अरक्कू
| अरक्कू | |||
|---|---|---|---|
| — Hill Station — | |||
| Coordinates: 18°20′00″N 82°52′00″E / 18.3333°N 82.8667°ECoordinates: 18°20′00″N 82°52′00″E / 18.3333°N 82.8667°E | |||
| Country | भारतम् | ||
| State | आन्ध्रप्रदेशः | ||
| District | विशाखपट्टणमण्डलम् | ||
| औन्नत्यम् |
|
||
| IST (UTC+5:30) | |||
| PIN | 531 149 | ||
| Telephone code | 08936 | ||
अरक्कू सानुप्रदेशस्य दृश्यवैभवम् -एतत् अतिप्राचीनम् आदिवासिनाम् वासस्थानमस्ति । अत्र १९ जातीयाः आदिवासिनः १५० मीटरोन्नते प्रदेशे निवसन्ति । निबिडवनप्रदेशे फलवाटिकाः काफीवाटिकाः कौशेय वस्त्रनिर्माणकार्यागाराः दृष्टुं शक्यन्ते । सर्वतः हरितवनं घट्टप्रदेशाः, कन्दराः सुन्दरतया गोचराः भवन्ति । एतम् प्रदेशम् आन्ध्रप्रदेशस्य ऊटी इति कथयन्ति ।अत्र अनेक- चलनचित्राणां चित्रिकरणं कृतवन्तः ।
अत्र निवसतां आदिवासिनां जीवनक्रमः वचनं वक्षालङ्काराः वेषभूषणं नर्तनं सर्वं च विशिष्टम् अस्ति । आन्ध्रप्रदेशस्य जानपादाध्ययनकर्तॄणाम् उत्तमं स्थानमस्ति । देशीयाः विदेशीयाः च अत्र बहवः आगच्छन्ति । राज्यसर्वकारस्य प्रवासव्यवस्था अस्ति ।
मार्गः [सम्पादयतु]
विशाखपट्टणतः ११५ कि.मी । तथापि घट्टप्रदेशे गमनार्थं ५ घण्टाः आवश्यकाः भवन्ति । दर्शनाय नवम्बरमासतः जनवरीमासं यावत् उत्तमकालः । ४० कि.मी प्रदेशे पुन्नामिकुटीराणि सन्ति ।