अन्नप्राशनसंस्कारः
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अन्नं प्राश्यते येन कर्मणा तदन्नप्राशनम् । षष्ठे मासि अथवा कुलधर्मत्वेन माङ्गल्यकालविशेषे मासेऽन्नप्राशनं करणीयमिति मनुना प्रोक्तम् । 'षष्ठे मासेऽन्नप्राशनम्' इति पारशगृह्यसूत्रम् । घृतोदनं तेजस्कामः दधिमधु घृतमिश्रमन्नं प्राशयेत्' इति आश्वलायनगृह्यसूत्रम् । सामान्यतः दधिमधुघृतमिश्रितमन्नं शिशवेऽन्नप्राशनाय प्रदीयते । काठकगृह्यसूत्रानुसारेण शिशोः दन्तजननानन्तरमन्नप्राशनं विधेयम् । तस्मिन् दिवसे सिध्दं सुमिष्टं चान्नमिष्टदेवेभ्यः उत्सर्गीकृत्य पिता पुत्रं मन्त्रपाठपूर्वकं भोजयेत् ।