अथ चित्तं समाधातुं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् ।
अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ॥ ९ ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य नवमः(९) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् अभ्यासयोगेन तत: माम् इच्छ आप्तुम् धनञ्जय ॥ ९ ॥

अन्वयः[सम्पादयतु]

धनञ्जय ! अथ मयि चित्तं स्थिरं समाधातुं न शक्नोषि ततः अभ्यासयोगेन माम् आप्तुम् इच्छ ।

शब्दार्थः[सम्पादयतु]

धनञ्जय = अर्जुन !
अथ = यदि
चित्तम् = चेतः
स्थिरम् = निश्चलम्
समाधातुम् = स्थापयितुम्
न शक्नोषि = न प्रभवसि
ततः = तर्हि
माम् = माम्
अभ्यासयोगेन = चित्तस्य पुनः पुनः स्थापनेन
आप्तुम् = लब्धुम्
इच्छ = अभिलष ।

अर्थः[सम्पादयतु]

धनञ्जय ! यदि मयि चेतः निश्चलं स्थापयितुं न शक्नोषि तर्हि चित्तस्य पुनः पुनः स्थापनेन मां प्राप्तुं यतस्व ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अथ_चित्तं_समाधातुं...&oldid=418382" इत्यस्माद् प्रतिप्राप्तम्