अम्बोळी
अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
| अम्बोली आंबोळी |
|
| — town — | |
|
|
|
|
|
|
| निर्देशाङ्काः | |
| देशः | भारतम् |
| राज्यम् | महाराष्ट्रम् |
| मण्डलानि | सिन्धुदुर्गमण्डलम् |
| Sarpahch | |
| समयवलयः | IST (UTC+05:30) |
अम्बोलिघाट् – महाराष्ट्रराज्ये सिन्धुदुर्गमण्डले सहयाद्रिपर्वतश्रेण्याम् एतत् स्थलम् अस्ति । सागरस्तरतः ६१० मीटर् उन्नतप्रदेशे विद्यमानं प्रसिद्धं वीक्षकस्यानमेतत् । ग्रीष्मसमये जनाः अत्र अगच्छन्ति । तदा वायुः अतीव हितकरः भवति । कर्नल् प्रेस्टाफमहोदयः एतत् स्थलं ज्ञातवान् । प्रकृतिप्रियाणाम् अतीव आनन्ददायकम् एतत् स्थलं वनेऽस्ति । अत्रत्यं सुन्दरं जलपातं दृष्ट्वा जनाः सन्तुष्टाः भवन्ति । वर्षाकाले अधिकं वर्षणं भवति । अतः एतत् दक्षिणस्य चिरापुञ्जी इति निर्दिश्यते । अत्र १३ वीक्षणस्थानानि सन्ति । पर्वतारोहिणाम् अत्र अतीवानन्दः भवति । इतः महदेवगढदुर्गं नारायणदुर्गं सावन्तवाडिनगरं च द्र्ष्टु शक्यते ।
वाहनमार्गः [सम्पादयतु]
सावन्तवाडीतः ३५ कि.मी । पुणेतः ३९० कि.मी