नः । दक्षप्रजापतेः आत्मजा स्वाहा अग्निदेवस्य पत्नी । इक्ष्वाकुवंशसमुद्भूतस्य दुर्योधनस्यात्मजा सुदर्शना अस्य अपरा पत्नी । अर्जुनस्याश्रये खाण्डववनं दग्धवान् । तदवसरे अग्निः अर्जुनाय कपिध्वजोपेतं रथं,गाण्डीवधनुः,अक्षयतूणीरञ्च प्रायच्छत् । अग्निना एव श्रीकृष्णाय चक्रायुधं प्रदत्तम् । अयं भृगुमुनेः शापकारणेन सर्वभक्षकोऽभवत् । इन्द्राय यदा ब्रह्मवधदोषः सम्प्राप्तः तदा दोषस्य चतुर्षु अंशेषु एकः अंशः अग्निना स्वीकृतः । रामायणे,सीतायाः पातिव्रत्यम् अग्निना लोकमुखायोपदर्शितम् । अनलः इति तस्यापरं नाम ।| नास्ति अलं पूर्तिः अस्य भुञ्जानस्य इति कारणेन अनलः इत्युच्यते ।
ऋग्वेदे अग्निः [सम्पादयतु]
ऋग्वेदे विद्यमानेषु १०२८ सूक्तेषु २१८ सूक्तानि अग्निपराणि सन्ति । ऋग्वेदस्य प्रथमे सूक्ते अग्नि॒म् ई॑ळे पुरो॒हि॑तं यज्ञ॒स्य॑ देव॒म् ऋत्वि॒ज॑म् । होता॑रं रत्नधा॒त॑मम् इत्यत्र अग्नेः स्तुतिः सन्दृश्यते । अरणीमन्थनम् इति काचित् वैदिकप्रक्रिया । तया प्रक्रियया यागयज्ञ्यादीनां निर्वाहार्थम् अग्निः समुत्पाद्यते । मातरिश्वा,जातवेदाः इत्यादीनि अपराणि नामानि । गृहस्थस्य आहवनीय-गार्हपत्य-दक्षिणाग्नीनामाराधनम् आद्यं कर्तव्यम् । तदेव अग्निहोत्रम् इत्युच्यते । गृहस्थः निष्ठया प्रतिदिनम् अग्निहोत्रं पालयेदिति श्रुतिप्रमाणम् ।
अग्नेः स्वरूपम् [सम्पादयतु]
हिन्दूपरम्परायां रक्तवर्णयुक्तस्य,मुखद्वयोपेतस्य,कृष्णनेत्राभ्यां युक्तस्य,पादत्रयोपेतस्य,सप्तभुजयुक्तस्य च अग्नेः रूपं चित्रितम् । अस्य शरीरे च प्रखराः सप्त जिह्वाः ज्वलन्ति । अतः अस्य सप्तजिह्वा इति अपरं नाम ।