अभ्यासेऽप्यसमर्थोऽसि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


श्लोकः[सम्पादयतु]

गीतोपदेशः
अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव ।
मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ॥ १० ॥

अयं भगवद्गीतायाः द्वादशोऽध्यायस्य भक्तियोगस्य दशमः(१०) श्लोकः ।

पदच्छेदः[सम्पादयतु]

अभ्यासे अपि असमर्थः असि मत्कर्मपरमः भव मदर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि ॥ १० ॥

अन्वयः[सम्पादयतु]

अभ्यासे अपि असमर्थः असि मत्कर्मपरमः भव । मदर्थं कर्माणि कुर्वन् अपि सिद्धिम् अवाप्स्यसि ।

शब्दार्थः[सम्पादयतु]

अभ्यासे अपि = अभ्यासयोगे अपि
असमर्थः असि = अशक्तः भवसि
मत्कर्मपरमः = मदर्थकर्माचरणप्रधानः
भव = भवतु
मदर्थम् = मामुद्दिश्य
कर्माणि = क्रियाः
कुर्वन् अपि = आचरन् अपि
सिद्धिम् अवाप्स्यसि = सिद्धिं प्राप्नोषि ।

अर्थः[सम्पादयतु]

अभ्यासयोगे अपि अशक्तः भवसि चेत् सर्वदा मामुद्दिश्य कर्माणि आचर । मदर्थं कर्माणि आचरन् अपि चित्तशुद्धिं लप्स्यसे ।

सम्बद्धसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]