अनानस् फलम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
अनानस्-फलम्
अनानस्-फलम्

[सम्पादयतु] चरित्रम्

वयम् अनानसफलं जानीमः एव । एतत् शिरसि पर्णमयं किरीटं धरति । एतस्य सौगन्ध्यम् अपि विशिष्टम् । एतत् फलं वस्तुतः ब्रेजिलमूलम् । दक्षिणामेरिकायां प्र्रुग्वेप्रदेशे चापि एतत् पाप्यते स्म पूर्वम् । १४१३ तमे वर्षे क्रिस्टोफरकोलम्बसः केरिबियनप्रवाससम्ये गौडलुयोद्वीपपरिसरे एतत् फलं लक्षितवान् । अमेरिकायाः मूलावासिनः (नेटिव्-इण्डियन्स्) दक्षिणकेन्द्रामेरिकाप्रदेशे प्र्दुग्वेप्रदेशे च एतस्य प्रसारं कृतवन्तः । युरोपखण्डे विपण्याम् अद्य एतत् प्राचुर्येण लभ्यते, किन्तु पुर्वम् एतत् कष्टलभ्यं महाघं च भवति स्म । राजा चार्ल्स् (द्वितीयः) उपायनरूपेण दत्तम् एतत् फलं साभिमानं गृहितवान् दृश्यते कस्मिंश्चित् चित्रे । एतत् सस्यं प्रायः २ मीटरुन्नतं वर्धते । एकमीटरविशालं च भवति । ल्ध्वाकारकः सिक्थमयः अङ्कुरः भवति एतस्य । स्मग्रे अपि वर्षे एतत् फलितं भवितुम् अर्हति । एतस्य सस्यस्य पर्णानि अपि बहूपयोगीनि । तेषु यः सिरांशः भवति ततः वस्त्रस्य निर्माणं क्रियते ।

[सम्पादयतु] बाह्यसम्पर्कतन्तुः

"http://sa.wikipedia.org/w/index.php?title=अनानस्_फलम्&oldid=193379" इत्यस्माद् उद्धृतम्
वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु