अथर्ववेदः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अभिचारक्रियायाः प्राधान्येन प्रतिपादकोऽयं वेदः अथर्वनामकर्षिणा दृष्टत्वात् अथर्ववेद इत्युच्यते । अथर्ववेदे २० काण्डानि, ७३१ सूक्तानि, ५९८७ मन्त्रा विद्यन्ते । एषु मन्त्रेषु द्वादशशतमन्त्रा ऋग्वेदेऽपि दृश्यन्ते । विंशतिकाण्डे १५३ सूक्तानि सन्ति, तेषु द्वादशसूक्तानि अतिरिच्य शेषाणि सर्वाण्यपि ऋग्वेद स्य दशममण्डले समुपलभ्यन्ते । अथर्ववेदस्य नव शाखा आसन्, परं सम्प्रति शौनकपिप्पलादसमाख्ये द्वे एव शाखे प्राप्येते । प्रचलिता अथर्वसंहिता शौनकशाखान्तर्गता, पिप्पलादशाखासंहिताऽपि अनतिचिरेणैव मुद्रिता ।

अथर्ववेदस्य उपलब्धेषु अनेकाभिधानेषु अथर्ववेद-ब्रह्मवेद-अंगिरोवेद-अथर्वागिरेवेदादीनि नामानि प्रमुखतां भजन्ते । "थर्व" धातुः कौटिल्यार्थकः तथा हिंसावाचकः अस्ति । अत एव "अथर्व" शब्दस्य अर्थोऽस्ति यत् अकुटिलवृत्या अहिंसवृत्या च मनसः स्थैर्यप्राप्तकर्ता व्यक्तिः । अथर्वांगिरस्पदस्य व्याख्याकरणे सति प्रतीयते यत् ॠषिद्वयेन दृष्टानां मन्त्राणां समूहरूपः एव अथर्ववेदः । अथर्वदृष्टाः मन्त्राः शान्तिप्रपुष्टिकर्मयुक्ताः सन्ति, परन्तु अंगिरेदृष्टाः मन्त्राः आभिचारिकाः सन्ति । वेदेऽस्मिन् मारणमोहनोच्चाटनादीनां ज्वरापस्मारादिरोगविनाशकानाञ्च मन्त्राणां संग्रहोस्ति ।

ब्रह्मपुत्रेण अथर्वेण समाहृता इति अथर्ववेदः अन्वर्थं नाम । अथर्वाङ्गिराः, ब्रह्मवेदः इति नामान्तराणि । आथर्वसंहितायाः द्वे शाखे स्तः । शौनकीयशाखा, पैप्पलादशाखा चेति ।

भूर्जपत्रेषु शारदालिप्या लिखितस्य अथर्ववेदस्य पुरातनं पुस्तकं काश्मीरीयैः सम्पादितम् अस्ति । तद् अधुना ट्यूबि़ञ्जन् सर्वकलाशालायाः ग्रन्थसङ्ग्रहे अस्ति ।

पश्यतु[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=अथर्ववेदः&oldid=239796" इत्यस्माद् पुनः प्राप्तिः