अरनाथः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अरनाथः
अष्टादशः जैनतीर्थङ्करः
अरनाथस्य प्रतिमा
विवरणम्
परिवारः
पिता सुदर्शनः
माता महादेवी
वंशः इक्ष्वाकुः
स्थानम्
जन्म हस्तिनापुरी
निर्वाण सम्मेदशिखरम्
लक्षणम्
वर्णः सुवर्णः
चिह्नम् मत्स्यः
औन्नत्यम् ३० धनुर्मात्रात्मकम् (९० मीटर्)
आयुः ८४,००० वर्षाणि
शासकदेवः
यक्षः यक्षेन्द्रः
यक्षिणी धारिणी
जैनधर्मः
जैनध्वजः
जैनधर्मस्य प्रतीकम्
धर्मावलम्बीनां संख्या
प्रायः ५० लक्षजनाः
प्रवर्तकः
आदिनाथः
विस्तारः
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः
शिल्पकृतयः
जैनागमः
भाषा(ः)
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी

अरनाथः ( /ˈərənɑːθəhə/) (हिन्दी: अरनाथ,आङ्ग्ल: Aranath) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु अष्टादशः तीर्थङ्करः अस्ति । भगवतः अरनाथस्य वर्णः सुवर्णः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं मत्स्यः च अस्ति । भगवान् अरनाथः इक्ष्वाकुवंशीयः, काश्यपगोत्रीयश्चासीत् ।

कौमारावस्थायाम् अरनाथस्य शरीरस्य औन्नत्यं त्रिंशत् (३०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “यक्षेन्द्र” इत्याख्यः यक्षः, “धारिणी” इत्याख्या यक्षिणी च आसीत् । भगवान् अरनाथः आजीवनं सत्यस्य, अहिंसायाः च नियमानां पालनं कृतवान् । सः जनान् सत्यमार्गम् अनुसर्तुम् अवबोधयति स्म ।

जन्म, परिवारश्च[सम्पादयतु]

देवायुष्यं समाप्य भगवान् अरनाथस्य जीवः पुनः मृत्युलोकम् आगच्छत् । हस्तिनापुर-नामिका नगरी आसीत् । तस्यां नगर्यां मार्गशीर्ष-मासस्य शुक्लपक्षस्य दशम्यां तिथौ रेवती-नक्षत्रस्य मध्यरात्रौ भगवतः अरनाथस्य जन्म अभवत् [२]

सुदर्शन-नामकः हस्तिनापुरनगर्याः राजा आसीत् । सुदर्शनः अरनाथस्य पिता आसीत्, माता च महादेवी आसीत् । फाल्गुन-मासस्य शुक्लपक्षस्य तृतीयायां तिथौ रेवती-नक्षत्रे रात्रौ महादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव महादेवी राज्ञे सुदर्शनाय चतुर्दशस्वप्नान् श्रावितवती । तस्यां रात्रौ एव भगवतः अरनाथस्य जीवः महादेव्याः गर्भं प्राविशत् [३]। इन्द्रादिभिः देवैः च्यवनकल्याणकमहोत्सवः आचरितः आसीत् ।

आगामि-दिने राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नशास्त्रेण एव स्वप्नानां फलादेशः भवितुं शक्यते । स्वप्नशास्त्रिणां पूजनं कृत्वा महादेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवान् यत् – “महादेव्याः गर्भे एकः श्रेष्ठः, विशिष्टश्च बालकः अस्ति । सः तीर्थङ्करः भविष्यति” इति ।

सर्वे बालकस्य जन्मनः प्रतीक्षां कुर्वन्तः आसन् । गर्भकालस्य समाप्त्यनन्तरं भगवतः अरनाथस्य पीडारहितं जन्म अभवत् । भगवतः जन्मसमये सम्पूर्णे जगति शान्तवातावरणम् आसीत् । राजा सुदर्शनः सम्पूर्णे राज्ये पुत्रोत्सवस्य घोषणां चकार ।

ये बन्धिनः आसन्, तेभ्यः राजा मुक्तिम् अददात् । राज्ञा पुत्रप्राप्त्याः प्रसन्नतायां सर्वेभ्यः दानं कृतम् । नगरजनाः अपि प्रसन्नाः आसन् । एकादशदिनानि यावत् भगवतः अरनाथस्य जन्मोत्सवः आचरितः ।

पूर्वजन्म[सम्पादयतु]

जम्बूद्वीपस्य पूर्वविदेहक्षेत्रे सुसीमा-नामिका नगरी आसीत् । तस्याः नगर्याः राजा धनपतिः आसीत् । भगवान् अरनाथः पूर्वजन्मनि धनपतिः नामकः राजा आसीत् । धनपतिना तस्मिन् जन्मनि धर्मस्य साधना कृता । तेन बहुवर्षाणि यावत् राज्यसञ्चालनमपि कृतम् आसीत् ।

धनपतेः राज्ये जनाः नीतिमन्तः आसन् । अतः राज्ञा कदापि कस्मैचित् अपि दण्डः न प्रदत्तः । अन्ते राजा धनपतिः विरक्तः अभवत् । सः संवरमुनेः दीक्षां स्वीकृतवान् । अभिग्रहस्य, स्वाध्यायस्य, ध्यानस्य च विशिष्टा साधना धनपतिना कृता । सः आर्यजनपदि निरपेक्षभावेन विचरन् आसीत् ।

एकदा जिनदासस्य गृहे धनपतेः चातुर्मासीतपसः आहारस्या आयोजनम् आसीत् । तत्र देवैः दानकर्तुः, मुनेः च महिमा कथितः । तथापि मुनिः निरपेक्षः एव आसीत् । तस्य मनसि लेशमात्रम् अपि अहङ्कारः नासीत् । अनेन प्रकारेण धनपतिना घोरसाधनया तीर्थङ्करगोत्रस्य बन्धनं कृतम् । अन्ते आराधकपदं प्राप्य सः ग्रैवेयके महर्धिकदेवः जातः ।

नामकरणम्[सम्पादयतु]

भगवतः अरनाथस्य जन्मनः एकादशदिनोत्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः भगवतः अरनाथस्य दर्शनार्थं समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।

राज्यस्य जनाः अपि प्रसन्नाः आसन् । नामकरणोत्सवे बालकस्य नामकरणं भवति । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । अन्ते राज्ञा स्वस्य विचारः कथितः यत् – “यदा महादेवी गर्भवती आसीत्, तदा महादेव्या रत्नमयम् एकम् अरचक्रं दृष्टम् आसीत् । अतः अस्य बालकस्य नाम अरकुमारः इति करणीयम् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव अरनाथः इति नाम प्रसिद्धम् अस्ति ।

विवाह[सम्पादयतु]

भगवतः अरनाथस्य बाल्यावस्था मनोरञ्जनेन व्यतीता । समयान्तरे सः तारुण्यावस्थायां प्राविशत् । भगवतः मनसि विरक्तेः भावः आसीत् । किन्तु राज्ञा सुदर्शनेन भगवतः अरनाथस्य अनेकाभिः राजकन्याभिः सह विवाहः कारितः । अरनाथस्य अरविन्द-नामकः पुत्रः अभवत् । अरनाथस्य विवाहानन्तरं राज्ञः सुदर्शनस्य मनसि राज्यात् निवृत्तेः विचारः आगतः । अतः सः अरनाथस्य राज्याभिषेकं कृतवान्, अरनाथाय राज्यस्य दायित्वं च प्रदत्तवान् । ततः परं सुदर्शनः स्थवीरमुनेः दीक्षां प्रापत् । दीक्षानन्तरं सः गृहं त्यक्त्वा साधनायां लीनः अभवत् ।

राज्यम्[सम्पादयतु]

यदा अरनाथः राजा अभवत् तदा तेन राज्यस्य निष्ठापूर्वकं, विरक्तिपूर्वकं च पालनं कृतम् आसीत् । अरनाथस्य राज्ये अपराधिनः अपि न्यूनाः अभवन् । भगवान् अरनाथः सम्पूर्णे राज्ये जनेभ्यः सर्वाणि सौलभ्यानि यच्छति स्म । कस्यापि वस्तुनः अभावः एव नासीत्, अतः अपराधाः अपि न भवन्ति स्म । जनाः अपि आन्तरिकविवादान् विस्मृतवन्तः । जनाः परस्परम् एव विवादानां निवारणं कुर्वन्ति स्म । यथा कमले पङ्के उत्पन्ने सत्यपि, पङ्कात् मुक्तः भवति, तथैव भगवति अरनाथे अपि राज्यस्य सर्वभोगेषु सम्पृक्ते सति अपि मोहात् मुक्तः आसीत् । अतः तस्य जीवनं कमलम् इव आसीत् ।

राज्ञः अरनाथस्य मनसि अपि राज्यस्य सञ्चालनस्य सन्तोषः आसीत् । जनानाम् एकात्मतायाः कारणेन एव सम्पूर्णं राज्यं कुटुम्बम् इव प्रतिभाति स्म । राज्ये प्रजा सुखीनी आसीत् । यतः अरनाथः सदैव जनानां सौकर्येभ्यः जाग्रतः भवति स्म । जनाः पूर्ववर्तिनः राजानः विस्मृतवन्तः आसन् । जनेभ्यः अरनाथः एव सर्वस्वम् आसीत् ।

बहुवर्षाणि यावत् अरनाथः माण्डलिकः राजा आसीत् । तत्पश्चात् राज्ये चक्ररत्नं समुद्भूतम् । अतः चक्ररत्नेन तेन सम्पूर्णं भूमण्डलं जितम् । अतः अरनाथः चक्रवर्तिपदं प्राप्तवान् । द्वात्रिंशत् राजानः अरनाथस्य सेवायां रताः आसन् ।

राजत्यागः, दीक्षा च[सम्पादयतु]

भगवता अरनाथेन द्विचत्वारिंशत्सहस्रवर्षाणि यावत् चक्रवर्तित्वेन राज्यसञ्चालनं कृतम् आसीत् । तीर्थङ्कराः त्रिकालज्ञाः भवन्ति । अतः यदा तेन दीक्षायाः समयः ज्ञातः, तदा स्वस्य पुत्रस्य अरविन्दस्य राज्याभिषेकं कृत्वा अरविन्दाय राज्यस्य दायित्वं प्रदत्तम् । ततः परं सः वार्षिकीदानं कर्तुं सज्जः अभवत् । राज्ये अपि अरनाथेन वार्षिकीदानस्य घोषणा कृता । स्वर्गलोकात् बहवः देवाः, चतुष्षष्टिः इन्द्राः चापि तत्र समुपस्थिताः आसन् ।

ततः परं भगवान् अरनाथः वार्षिकीदानम् अकरोत् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने सुवर्णमुद्रिकाः दीयन्ते स्म । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म ।

अरनाथः पराक्रमी, तेजस्वी च आसीत् । अतः राज्ञः दीक्षाप्रसङ्गेन जनाः विरक्ताः अभवन् । यदा वार्षिकीदानं समाप्तं जातं, तदा मार्गशीर्ष-मासस्य शुक्लपक्षस्य एकादश्यां तिथौ रेवती-नक्षत्रे भगवान् अरनाथः सहस्रजनैः सह हस्तिनापुरनगर्याः सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । तस्मिन् दिवसे एव सर्वेषां समक्षे भगवता अरनाथेन दीक्षा अङ्गीकृता । तेन सावद्ययोगानां सर्वथा प्रत्याख्यानं कृतम् आसीत् ।

दीक्षायाः दिवसे सः षष्ठीतपः कृतवान् । दीक्षायाः अपरे दिने भगवान् अरनाथः राजपुरस्य अपराजितनामकस्य राज्ञः गृहे प्रथमं क्षीरान्नं भुक्तवान् । देवैः जनेभ्यः दानस्य माहात्म्यम् अवबोधितम् आसीत् ।

दीक्षानन्तरं वर्षत्रयं यावत् भगवान् अरनाथः रहसि साधनां कुर्वन् आसीत् । भगवतः रहस्यविषये बहुनि मतानि सन्ति । केषुचित् ग्रन्थेषु वर्षत्रस्यस्य रहस्यकालविषयकः उल्लेखः प्राप्यते । केषुचित् ग्रन्थेषु केवलं त्रयाणाम् अहोरात्राणां रहस्यकालस्य उल्लेखः दृश्यते ।

भगवता अरनाथेन विविधाः तपस्याः, साधनाः च कृता । सः सर्वत्र विचरन् पुनः हस्तिनापुर-नगर्याः सहस्राम्रोद्यानं प्राप्तवान् । आम्रवृक्षस्याधः ध्यानारूढः सन् सः क्षपकश्रेणीमलभत ।

वर्षत्रयस्य साधनाकाले भगवान् अरनाथः साधनया घातकर्मणां नाशं कृतवान् आसीत् । हस्तिनापुर-नगर्यां कार्त्तिक-मासस्य शुक्लपक्षस्य द्वादश्यां तिथौ रेवती-नक्षत्रे तस्मै कैवल्यज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च तत्र समुपस्थिताः आसन् । सर्वैः मिलित्वा कैवल्यमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।

अनन्तरं भगवता अरनाथेन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः अरनाथस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, तल्लीनाः च अभवन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तुम् ऐच्छन् । भगवतः अरनाथस्य प्रथमे प्रवचने एव तीर्थस्य स्थापना जाता । तदैव अरनाथः तीर्थङ्करः इति पदं प्रापत् ।

पुरा राजा अरनाथः चक्रवर्ती आसीत् । अतः जनेषु तस्य प्रभावः अत्यधिकः वर्तते स्म । भगवान् अरनाथः सर्वज्ञः आसीत् । अतः जनानां मनसि अरनाथाय महती आस्था आसीत् । जनानां जीवने अपि अरनाथस्य महान् प्रभावः अभवत् ।

धार्मिकः परिवारः[सम्पादयतु]

यदा भगवान् अरनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा अरनाथेन धार्मिकपरिवारस्य अपि रचना कृता[४]

  1. ३३ गणधराः
  2. २,८०० केवलज्ञानिनः
  3. २,२५१ मनःपर्यवज्ञानिनः
  4. २,६०० अवधिज्ञानिनः
  5. ७,३०० अवैक्रियलब्धिधारिणः
  6. ७१० चतुर्दशपूर्विणः
  7. १,६०० चर्चावादिनः
  8. ५०,००० साधवः
  9. ६०,००० साध्व्यः
  10. १,८४,००० श्रावकाः
  11. ३,७२,००० श्राविकाः

अयं भगवतः धार्मिकः परिवारः वर्तते । तेषु परिवारजनेषु त्रयस्त्रिंशत् गणधरेषु “कुम्भस्वामी” इत्याख्यः प्रथमः गणधरः आसीत् ।

निर्वाणम्[सम्पादयतु]

तीर्थङ्कराः पूर्वमेव सर्वं जानान्ति । तथैव यदा भगवता अरनाथेन अपि स्वस्य निर्वाणकालः ज्ञातः, तदा सः सप्तसहस्रसाधुभिः सह सम्मेदशिखरं गतवान् । तत्र सः एकमासं यावत् अनशनञ्चकार । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धपदं प्रापत् ।

एकमासस्य अनशनान्ते मार्गशीर्ष-मासस्य शुक्लपक्षस्य दशम्यां तिथौ रेवती-नक्षत्रे सम्मेदशिखरे भगवतः अरनाथस्य निर्वाणम् अभवत् । भगवतः अरनाथस्य जन्मनिर्वाणयोः मासपक्षतिथिनक्षत्राणि समानानि एव सन्ति । भगवता सह बहुभिः मुनिभिः अपि मोक्षः प्राप्तः आसीत् उद्धरणे दोषः : समाप्तिः </ref> <ref> शृङ्खला लुप्ता

जैनतीर्थङ्कराः
पूर्वतनः
कुन्थुनाथः
अरनाथः अग्रिमः
मल्लिनाथः

सम्बद्धाः लेखाः[सम्पादयतु]

  1. जैनधर्मः
  2. दिगम्बरः सम्प्रदायः
  3. श्वेताम्बरः सम्प्रदायः
  4. भिक्षुः आचार्यः
  5. पुराणानि

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 107
  2. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 126
  3. तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 73
  4. तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. १२६

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=अरनाथः&oldid=481417" इत्यस्माद् प्रतिप्राप्तम्