उत्तर-अमेरिकाखण्डः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(अमेरिका इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

उत्तरामेरिका एकः महाद्वीपः वर्तते। सा पसिफिक्-अट्लाण्टिक्महासागरयोः मध्ये स्थिता। २४,२५८,६६४ च कि मी विस्तारयुक्तः अयं विशालः खण्डः केनडा, वेस्टिण्डिस्, ग्रीन्लेण्ड्, मध्यामेरिका, मेक्सिकोप्रदेशैः युक्तः अस्ति । अस्मिन् विपरीतं वातावरणं, विविधसंस्कृतीनां मिश्रणम्, अत्यधिका सम्पत्तिः, अत्याधुनिकं तन्त्रज्ञानम्, अनेकाः विश्वसंस्थाश्च विद्यन्ते । तान्त्रिकज्ञानं, गणकयन्त्रज्ञाने अग्रेसरत्वम्, असङ्ख्यवस्तूनां निर्यातः, युद्धसामग्र्यः, गोधूमोत्पादनम् इत्यादीनाम् आधारेण युक्तः आढ्यखण्डः वर्तते अयम् । प्रबलशक्तिः इत्येतत् अन्वर्थनाम अस्य खण्डस्य अमेरिकासंयुक्तसंस्थानां विद्यते ।

उत्तरामेरिकायाः मानचित्रम्

परिसरः[सम्पादयतु]

प्राकृतिकलक्षणानि[सम्पादयतु]

अस्य खण्डस्य पश्चिमार्धम् औन्नत्ये विद्यते । पूर्वार्धं निम्नताप्रदेशे विद्यते । पश्चिमभागे पर्वतश्रेण्यः, पूर्वदिशि उन्नताः प्रदेशाः, मध्यभागे समतलप्रदेशः, पूर्वकरावलीसमतलप्रदेशश्च अस्य खण्डस्य प्राकृतिकभागाः सन्ति । वायव्यभागे अलास्का ब्रूक्-श्रेण्यः विद्यन्ते । केनडादेशस्य पश्चिमदिशि करावलीश्रेण्यः सन्ति । तत्पार्श्वे विद्यमानाः राकीपर्वतश्रेण्यः मेक्सिकोपर्यन्तं विद्यन्ते । केनडादेशस्य मध्यभागतः अमेरिकासंस्थानानां मध्यभागं यावत् विशालः समतलप्रदेशः विद्यते । केनडादेशस्य मध्यभागः पूर्वभागश्च सरोवरैः युक्तः उपत्यकाप्रदेशः इति निर्दिश्यते । ३० - ५० अक्षांश- १२ - १० रेखांशयोः मध्ये दक्षिणोत्तरदिशि काश्चन श्रेण्यः विद्यन्ते । समुद्रतीरस्य पार्श्वे समुद्रतीरश्रेणी, ततः सियरा-नेवाद-केस्केड्श्रेण्यः विद्यन्ते । ततः विशालः समतलप्रदेशः, तानन्तरं वसाच्-श्रेणी, कोलोराडो उपत्यका ततः उन्नताः राकिपर्वताः विद्यन्ते । अत्र ४३९९ मी उन्नतम् एल्बर्ट्-शिखरं ४३७८ मी उन्नतं ब्लाङ्काशिखरं च विद्यते । समुद्रतीरस्य समीपे ४३१७ मी उन्नतं शास्ताशिखरम् अस्ति । मेक्सिकोदेशे पश्चिमसियारामाड्रे पूर्वसियारामाड्रेश्रेण्योः मध्ये मेक्सिको-उपत्यका विद्यते । अत्र ५४५२ मी उन्नतं पोपोकटेपेट्ल्, ५७०० मी उन्नतं सिट्लल्ट्पेट्ल्-शिखरो स्तः । पूर्वभागे लघ्व्यः उपत्यकाः सन्ति । अपलेषियन्पर्वताः दक्षिणोत्तरदिशि विद्यन्ते । केनडादेशस्य क्यूबेक्-प्रदेशः लारेन्सियन्-प्रस्थभूमिः इति निर्दिश्यते ।

जलसम्पत्तिः[सम्पादयतु]

अस्मिन् खण्डे विपरीतवातावरणं दृश्यते । हिमपातः मरुभूमिलक्षणानि विद्यन्ते चेदपि समृद्धा जलसम्पत्तिः विद्यते । अनेकाः नद्यः सरोवराश्च विद्यन्ते । अमेरिकासंयुक्तसंस्थाने मिसिसिपि-मिसूरिनामिका नदी ६६८० कि मी दीर्घयुता विद्यते । केनडियन्, प्लटे यलोस्टोन्, रेड्, अर्कान्सास्, डकोटा, ओहियो, टेनिस्सी इत्यादयः अस्य उपनद्यः सन्ति । इयं नदी अट्लाण्टिक्सागरं प्रविशति । अलबामा, हड्सन्, सें लारेन्स् इत्यादयः पूर्वभागे विद्यमानाः लघुनद्यः । कोलोरेडो-मेक्सिकोसीमाप्रदेशे रियो ग्राण्डे, साक्रामाण्टो, स्नेक्, कोलम्बिया नद्यः विद्यन्ते । केनडादेशस्य युकान्-अलस्कायोः युकान्-नदी वर्तते । मेकेञ्झि, पीस्, चर्चिल्, नेल्सन्, अथबास्का सस्केचवान्, अल्बेनि इत्यादयः नद्यः केनडादेशे विद्यन्ते । केनडादेशे असङ्ख्याः सरोवराः विद्यन्ते । ग्रेट् बियर्, अथबास्का, विनिपेग्, ग्रेट् स्लेव्, लिन्, रेण्डियर् इत्यादयः सरोवराः विद्यन्ते । ऐरि, ओण्टारियो महाप्रमाणकौ सरोवरौ स्तः । एतौ केनडा अमेरिकासंयुक्तसंस्थानयोः सीमाप्रदेशे विद्येते । ओण्टारियोसरोवरस्य दक्षिणतः नयागाराजलपातः विद्यते । उटाराज्यस्य शुष्के परिसरे साल्ट्-सरोवरः विद्यते ।

मध्यामेरिकायाः मानचित्रम्

वृष्टिः[सम्पादयतु]

अस्य खण्डस्य पूर्वभागे दक्षिणभागे च वृष्टिः तृप्तिकरी अस्ति । स्यान्-फ्रान्सिस्कोतः अलास्कासमुद्रतीरप्रदेशेषु वृष्टिः योग्या वर्तते । १०० रेखांशतः पूर्वदिशि, सर्वत्र ७५० मि मी अपेक्षया अधिका वृष्टिः भवति । विशेषतया ग्वाटेमालप्रदेशे ३००० मि मी अपेक्षया अधिका वृष्टिः भवति । वेङ्कूवर्-प्रदेशे अपि वृष्टिः अधिका । युटा, अरिझोना, नेवाडा, इडाहो, ओरेगान्प्रदेशेषु २५० मि मी अपेक्षया न्यूना वृष्टिः भविष्यति । अस्मिन् प्रदेशे जलाभावः विद्यते । केनडादेशस्य ग्रेट्-बियर्-सरोवरस्य उत्तरदिशि, अलास्कायाः उत्तरतीरप्रदेशे, आर्कटिक्-सागरस्य समस्तद्वीपेषु, ग्रीन्लेण्ड्प्रदेशे च शैत्याधिकं भवति । अत्र २५० मि मी अपेक्षया न्यूना वृष्टिः भविष्यति ।

औष्ण्यम्[सम्पादयतु]

अस्मिन् खण्डे जनवरीमासे शैत्यकालः, जुलैमासे घर्मकालश्च भवति । जनवरिमासे ५० अक्षांशतः उत्तरभागे औष्ण्यं ५ सेल्शियस्तः अग्रे न्यूनं भविष्यति । आर्केटिक्सागरद्वीपेषु ग्रीन्लेण्ड्प्रदेशेषु च -३० तः -४० सेल्शियस्मितं भविष्यति । ४० अक्षांशतः दक्षिणतः २८ अक्षांशपर्यन्तम् औष्ण्यं ० तः १५ सेन्टिग्रेड् भवति । अग्रे दक्षिणदिशि २५ सेण्टिग्रेड्पर्यन्तम् अधिकं भविष्यति । ग्रीष्मकाले एल्लेस्मियर्द्वीपे ग्रीन्लेण्ड्प्रदेशे च औष्ण्यं ० तः ५ सेण्टिग्रेड्मितं भविष्यति । ततः दक्षिणदिशि औष्ण्यं वर्धते । अरिझेना, मेक्सिकोप्रदेशेषु ३० सेण्टिग्रेड्मितं ततोप्यधिकं वा भविष्यति ।

उत्तरामेरिकायाः नगराणि

मेक्सिकोनगरम्
न्यूयार्क्-नगरम्
लास्-एञ्जलीस्-नगरम्
शिकागोनगरम्
टोराण्टोनगरम्

सस्यानि[सम्पादयतु]

अरण्य-तृणशाद्वल-मरुभूमिभिः युक्तः अयं खण्डः परिसरानुगुणैः सस्यैः युक्तः अस्ति । अपलेषियन्पर्वतप्रदेशेषु सरोवरं परितः विद्यमानेषु प्रदेशेषु पैन्, हेम्लाक्, स्प्रूस्, फर् इत्यादयः शङ्ख्वाकारकाः वृक्षाः वर्धन्ते । ततः दक्षिणभागेषु विस्तृतपर्णयुक्तानि मेपल्, ओक्, वाल्नेट्, हिकरि, बीच इत्यादीनि सस्यानि विद्यन्ते । पैन्-वृक्षाः अधिकतया दृश्यन्ते । शैत्यकाले हिमपातावसरे पर्णपातवृक्षैः पतितानि केसर-रक्तवर्णपर्णानि विराजन्ते । इतोपि दक्षिणतः यदि गम्यते मेग्नोलिय, नित्यहरिद्वर्णयुक्तः ओक्-वृक्षः, सैप्नेस्-सस्यं, फ्लोरिडाप्रदेशे ताडवृक्षः, स्याटिन्-वृक्षः, समुद्रजलस्य अरण्यसस्यानि दृश्यन्ते । पश्चिमदिशि राकिश्रेणीप्रदेशेषु पैन्, फर्न्, लार्च्, सेडार्, स्प्रूस्, रेड्वुड् इत्यादयः वृक्षाः वर्धन्ते । वाशिङ्ग्टन्-राज्ये उन्नतानि निबिडारण्यानि सन्ति । टेक्सास् इत्यादिषु शुष्कप्रदेशेषु क्याक्टेनामकं मरुभूमिसस्यं, सेजब्रष्, गम्मीगुल्म इत्यादीनि सस्यानि विद्यन्ते । मरुभूमिप्रदेशे अफीम्-सस्यानि वर्धन्ते । अनेकविधानि लघूनि फलानि अरण्येषु उपलभ्यन्ते । केलिफोर्निया, ओगेगान्, मिस्सूरि ओहियो, पेन्सिल्वेनिय, न्यूयार्क्, फ्लारिडा, मिषिगान् इत्यादिषु राज्येषु फलानि शाकानि च अधिकप्रमाणेन उपलभ्यन्ते । केनडादेशस्य सस्केचवान्, मनिटोबा, अल्बर्टाराज्यानां दक्षिणभागाः कृषियोग्याः सन्ति । अवशिष्टाः भागाः अरण्यमयाः । केनडायाः पश्चिमभागः उत्तरभागाश्च कृषियोग्याः न सन्ति ।
अमेरिकासंयुक्तसंस्थानस्य मध्य-पूर्वप्रदेशेषु कृषिः, शाद्वलमिश्रितकृषिः भवति । पश्चिमभागेषु तृणशाद्वलानि विद्यन्ते । पशुपालनम् अत्रत्यं विशेषः । गोधूमः, यावानलश्च अत्रत्यः प्रमुखः फलोदयः । अमेरिकासंयुक्तसंस्थानस्य पूर्वभागेषु तमाखुः, कार्पासश्च विशेषः मध्यभागे गोधूमः विशेषफलोदयः । मेक्सिकोदेशस्य दक्षिणभागेषु यावानलः इक्षुदण्डश्च वर्धते । कदली काफी च मेक्सिको, हाण्डुरास्, निकरवागुव, कोस्टरिकासु अधिकप्रमाणेन वर्ध्यते अन्यदेशेभ्यः प्रेष्यते च ।

प्राणिपक्षिणः[सम्पादयतु]

टेक्सास्-देशे उष्णवलयस्य मण्डूकः, फ्लारिडायां मकरः समशीतोष्णवातावरणस्य प्राणिपक्षिणश्च दृश्यन्ते । अमेरिकायाः वनवृषभः पूर्वम् अधिकप्रमाणेन आसन् । हरिणः, अट्टर्, पुमा, कृष्णभल्लूकः, बीवर्-प्राणिनश्च बहुत्र दृश्यन्ते । पश्चिमभागेषु शाद्वलवृकः, चिप्मङ्क्नामकः चिक्रोडः, कोयेट्, मूस् इत्यादयः वसन्ति । अमेरिकासंयुक्तसंस्थाने क्षीरकृषिनिमित्तमात्रं न अपि च मांसार्थमपि बहुसङ्ख्याकाः गावः सन्ति । युरोपखण्डे दृश्यमानाः पक्षिणः अत्र अपि वसन्ति । रक्त-टनेजर्, हरिद्-हम्मिङ्ग्पक्षी, केसर-कृष्णवर्णीयाः ओरियल्पक्षिणः अमेरिकादेशस्य विशेषाः । क्यालिफोर्नियायाः रेन्, टिट्पक्षिणः अस्मिन् स्थलमात्रे वसन्ति । सुन्दरः कार्डिनल्पक्षी, पूर्वप्रदेशेषु दृश्यमानः व्हिप्पूर्विल् अत्रत्यः विशिष्टपक्षिणः । सरटः, गोधा, विषयुक्तसर्पाः विशेषतया र्याटल्सर्पाः अत्र वसन्ति । एते मरुभूमौ वसन्ति ।

खनिजाः[सम्पादयतु]

अमेरिकासंयुक्तसंस्थानेषु उपलभ्यमानाः एते इन्धनतैलम्, अनिलः, अयः, ताम्रं, बाक्सैट्, स्वर्णं, रजतं, युरेनियञ्च अस्य खण्डस्य प्रमुखाः खनिजाः । केनडादेशे स्वर्णं, रजतं ताम्रम् अयः, निक्केल्, युरेनियम्, इन्धनतैलम् अनिलसम्पत्तिः च अधिकप्रमाणेन विद्यन्ते । मेक्सिकोदेशे स्वर्णं रजतं, अण्टिमनिखनिजाः सन्ति । इन्धनतैलम् अनिलसम्पत्तिश्च विद्यन्ते ।

उद्यमाः[सम्पादयतु]

केनडादेशस्य टोरेण्टो माण्ट्रियल्प्रदेशेषु महत्प्रमाणकाः उद्यमाः सन्ति । दारुसम्बद्धकर्म तन्नाम काष्ठसारः, कागदादीनाम् उद्यमः विद्यते । अरण्यसम्बद्धोद्यमाः, खनिकर्म,यन्त्रोपकरणानां निर्मितिः, काष्ठतक्षणयन्त्रागाराः विद्यन्ते । कृषिः, मीनपालनं, विद्युद्वस्तुनश्च मेक्सिकोदेशे विद्यते । अमेरिकासंयुक्तसंस्थानेषु अयसः यन्त्रागारः, यन्त्रोपकरणानि, वाहनानि, विमानानि, युद्धसामग्र्यः, आहारपदार्थाः, रासायनिकवस्तूनि, वस्त्रं, कागदं, मुद्रणं, पुस्तकप्रकाशनं, काष्ठवस्तूनि, गणकयन्त्रज्ञानं वर्धनोद्यमाश्च अत्र विद्यन्ते ।

अस्याः प्रमुखाः देशाः

"http://sa.wikipedia.org/w/index.php?title=उत्तर-अमेरिकाखण्डः&oldid=273792" इत्यस्माद् पुनः प्राप्तिः