अथैतदप्यशक्तोऽसि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः ।
सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य एकादशः(११) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अथ एतत् अपि अशक्तः असि कर्तुं मद्योगम् आश्रितः सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ॥ ११ ॥

अन्वयः[सम्पादयतु]

अथ एतत् अपि कर्तुम् अशक्तः असि ततः मद्योगम् आश्रितः यतात्मवान् सर्वकर्मफलत्यागं कुरु ।

शब्दार्थः[सम्पादयतु]

अथ = यदि
एतत् अपि = इदम् अपि
कर्तुम् = आचरितुम्
अशक्तः असि = असमर्थः भवसि
ततः = तर्हि
मद्योगम् = सर्वकर्मसमर्पणम्
आश्रितः = अवलम्बितः
यतात्मवान् = नियतचित्तः
सर्वकर्मफलत्यागम् = सकलकर्मप्रयोजनपरित्यागम्
कुरु = विधेहि ।

अर्थः[सम्पादयतु]

यदि विषयाकृष्टचित्तः उपवासव्रतानुष्ठानादीनि कर्माणि अपि आचरितुम् असमर्थः असि तर्हि नियतचित्तः सर्वेषां कर्मणां फलम् अविचारयन् मह्यं समर्पय ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अथैतदप्यशक्तोऽसि...&oldid=418386" इत्यस्माद् प्रतिप्राप्तम्