अमृतलताकषायम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अमृतलतायाः पत्राणि

अमृतलतायाः पत्रैः काण्डेन वा निर्मितं कषायम् एव अमृतलताकषायम् । एषा अमृतलता आङ्ग्लभाषया Guduchi (Tinospora cordifolia) इति वदन्ति । भारते तु इदं कषायं गृहौषधत्वेन अधिकतया उपयुज्यते ।

अस्य अमृतलताकषायस्य प्रयोजनानि[सम्पादयतु]

१ अमृतलताकषायस्य पानेन पीनसः, कासः, कफः, उदरवेदना इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति ।
२ शैत्यकालस्य वृष्टिकालस्य च आरम्भे पूर्वजागरूकतायाः दृष्ट्या एतत् अमृतलताकषायं पातुं शक्यते ।
३ बालानां कृते मासत्रयाभ्यन्तरे वा एकवारम् एतत् अमृतलताकषायं दातव्यम् ।
४ अस्य अमृतलताकषायस्य पानेन रोगनिरोधकशक्तिः अपि वर्धते ।
५ शारीरकरीत्या दुर्बलाः एतत् अमृतलताकषायं प्रतिदिनं प्रातः रिक्तोदरे चमसमितं पिबेयुः ।

अमृतलताकषायस्य निर्माणम्[सम्पादयतु]

अमृतलताकषायस्य निर्माणम् अपि अत्यन्तं सुलभम् । अमृतलतायाः पत्राणि काण्डं वा प्रक्षाल्य सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित्प्रमाणेन पातुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=अमृतलताकषायम्&oldid=369330" इत्यस्माद् प्रतिप्राप्तम्