अमरनाथः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अमरनाथः
अमरनाथस्य गुहा
अमरनाथः is located in Jammu and Kashmir
अमरनाथः
जम्मूकाश्मीरराज्ये अमरनाथस्य भौगोलिकावस्थितिः
भौगोलिकस्थितिः: 34°12′54″N 75°30′03″E / 34.2149°N 75.5008°E / 34.2149; 75.5008
नाम
शुद्धनाम: अमरनाथमन्दिरम्
अवस्थितिः
देशः:  भारतम्
राज्यम्: जम्मूकाश्मीरम्
अवस्थितिः: पहलगाम्,अनन्तनागः
स्थापत्यकला संस्कृतिश्च
मुख्यदेवः/देवी: शिवः
इतिहासः
स्रष्टा: प्राकृतिकसंरचना
जालस्थानम्: http://www.shriamarnathjishrine.com

अमरनाथः (हिन्दी: अमरनाथ, आङ्ग्ल: Amarnath) हिन्दूनां पवित्रतमं तीर्थधाम अस्ति । भारतस्य जम्मूकाश्मीरराज्यस्य राजधान्याः श्रीनगरात् १४१ कि.मी. दूरे स्थितास्ति अमरनाथस्य गुहा । भगवतः शिवस्य हिमलिङ्गस्य प्राकृतिकरचना भवति गुहायाम् । अतः तस्य गुहायाः नाम अमरनाथस्य गुहा इति । 'बरफानि बाबा', 'अमरदेव' इत्यादिनामान्तराणि सन्ति अस्य देवस्य । गुहायां प्राकृतिकरीत्या पार्वती-गणेशप्रतिमयोरपि हिमेन रचना भवति । आषाढमासस्य पूर्णिमातः आरभ्य श्रावणमासस्य पूर्णिमापर्यन्तं यात्रायाः समयः अस्ति । तस्यां समयावधौ लक्षशः जनाः अमरनाथस्य दर्शनाय गच्छन्ति । क्लिष्टतमा एषा यात्रा भक्तानां मनोरथान् साधयति ।

गुहावर्णनम्[सम्पादयतु]

अमरनाथस्य गुहा षष्ठिः पादं (foot) यावत् लम्बमाना, त्रिंशत् पादं यावत् विस्तीर्णा, पञ्चदश पादं यावत् उत्तुङ्गा अस्ति । देश-विदेशयोः पुरातत्ववेत्तारः स्वमतं दातुम् असमर्थाः जाताः यत्, एषा गुहा प्रकृतेः अद्भुतकृतिः उत मानवस्य उत्तमकला इति । भक्तानां विश्वासः अस्ति यत्, समुद्रतटात् १२,७५६ पादं यावत् उत्तुङ्गा एषा गुहा शिव-प्रकृत्योः कृतिः अस्तीति । कारणं गुहायाः विषये शिव-शक्योः पौराणिकी कथा वर्तते । गुहां परितः हिमयुक्ताः पर्वताः सन्ति । परन्तु गुहा यस्य पर्वतस्य भागः अस्ति, तस्मिन् पर्वते हिमः न भवति इति तु कश्चन विशेष एव । अमरनाथगुहायाः पूर्वे स्थितस्य पर्वतस्याकारः गजाकारः अस्ति । अतः तस्य पर्वतस्य नाम 'हातीमान'-पर्वतः । गुहायाः उत्तरे स्थितस्य पर्वतस्य नाम नागापर्वतः इति । तस्य पर्वतस्योपरि सर्वदा हिमः दरीदृश्यते । पूर्वं गुहागमनाय योग्यः मार्गः नासीत्, सम्प्रति तु गुहां प्राप्तुं सुपथः अस्ति । तं पथम् उभयतः आरम्बणम् (Railing) अपि अस्ति ।

गुहान्वेषणम्[सम्पादयतु]

Cave Temple of Lord Amarnath.jpg

गुहायाः अन्वेषणम् इत्यनेन कोऽपि गुहाम् अन्विषन् गतवान्, पश्चात् तस्यान्वेषणस्य फलत्वेन गुहायाः ज्ञानम् अभवत् इति न, अपि तु भगवदिच्छया, अकस्मात् वा गुहायाः ज्ञानमभवदित्यर्थः गृह्यते । षोडशे शताब्दे 'मल्लिक'-नामकः कश्चन यवनगोपालकः अजान्वेषयन् पर्वतारोहणं प्रारभत । मार्गे श्रान्तः सः विश्रामोचितस्थलं मत्वा एकां गुहां प्राविशत । गुहायां किञ्चित् समयं यावत् स्थित्वा सः इतस्ततः दृष्टिम् अपातयत् । तत्र प्राकृतिकशिवलिङ्गम् अपश्यच्च । एतत् शिवलिङ्गमेव स्यात् इति सः अनुमानम् अकरोत् । ततः गृहं गत्वा सः तस्याः गुहायाः विषये ग्रामजनान् अकथयत् । ग्रामजनाः तस्य कथनं सत्यम् उत नेति परीक्षणाय तेन सह गुहाम् अगच्छन् । गुहां प्रविश्य सर्वेषां ज्ञानमभवत् यत्, एतत् तु शिवलिङ्गमेव इति । संशोधने कृते सति पुराणादिषु अमरनाथस्य उल्लेखः प्राप्तः । तस्याः गुहायाः उत्पत्तिविषये इतिहासे उल्लेखोऽपि प्राप्तः । एवं शिवलिङ्गस्य प्राप्तेः वार्तायाः प्रसारे सति गुहां प्रति असङ्ख्याकाः जनाः यात्रां प्रारभन्त । प्रतिवर्षं कोटिशः जनाः अमरदेवस्य दर्शनाय गच्छन्ति । अमरनाथस्य गुहाम् एकः यवनः अन्विष्टवान् इत्यतः अमरनाथाय यद्धनं भक्ताः ददति, तस्य धनस्य पञ्चविंशतिप्रतिशतं (चतुर्थांशं) धनं यवनेभ्यः ददाति सर्वकारः । गुहायाः दर्शनम् एक कि.मी. दूरादपि भवति । अतः यात्रायाम् आगतानां भक्तानां मनसि शिवदर्शनस्य ईप्सा वर्धते । वर्धितायाम् ईप्सायां भक्ताः अमरनाथो विजयतेतराम् इति घोषेण स्वभगवन्तं प्रति शीघ्रं गच्छन्ति ।

शिवलिङ्गम्[सम्पादयतु]

अमरनाथगुहायां स्वयम्भुवः शिवलिङ्गस्य दर्शनं भवति । गुहायाः छदिषः (छदि = Roof) जलबिन्दवः पतन्ति । ते जलबिन्दवः हिमरूपं धरन्ते, तत् हिमरूपं शिवलिङ्गाकारं भवति । शिवलिङ्गस्याकारः चन्द्रस्य कलानुसारं वर्धते, न्यूनयति च । प्रारम्भिके काले, सामान्यतः 'जून'-मासे शिवलिङ्गस्य यदा प्रप्रथमदर्शनं भवति, तदा षोडश-तः अष्टाविंशतिः पादं यावत् शिवलिङ्गाकारः भवति । ततः शैत्यं यदि वर्धते, तर्हि विंशति-तः द्वाविंशतिः पादं यावत् शिवलिङ्गाकारः भवति । शिवलिङ्गानुगुणं तत्र पार्वती-गणेशयोः प्रतिमायां वर्धनं, न्युनता च दरिदृश्यते । आश्चर्यस्य विषयोऽस्ति यत् "सामान्यतः हिमस्थलेषु द्रावितजलेन यदि हिमखण्डः भवति, तर्हि तं हिमखण्डं हस्तात् चूर्णं कर्तुं शक्नुमः, तावान् मृदुः भवति हिमखण्डः । परन्तु अमरनाथस्य शिवलिङ्गं दृढं भवति ।" शिवलिङ्गं यदा अदृश्यं भवति, तदा यात्रायाः अन्तः । किन्तु मान्यतास्ति यत्, गुहायां स्थितं कपोतयुगलं तत्रैव तिष्ठति इति ।

अमरनाथसल्लग्ना कथा[सम्पादयतु]

अमरनाथस्य पूजा कदा प्रारब्धा इति अनुमातुं न कोऽपि समर्थः । 'मल्लिक'-नामकयवनद्वारा यत् अन्वेषणं जातं, तत् तु समीपस्थे भूतकाले एवाभूत् । परन्तु पुराणेषु, इतिहासे च उल्लिखितमस्ति गुहाविषये येन ज्ञायते गुहायाः, अमरनाथस्य च प्रादुर्भावः बहु पुरातनः इति । अमरनाथेन, गुहया च सह सल्लग्नं कथाद्वयमस्ति ।

कपोतयुगलकथा[सम्पादयतु]

एकवारं पार्वती सदाशिवं प्रश्नम् अकरोत्, "भवान् अमरः अस्ति, अहं तु पुनः पुनः जन्ममृत्योः चक्रे भवामि । किमहम् अमरा भवितुं नार्हामि?" तदा शिवः अकथयत्, "अहम् एकां गुह्यतमाम् अमरकथां कथयामि । ताम् अमरकथां श्रृत्वा त्वमपि अमरा भविष्यसि" इति । कथायाः गोपनीयत्वात् गुह्यं स्थलम् आवश्यकम् आसीत् । कारणम् अन्यः कोऽपि इमां कथां यदि शृणोति, तर्हि सोऽपि अमरः भवति । अतः शिवः पार्वत्या सह हिमालयं प्रति यात्रां प्रारभत । कथां श्रावयितुं शिवः अत्युत्सुकः जातः । शिवस्य उत्साहे सति मार्गे भिन्नेषु स्थानेषु शिवस्य शरीराभूषणानि पतितानि । शिवाभूषणानि, लघवः अनन्तनागाः हिमालयस्य एकस्मिन् पर्वते पतिताः । अतः तस्य स्थलस्य नाम अनन्तनाग इति अभवत् । ललाटे धृतं चन्दनं यत्र पतितं तस्य पर्वतस्य नाम ‘चन्दनबाडी’ इति अभूत् । शिवस्य पादतले ये जन्तवः आसन्, ते यत्र पतिताः, तस्य स्थलस्य नाम ‘पिस्सू घाटी’ इति अभूत् । हिन्दीभाषायाः जन्तु-शब्दस्यार्थः ‘पिस्सू’ इति । शेषनागः यस्मिन् पर्वते पतितः, तस्य स्थलस्य नाम शेषनाग इति । तत्र एका नदी अपि अस्ति । तस्याः नद्याः नाम अपि शेषनाग इति एव । एतानि सर्वाणि स्थलानि अमरनाथयात्रायाः मार्गे सन्ति । कथाप्रारम्भात् पूर्वं गुहायां शिवः उक्तवान्, “पार्वति ! त्वं कथां शृणु, कथाश्रवणेन सह हँ हँ इति नादमपि कुरु येन त्वं कथां शृण्वन्ती असीति मम ज्ञानं भवति” इति । शिववचनं पार्वती अङ्गीकृतवती । पार्वती अर्धकथां श्रुत्वा निद्राधीना अभूत् । परन्तु हँ हँ इति नादस्तु न स्थगितः । कथाश्रावणे रतः शिवः हँ हँ इति नादं शृणोति स्म । अतः सः सम्पूर्णाम् अमरकथाम् अश्रावयत् । समाप्तायां कथायां शिवः अपश्यत्, पार्वती तु निद्राधीनास्ति, तथापि हँ हँ इति नादः कथं श्रूयते इति ध्यानस्थो भूत्वा सर्वं वृत्तान्तम् अजानीत सः । शिवपार्वत्यौ यस्यां गुहायां स्थितौ आस्तां, तस्यां गुहायाम् एकं कपोतयुगलमपि आसीत् । तत् युगलमपि कथां शृण्वन्नासीत् । कथायाः मध्ये यदा पार्वती निद्राधीना जाता, तदा कपोतयुगलं हँ हँ इति नादं प्रारभत । एवं तत् कपोतयुगलमपि पूर्णाम् अमरकथाम् अशृणोत् । अमरनाथगुहायाम् अद्यापि एकं कपोतयुगलम् दरीदृश्यते । अतः एका किंवदन्ती प्रचलितास्ति यत्, यत् कपोतयुगलम् अमरकथाम् अशृणोत् तदेव अमरं भूत्वा अद्यापि जीवदस्ति इति ।

शुकदेवकथा[सम्पादयतु]

कपोतयुगलस्य या कथा, सा एव शुकदेवकथा । एतावानेव भेदः शुकदेवकथायां कथाश्रोता शुकः । शिवः यदा अजानत् यत्, शुकः अमरकथाम् अशृणोत्, तदा शिवः तं मारयितुम् उद्युक्तः जातः । परन्तु शुकः वेदव्यासस्य पत्न्याः गर्भं प्राविशत । अतः शिवः किमपि कर्तुमसमर्थः जातः । प्रसवकालातीते सत्यपि शुकः गर्भात् न न्यर्गच्छत् । तेन वेदव्यासस्य पत्न्याः गर्भपीडा अत्यधिका अभवत् । अतः वेदव्यासः पत्न्याः पीडायाः निवारणाय ब्रह्मणः समीपं अगच्छत् । ब्रह्मा वेदव्यासं विष्णोः समीपम् अप्रेशयत्, विष्णुः तं शिवस्य समीपम् अप्रेशयत् च । सर्वे मिलित्वा गर्भात् बहिः निर्गमनाय गर्भस्थं शुकदेवं यदा अप्रार्थयन्, तदा शुकदेवः अकथयत्, "संसारस्तु मोहपाश एव । संसारस्य सर्वे जनाः निर्मोहिणः भवेयुः चेदेवाहं बहिः आगच्छामि" इति । एतच्छ्रुत्वा शिवः स्वशक्त्या संसारस्य सर्वान् जनान् यदा निर्मोहिणः अकरोत्, तदा शुकदेवः गर्भात् निर्गत्य साक्षात् वनं प्रति अगच्छत् ।

इतिहासः[सम्पादयतु]

अमरनाथस्य पूजा कदा प्रारब्धा इति अनुमातुं न कोऽपि समर्थः । परन्तु इतिहासे अमरनाथपूजायाः उल्लेखः प्राप्यते । ३०० BCE पूर्वं काश्मीरराज्यस्य आर्यराजनामकः कश्चन राजा स्वयम्भुवः हिमशिवलिङ्गस्य नित्यं पूजां करोति स्म । एतत् वर्णनं राजतरङ्गिणीनामके पुस्तके प्राप्यते । एकादशे शताब्दे उद्भूता सूर्यमतीनामिका राज्ञी अमरनाथस्य परमभक्ता आसीत् । एवं पुरातनेतिहासस्य ग्रन्थेषु अमरनाथस्येतिहासः प्राप्यते । यवनान्वेषणेन तु गुहायाः पुनः प्राप्तिः एव ।

अमरनाथयात्रा[सम्पादयतु]

अमरनाथयात्रा श्रावणमासस्य शुक्लपक्षस्य चतुर्थी-तः आरभते । आभारतात् कोटिशः शिवभक्ताः यात्रायां भागं वहन्ति । यात्रायां भागम् ओढुं पञ्जीकरणम् आवश्यकम् । पञ्जीकरणपत्रं जालस्थानात्, पत्रालयात्, यात्राव्यवस्थापककार्यालयात् वा प्राप्यते । यात्रायै रुग्णाः, वृद्धाः, शिशवः च वर्ज्याः सन्ति । यात्रिकाणां स्वास्थ्यपरीक्षणं भवति । ततः पत्रमाध्यमेन सर्वकारात् अनुमतौ प्राप्ते सति सर्वे शिवभक्ताः श्रीनगरस्य 'दशनामी अखाडा' इत्यस्मिन् स्थाने एकीभवन्ति । तत्रापि पुनः स्वास्थ्यपरीक्षणं कृत्वा अग्रे यात्रायै अनुमतिं ददति वैद्याः । भक्तवृन्दे साधवः, सत्सङ्गिनः, पुरूषाः, स्त्रियः, बालकाः, किन्नराः च भवन्ति । यात्रामार्गे हिमाच्छादितपर्वताः, हिमाच्छादितमार्गाः, हिमाच्छादितनद्यः च भवन्ति । शैत्यत्वात् शितकाले ध्रियमाणानि वस्त्राणि आवश्यकानि तत्र । हिमाच्छादितमार्गेषु चलितुं यष्टिकायाः, हिमानुकूलपादत्राणयोरपि आवश्यकता भवति । कास-पीनसादिसामान्यरोगेभ्यः स्वानुकूला औषधिरपि आवश्यकी । पर्वतविस्तारे वायोः न्यूनता भवति । अतः श्वासक्रिया क्लिष्टकरा भवति । तस्य निवारणाय औषधिः नेतव्या । मार्गे प्रप्रथमं अनन्तनागनामकं नगरम् अस्ति । जम्मूकाश्मीरराज्यस्य मुख्यनगरेषु अन्यतममस्ति एतत् नगरम् । अत्र अलखनागनामकः जलपातः अस्ति । ततः मार्गे चन्दनबाडी-पहेलगाम-पिस्सूघाटी-कुट्टाघाटी-वायुजन-भैरवघाटी-अमरनाथघाटी-इत्यादिषु स्थलेषु दृश्यमानानि रमणीयानि प्राकृतिकदृश्यानि भक्तानां मनसि शिवानुरागं दृढीकुर्वन्ति ।

अमरनाथयात्राविषये किञ्चित्[सम्पादयतु]

• यात्रा त्रिंशत् कि.मी. परिमितास्ति ।
• तापमानम् ऋणपञ्च (-50C) डिग्री-पर्यन्तं भवति । परन्तु सूर्यातपः यदा भवति, तदा चर्मदग्धं भवेत् तथा आतापः भवति । अतः स्वास्थ्यस्य चिन्तनम् अधिकं करणीयं भवति ।
• यात्रायाः पूर्वं दशदिनानि यावत् पञ्च कि.मी. वेगेन चलनायाभ्यासः करणीयः । एवं कृते सति यात्राकाले श्रान्तता नानुभूयते ।
• वस्त्राणि, पादत्राणानि च उत्तमगुणवत्तायाः भवेयुः चेत् यात्रायां न्यूनाः विघ्नाः भवन्ति ।
• स्वास्थ्यसम्बद्धानि वस्तूनि स्वपार्श्वे स्थापनीयानि । यथा – 'वैसलीन, ग्लूकोज, डिस्पिरिन्, ईनो' इत्यादिनि । परन्तु स्थास्थ्यम् असम्यक् जाते सति वैद्यस्य समीपे एव गन्तव्यम् । स्वस्य पार्श्वे या औषधिः भवति, तस्याः औषध्याः उपयोगः अपि आपत्काले एव करणीयः ।
• यात्रायां दूरवाण्याः उपयोगः भवत्येव । अतः 'अमरनाथ श्राइन बोर्ड' संस्थया चतुर्दिनेभ्यः 'प्रीपेड सिम कार्ड' व्यवस्था कृतास्ति । एषा सेवा पञ्जीकरणकर्तॄणां लाभायास्ति । अमरनाथयात्रायै पञ्जीकरणं यैः न कृतं तेभ्यः एषा सेवा नास्ति । तत्र B.S.N.L संस्थायाः 'सिम' अपि चलति ।
 

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

श्रीनगरान्ताराष्ट्रियविमानस्थानकं श्रीनगरात् चतुर्विंशतिः (२४) कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, जम्मूकाश्मीरराज्यस्य अन्यनगरेभ्यः च श्रीनगरान्ताराष्ट्रियविमानस्थानकाय वायुयानानि सन्ति ।

'हेलिकोप्टर'सेवा[सम्पादयतु]

अमरनाथयात्रायै 'हेलिकोप्टर' व्यवस्थापि अस्ति । तस्याः सेवायाः आवश्यकतास्ति चेत् पूर्वं पञ्जीकरणम् आवश्यकम् । बालटाल-तः पञ्चतरणी-पर्यन्तं १५०० रूप्यकाणि, पहलगांव-तः पञ्चतरणी-पर्यन्तं २४०० रूप्यकाणि भवन्ति ।

धूमशकटमार्गः[सम्पादयतु]

भारतस्य, जम्मूकाश्मीरराज्यस्य च अन्यभागेभ्यः श्रीनगराय धूमशकटयानानि सन्ति । मुख्यतः मुम्बई-देहली-हैदराबाद-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः[सम्पादयतु]

भारतस्य, जम्मूकाश्मीरराज्यस्य च अन्यभागेभ्यः श्रीनगराय 'बस'यानानि सन्ति । मुख्यतः देहली-चण्डीगढ-हरिद्वारादिनगरेभ्यः श्रीनगराय 'बस'यानानि सन्ति । ततः पहलगांव, बालटाल इत्येताभ्यां नगराभ्यां 'बस'यानानि सन्ति । जम्मू-तः पहलगांव ३१५ कि.मी. दूरे, बालटाल ४०० कि.मी. दूरे अस्ति ।

यात्रामार्गः[सम्पादयतु]

प्रथममार्गः:- पहलगांव-तः १६ कि.मी. → चन्दनवाडी-तः ३ कि.मी. → पिस्सूटोप-तः ९ कि.मी. → शेषनाग-तः १२ कि.मी. → पञ्चतरणी-तः ६ कि.मी. → पवित्रगुहा ।

द्वितीयमार्गः:- बालटाल-तः २ कि.मी. → डोमेन-तः ५ कि.मी. → बरारीमार्ग-तः ४ कि.मी. → सङ्गम-तः ३ कि.मी. → पवित्रगुहा ।

अमरनाथमार्गस्य हृदयाह्लादकानि चित्राणि[सम्पादयतु]

Amarnath yatra 1.jpgAmarnath Yatra 2.jpgAmarnath Yatra 3.jpgYatra 4.jpgYatra 4 2.jpgYatra 5.jpgYatra 6 .jpgYatra 7.jpg

सम्बद्धाः लेखाः[सम्पादयतु]

शिवः

पार्वती

मुस्लिम

बाह्यानुबन्धः[सम्पादयतु]

http://www.jktourism.org/amarnath-cave

http://www.shriamarnathjishrine.com/amarnath-shrine-board.html

http://www.amarnathyatra.org/

http://www.mapsofindia.com/maps/jammuandkashmir/amarnath-yatra-map.html

"http://sa.wikipedia.org/w/index.php?title=अमरनाथः&oldid=278080" इत्यस्माद् पुनः प्राप्तिः