अरुणः (युरेनस्)

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(अरुणः इत्यस्मात् पुनर्निर्दिष्टम्)
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
वॉएजरात् गृहित अरुणस्य चित्रमिदम्

युरेनस्ग्रहः अरुण: इति, कुत्रचित् इन्द्रः इति च उल्लिखितः दृश्यते । अस्माकं सौरमण्डले सूर्यात् सप्तमः बृहत्तमः ग्रहः अयम् । अस्य ग्रहस्य अन्वेषणं १७८१ तमे वर्षे विलियं हर्षेल् कृतवान् । अस्य ग्रहस्य वातावरणे जलजनकम्, हीलियम्, मिथैन् इत्येतेषां संयोगः दृश्यते इत्यतः अस्य वर्णः भवति हरित् । एतं ग्रहं परितः वर्णमयैः लघुभागैः युक्तानि लघ्वाकारकाणि नव वृत्तानि दृश्यन्ते । बाह्यवृत्तानां विस्तारः १,००,००० कि मी अपेक्षया अधिकः भवति । अस्य ग्रहस्य पञ्च उपग्रहाः सन्ति - मिराण्डा एरिमल् आन्द्रियल् तिटानिया ओबेरान् च । अस्य ग्रहस्य विस्तारः ३२,००० मैल्-परिमितम् । स्वस्य परिभ्रमणाय अयं ग्रहः १६ घण्टात्मकं कालं स्वीकरोति । सूर्यं परितः भ्रमणाय ८४.०१ वर्षं स्वीकरोति ।

[सम्पादयतु] सन्दर्भ:

वैयक्तिकोपकरणानि
नामाकाशानि

भिन्नरूपाणि
क्रियाः
पर्यटनम्
उपकरणपेटिका
अन्यासु भाषासु