अतिरप्पिळ्ळी
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
सागरस्तरतः ४१०० पादपरिमितेन्नते प्रदेशे एषः जलपातः अस्ति । शोलेयार्नदीजलं २५० पादमितोन्नतप्रदेशात् पतति । अतीव सुन्दरः दृश्यवैभवः अत्र दृष्टुं शक्यते । बहुकालं यावत् न लक्षितः आसीत् एषः । इदानीं चलनचित्राणां चित्रीकरणमपि बहुधा अत्र भवति । तमिळ्चलनचित्रं ‘पुन्नगैमन्नन्’ अत्रैव चित्रितम् । अनेन जलपातस्य पुन्नगैमन्नन् जलपातः इति अपि नाम आगतमस्ति । अत्र वने नीलगिरिटर् प्राणिनः निवसन्ति । त्रिसहस्राधिकाः एते समूहे वसन्ति ।
मार्गः [सम्पादयतु]
बेङ्गळूरु-कन्याकुमारी-मङ्गळूरु-ट्रिवेण्ड्रम्नगरेभ्यः यानानि सन्ति । धूमशकटमार्गे चालकुडी निस्थानकं समीपेऽस्ति ।