अरविन्द केजरीवाल

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(अरविन्दकेजरीवालः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अरविन्द केजरीवाल
देहलीराज्यस्य सप्तमः मुख्यमन्त्री
इदानीन्तन
कार्यारम्भः
२८ डिसेम्बर् २०१३
पूर्वगमः शीला दीक्षित
मुख्यमन्त्री, देहली विधनसभा
Taking office
अनन्तरवर्ती शीला दीक्षित
सांविधानिकक्षेत्रम् नवदेहली
व्यक्तिगत विचाराः
जननम् अगस्त १६, १९६८ (1968-08-16) (वयः ४६)
सिवानि, हरियाणा
राजनैतिकपक्षः आम आदमी पार्टी
पतिः/पत्नी सुनीता केजरीवाल
अपत्यानि द्वयम्
मुख्यशिक्षणम् ऐ ऐ टी खडगपुर्

अरविन्दकेजरीवालः भारतस्य समाजसेवक: अस्ति। सामाजिक-राजनीतिकान्दोलनेषु सहभागित्वात् पूर्वं सः भारतीयराजस्वसेवायाम् अधिकारी आसीत्।[१] २००६ तमे क्रिष्टाब्दे सः उदयशीलनेतृत्वार्थे रमोन्-मैग्सेसे-पुरस्कारेण सम्मानितः।

प्रारम्भिकजीवनम्[सम्पादयतु]

अरविन्दः १९६८तमे संवत्सरे हरियाणाराज्यस्य हिस्सारनगरे जन्म प्राप्तवान् । तस्य पितरौ गोबिन्दश्च गीता । तस्यैका भगिनी एकश्च भ्राता अस्ति सः च ज्येष्ठः वर्तते। तस्य पिता अभियन्ता अस्ति, यः मेसरास्थात् बिरलाप्रौद्योगिकीसंस्थानात् स्नातकपदवीं प्राप्तवान् । केजरीवालस्य बाल्यं सोनीपत-मथुरा-हिसारसदृशेषु उत्तरभारतीयलघुनगरेषु व्यतीतम् । तस्य विद्यालयशिक्षा कैम्पस्-स्कूल्-हिसारम् इत्यत्र अभवत्।[२][३] एषः १९८९तमे वर्षे खरगपुरस्य भारतीय प्रौद्यौगिकी संस्थाने ( IIT)तान्त्रिकपदवीं प्राप्तवान् ।

सामाजिककार्याणि[सम्पादयतु]

पूर्वारभ्य अरविन्दवर्यः भ्रष्टाचारस्य तस्य विषये जनानां निष्क्रियतायाः विषये बहु कुपितः आसीत् । तदर्थम् सः टाटा संस्थायां कार्यं त्यक्त्वा ' मिशनरीस् आफ़् चारिटि' रामकृष्णाश्रमसदृशां संस्थायां सेवां कर्तुं इष्टवान् । कालान्तरे सः देहलीनगरे भारतीयराजस्वसेवायाम् अधिकारीरूपेण कार्यमारब्धवान् । तत्र सः सर्वकारे प्रचलितस्य भ्रष्टाचारस्य मूलकारणं तु अपारदर्शिका शासनव्यवस्था इति अवगतवान् । तस्याः समस्यायाः परिहारार्थं अरविन्दवर्यः स्वकार्यालय-व्यवस्थायां अनेक परिवर्तनानि आनीतवान् ।

२०००तमे वर्षे अरविन्दवर्यः देहलीनगरे 'परिवर्तनम्' नामकं नागरीकान्दोलनं आरब्धवान् । २००६तमे संवत्सरे सर्वकारकार्याय त्यागपत्रं दत्त्वा 'परिवर्तनस्य' कृते पूर्णसमयम् अर्पितवान् । तस्मिन् समये एव 'अरुणा राय्' महोदयया साहाय्येन Right to Information Act एतस्य अनुष्ठानाय अभियानमेकम् आरब्धवान् । एतस्य मौन-सामाजिकान्दोलनस्य फलरूपेण सर्वकारपरतया एतस्य स्वीकरणं अनुष्ठानञ्च जातम् । तदनन्तरम् २००६तमे वर्षारभ्य एतस्य विषये जनजागृतिकार्यक्रमः आरब्धः ।

२००६ तमे क्रिष्टाब्दे सः उदयशीलनेतृत्वार्थे रमोन्-मैग्सेसे-पुरस्कारेण सम्मानितः। तत् सम्मानं तस्मै सूचनाऽधिकारं तृणमूलस्तरे क्रियान्वितम् अकरोत् इति कृत्वा, तथा च सर्वकारः जनेभ्यः उत्तरदायी वर्तेत इति द्वारा भ्रष्टाचारविरुद्धयुद्धे दरिद्रजनानां शक्तीकरणार्थं तस्य सामाजिकक्रियाकलापान् आलक्ष्य प्रदत्तम्।[४][४][४][५] २००६ क्रिष्टाब्दे अरविन्दवर्यः एकम् असर्वकारीयसङ्घटनं संस्थापितवान् पब्लिक्-कौस्-रिसर्च्-फौन्डेशन् इत्येतत्।[६] तत्र सः कौर्पस्-निधित्वेन स्वकीयं मैग्सायसाय्-पुरस्कारधनं दत्तवान्। २०१२ क्रिष्टाब्दे नवम्बरमासे एषःआमआदमी-पक्षः इति राजनैतिकदलमेकं स्थापितवान्, तस्य च लक्ष्यम् स्वराज्यम् (स्वावलम्बन-जीवनम्) इति घोषितवान्।[७]

पुरस्काराः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. १.० १.१ "Distinguished Alumnus of IIT Kharagpur". Retrieved 22 August 2011. 
  2. ARVIND KEJRIWAL. rmaf.org.ph
  3. Hauzel, Hoihnu. "Fighting the odds", 30 September 2006. Retrieved on 20 August 2011. 
  4. ४.० ४.१ ४.२ ४.३ Citation The 2006 Ramon Magsaysay Award for Emergent Leadership-CITATION.
  5. ५.० ५.१ "Magsaysay to Kejriwal", 1 August 2006. Retrieved on 19 October 2011. 
  6. www.pcrf.in
  7. "Arvind Kejriwal launches Aam Admi Party". Retrieved 24 November 2012. 
  8. उद्धरणे दोषः : अमान्या <ref> शृङ्खला; dubey इत्यस्य आधारः अज्ञातः
  9. "CNN IBN – INDIAN OF THE YEAR". Retrieved 25 August 2011. 
  10. "ET Awards: The top 10 of 2010", 7 October 2010. Retrieved on 24 August 2011. 
  11. "NDTV Indian of the Year 2011". ndtv.com. Retrieved 19 October 2011. 

बाह्यानुबन्धाः[सम्पादयतु]

""

"http://sa.wikipedia.org/w/index.php?title=अरविन्द_केजरीवाल&oldid=278546" इत्यस्माद् पुनः प्राप्तिः