अमरावतीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अमरावतीमण्डलम्

Amaravati District

अमरावती जिल्हा
मण्डलम्
महाराष्ट्रराज्ये अमरावतीमण्डलम्
महाराष्ट्रराज्ये अमरावतीमण्डलम्
देशः  India
जिल्हा अमरावतीमण्डलम्
उपमण्डलानि अमरावती, भातकुली, नान्दगाव खण्डेश्वर, दर्यापुर, अञ्जनगाव सुर्जी, अचलपुर, चान्दुर बाजार, मोर्शी, वरुड, धारणी, चिखलदरा, चान्दुर रेल्वे, तिवसा, धामणगाव
विस्तारः १२,२३५ च.कि.मी.
जनसङ्ख्या(२०११) २८,८७,८२६
Time zone UTC+५:३० (भारतीयमानसमयः(IST))
Website http://amravati.nic.in

अमरावतीमण्डलं (मराठी: अमरावती जिल्हा, आङ्ग्ल: Amaravati District) महाराष्ट्रराज्यस्य विदर्भविभागे स्थितं मण्डलम् । अस्य मण्डलस्य केन्द्रम् अमरावती इति नगरम् । इदं मण्डलं चिखलदरा इति पर्यटनस्थानार्थं प्रसिद्धम् ।

भौगोलिकम्[सम्पादयतु]

अमरावतीमण्डलं ‘दख्खनपठार’(Deccan Plateau) भूभागे स्थितं मण्डलम् । अमरावतीमण्डलस्य विस्तारः १२,२३५ च.कि.मी. मितः अस्ति । इदं मण्डलं महाराष्ट्रराज्यस्य उत्तरभागे अस्ति । अस्य मण्डलस्य पूर्वदिशि वर्धामण्डलं, पश्चिमदिशि अकोलामण्डलं, बुलढाणामण्डलं च, उत्तरदिशि मध्यप्रदेशराज्यं, दक्षिणदिशि यवतमाळमण्डलम् अस्ति । अस्मिन्मण्डले षड् नद्यः प्रवहन्ति । ताः - १.वर्धा २.पूर्णा ३.तापी ४.शाहनूर ५.चन्द्रभागा ६.पेढी

अस्मिन्मण्डले वातावरणवैविध्यं दृश्यते । मण्डले ग्रीष्मकाले बहूष्णं वातावरणं, शीतकाले अतिशीतं वातावरणं भवति ।

कृषिः[सम्पादयतु]

मण्डलेऽस्मिन् कार्पासः, यवनालः(ज्वारी), गोधूमः, ‘सोयाबीन’, कपिलद्रुमः(pigeon pea), माषः च इत्येतानि प्रमुखसस्योत्पादनानि उत्पाद्यन्ते । कदलीफलस्य, नारङ्गफलस्य च उत्पादनमपि भवत्यत्र ।

जनसङ्ख्या[सम्पादयतु]

अमरावतीमण्डलस्य जनसङ्ख्या(२०११) २८,८७,८२६ अस्ति । अत्र १४,८०,७६८ पुरुषाः, १४,०७,६७७ महिलाः च सन्ति । अस्मिन् मण्डले प्रति च.कि.मी. २३७ जनाः निवसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रति च.कि.मी. २३७ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १०.७७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४७ अस्ति । अत्र साक्षरता ८८.२३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चतुर्दश उपमण्डलानि सन्ति । तानि षड् विभागेषु अन्तर्भूतानि सन्ति । यथा -
१. अमरावतीविभागः – अमरावती, भातकुली, नान्दगाव खण्डेश्वर
२. दर्यापुरविभागः – दर्यापुर, अञ्जनगाव सुर्जी
३. अचलपुरविभागः – अचलपुर, चान्दुर बाजार
४. मोर्शीविभागः – मोर्शी, वरुड
५. धारणीविभागः – धारणी, चिखलदरा
६. चान्दुर रेल्वेविभागः - चान्दुर रेल्वे, तिवसा, धामणगांव

लोकजीवनम्[सम्पादयतु]

महाराष्ट्रराज्यस्य विदर्भविभागे या लोकसंस्कृतिः अस्ति सा अत्रापि दृश्यते । तया सह केचन विशेषाः अपि सन्ति । यथा -
• अस्य मण्डलस्य मोर्शीनामकस्य उपमण्डलस्य रिद्धपुरग्रामे चक्रधरस्वामिना ‘महानुभाव’-सम्प्रदायस्य स्थापना कृता । 'महानुभाव'सम्प्रदायिनाम् अधिकसङ्ख्या वर्तते अत्र ।
• २२ मेलाः(जत्रा) आचर्यन्ते अत्र, येषाम् आचरणं नवरात्र्युत्सवे, चैत्र-आषाढपूर्णिमयोः च भवति ।
• मण्डलेऽस्मिन् मातृभाषात्वेन ८९ भाषाः जनाः वदन्ति स्म इति जनगणनामध्ये(१९६१) विशेषः आसीत् । ‌

व्यक्तिविशेषाः[सम्पादयतु]

मण्डलेऽस्मिन् नैकाः विभूतयः अभवन् । यथा –
१. महाराष्ट्रराज्यस्य ‘आधुनिकसन्त’ इति प्रसिद्धः ‘गाडगे बाबा’ अमरावतीमण्डलसस्थः एव । सः ग्रामस्थेभ्यः स्वच्छता-शुचिता-अन्धश्रद्धानिर्मूलनविषये कीर्तनमाध्यमेन मार्गदर्शनं करोति स्म ।
२. ‘राष्ट्रसन्त’ इति प्रसिद्धः सन्त तुकडोजी महाराज अपि अमरावतीमण्डलस्थः । सन्तजनाः भक्तिमार्गम् आमहाराष्ट्रं प्रसारितवन्तः । स्वातन्त्र्यपूर्वकाले ग्रामीणेषु देशभक्तिजागरणार्थमपि सः यतितवान् आसीत् । अतः सर्वे तं 'राष्ट्रसन्त' इति सम्बोधयन्ति । ‘ग्रामगीता’माध्यमेन तेन सर्वेषां मार्गदर्शनं कृतम् । १९५५ तमे वर्षे जपानदेशे प्रचलितायां विश्वधर्मपरिषदि सः भागं गृहीतवान् आसीत् ।
३. ‘मधुराद्वैत’सम्प्रदायस्य स्थापकः सन्त गुलाबराव महाराजः चान्दुरबाजार उपमण्डलस्य मधन-ग्रामस्य निवासी आसीत् । चतुर्थे वयसि यद्यपि अन्धः जातः तथापि प्राप्तदिव्यदृष्टिः सः ३४ वर्षाणां कार्यकाले १३० ग्रन्थान् अरचयत् ।

वीक्षणीयस्थलानि[सम्पादयतु]

अमरावतीमण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि-

१. चिखलदरा – अमरावतीमण्डले अन्तर्भूतम् इदम् उपमण्डलं, समग्रे महाराष्ट्रे प्रसिद्धं वीक्षणीयस्थानम् । अमरावती इत्यस्मात् नगरात् इदं स्थानं ९० कि.मी. दूरे अस्ति । महाराष्ट्रराज्ये एकमेव 'कोफी'बीजोत्पादनक्षेत्रम् इदम् उपमण्डलम् ।

  • सातपुडापर्वतस्य मेळघाट-आवल्यां स्थितम् चिखलदरा इत्येतत् गिरिधाम ३५६४ पादोन्नतम् अस्ति । महाभारतकथानुसारं 'कीचकधारा' इत्येव नामधेयं, परम् इदानीम् अपभ्रंशेन ‘चिखलदरा’ सञ्जातम् ।
  • मेळघाट आवल्यां यत् अरण्यक्षेत्रम्, तस्मिन् शार्दूलाः, भल्लुकाः, ‘साम्बर’, सूकराश्च सन्ति । १९७४ तमे वर्षे इदम् अरण्यं व्याघ्र-अभयारण्यम् इति केन्द्रसर्वकारेण घोषितम् ।
  • अस्मिन् उपमण्डले विराटराज्ञः राजप्रासादः, जलसन्धारणसंस्था (water harvesting system), कोलखास, हरिकेन, सीमाडोह, भीमकुण्डः इत्येतानि अपि प्रेक्षणीयस्थानानि सन्ति ।

अस्य मण्डलस्य अन्यानि प्रसिद्धानि वीक्षणीयस्थलानि तु –

मन्दिराणि[सम्पादयतु]

  • अम्बादेवी-मन्दिरम् - मण्डलकेन्द्रे अमरावती इत्यस्मिन् नगरे स्थितमस्ति । नवरात्र्युत्सवे अधिकसङ्ख्याकाः भक्ताः मातुः दर्शनार्थं गच्छन्ति ।
  • एकवीरादेवी-मन्दिरम्
  • भक्तिधाम-मन्दिरम्
  • श्रीधाम-मन्दिरम्
  • बहिरम-देवालयः (भैरवस्य देवालयः)
  • महादेवमन्दिरम्

ऐतिहासिकानि वीक्षणीयस्थलानि[सम्पादयतु]

• गाविलगड-दुर्गः
• नरनाळा-दुर्गः
• अम्नेर-दुर्गः

इतरवीक्षणीयस्थलानि[सम्पादयतु]

• पं.नेहरू औद्भिदीय उद्यानम् (botanical garden)
• रिद्धपुर इति 'महानुभाव'साम्प्रदायस्य प्रमुखतीर्थस्थानम् ।
• आदिमजातिवस्तूनां सङ्ग्रहालयः


बाह्यसम्पर्कतन्तु:[सम्पादयतु]

  1. महाराष्ट्रमण्डलस्य सङ्केतस्थलम् Archived २०१३-१०-०६ at the Wayback Machine
  2. वाचिकपत्रम्
  3. अमरावतीमण्डलस्य सङ्केतस्थलम्[नष्टसम्पर्कः]
"https://sa.wikipedia.org/w/index.php?title=अमरावतीमण्डलम्&oldid=481414" इत्यस्माद् प्रतिप्राप्तम्