अरुणाचलप्रदेशराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(अरुणाचलप्रदेशः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Arunachal Pradesh
—  State  —
Location of Arunachal Pradesh in India
Map of Arunachal Pradesh
Coordinates (Itanagar): 27°04′N 93°22′E / 27.06°N 93.37°E / 27.06; 93.37Coordinates: 27°04′N 93°22′E / 27.06°N 93.37°E / 27.06; 93.37
देशः  India
Established 20 February 1987
Capital Itanagar
Largest city Itanagar
Districts 16
सर्वकारः
 • Governor Joginder Jaswant Singh
 • Chief Minister Nabam Tuki (INC)
 • Legislature Unicameral (60 seats)
 • Parliamentary constituency 2
 • High Court Gauhati High Court - Itanagar Bench
विस्तीर्णता
 • संहतिः ८३,७४३ Square km (३२,३३३.४ Square mile)
क्षेत्रविस्तारः 14th
जनसङ्ख्या (2011)
 • संहतिः १३,८२,६११
 • रैङ्क् 26th
IST (UTC+05:30)
ऐ एस् ओ ३१६६ कोड् IN-AR
HDI increase 0.617 (medium)
HDI rank 18th (2005)
Literacy 66.95%
Official languages English
जालस्थानम् arunachalpradesh.nic.in


अरुणाचलप्रदेशः (Arunachal Pradesh) भारते विद्यमानेषु राज्येषु अन्यतमं राज्यम्। अयं प्रदेशः ईशान्य भारते अस्ति। अरुणाचलप्रदेशः दक्षिणास्सां तथा नागाल्याण्ड राज्ययोः सीमायाम् अस्ति । एवं पश्चिमे भूतान्, पूर्वे म्यान्मार् तथा उत्तरे चीना पीपल् रिपब्लिक् एतैः सह विभजितम् एवम् अन्ताराष्ट्रीय सीमासु अरुणाचलप्रदेशः अस्ति। इटानगरम् अरुणाचलप्रदेशस्य राजधानी अस्ति। अरुणाचलप्रदेशः “उषःकालस्य लिट् पर्वताणां भूमिः” इत्यर्थः । “आफ् दि रैसिङ्ग् सन्” इति अस्य प्रदेशस्य प्रसिद्धिरस्ति । अरुणाचलप्रदेशे विद्यमानाः ईशान्य भारतस्य, टिबेट प्रदेशस्य एवं बर्मन् देशस्यच जनाः भवन्ति । अस्य प्रदेशस्य मुख्यभाषे ’हिन्दी’ तथा असमिया च भवतः।

भूगोलम्[सम्पादयतु]

अरुणाचलप्रदेशस्य अधिकः भागः हिमालये अस्ति । किन्तु लोहित,चाङ्गलाङ्ग, तिरपपतकाई इत्यादयाः प्रदेशाः पर्वतप्रदेशेषु सन्ति । काङ्ग्तो, न्येगीकाङ्गसाङ्ग, मुख्यगोरीचन चोटी तथा पूर्व गोरीचन चोटी इत्यादि क्षेत्रेषु हिमालयस्य उन्नत शिखराणि सन्ति । ४४ वर्षाणाम् अनन्तरं, प्रप्रथमवारं २००६ तमे संवत्सरे तवाङ्गे स्थित बुम्लापास् प्रदेशम् उद्घाटितवन्तः । उभयप्रदेशेषु विद्यमानेभ्यः व्यापारार्थम् अवकाशं कल्पितवन्तः। हिमालयस्य पर्वतमालाः चिनादेशात् विभागं कुर्वन्ति । अत्र विद्यमानाः पर्वताः हिमालयस्यापेक्षया कुब्जाः भवन्ति ।

वायुमण्डलम्[सम्पादयतु]

अरुणाचलप्रदेशस्य वायुमण्डलस्य व्यत्यासः उन्नतप्रदेशेषु भवति । हिमालये स्थित टिबेट् प्रदेशस्य निकटक्षेत्रेषु अल्वैन् उत कर्सर् प्रकारयोः वातावरणं भवति । मध्यहिमालयस्य क्षेत्रेषु वातावरणं समशीतोष्णं भवति । अत्र सेब,नारङ्ग इत्यादि फलानां वृक्षाणि सन्ति । अरुणाचलप्रदेशे ८०तः १६०(२००० तः ४००० मि.मी.) अङ्गुलपरिमितवृष्टिः भवति । मे तथा सेप्टम्बरमासयोः अधिकवृष्टिः भवति । अत्र ओक्, फैन्, मेपल्, फर्, साल् तथा जुनिपर् इत्यादि वृक्षाः सन्ति।

जनसङ्ख्या[सम्पादयतु]

अरुणाचलप्रदेशे १९ प्रमुखजातीयाः तथा ८५ उपजातीयाः जनाः भवन्ति । प्रायशः अधिकाः जनाः टिबेट्-बर्मी उत ताई-बर्मी तः प्रव्रज्यागताः भवन्ति । प्रायः ३५% प्रतिशतं जनाः बङ्गालः, बोडो, हजोन्ग, बाङ्ग्लादेशादिभिः आगताः सन्ति । एवम् अस्साम्, नागाल्याण्ड तथा भारतस्य अन्येभ्यः राज्येभ्यः आगताः यात्रिकाः अपि भवन्ति । प्रसिद्धजातिषु आदि, गालो, निशि, खम्ति, मोंपा तथा अपातनि मुख्याः भवन्ति । अरुणाचलप्रदेशे १९९१ तमे संवत्सरे ४१.५९% प्रतिशतं जनाः साक्षराः आसन् । ४८७७९६ व्यक्तयः साक्षराः आसन् । २००१ तमे संवत्सरे कृत भारतसार्वकारस्य गणनानुसारं २०% प्रतिशतं प्रकृतिधर्मीयाः अर्थात् डोन्यी-पोलो तथा रङ्गफ्राह योः पालनं कुर्वाणाः जनाः सन्ति इति । मिरि तथा नोक्ते जनयोः मिलित्वा प्रायः ३५% प्रतिशतं जानाः हैन्दवः सन्ति । १३% प्रतिशतं जनाः बौद्धाः सन्ति । टिबेट् बौद्धधर्मः मुख्यतया तवाङ्ग, पश्चिम कामेङ्ग तथा टिबेट् पार्ष्वस्थ प्रदेशेषु प्रचलितम् अस्ति । थेरावादबौद्धधर्मः बर्मी सीमायाः समीपे विद्यमानैः जनैः पालितम् अस्ति। प्रायः १९% प्रतिशतं यवनाः सन्ति।

कृषिः[सम्पादयतु]

अरुणाचलप्रदेशीयाः जनाः कृषिमवलम्बैव जीवनं यापयन्तः सन्ति। अत्रत्य अर्थव्यवस्था “झूम” कृष्याश्रिता अस्ति। उन्नतपर्वतादिषु विद्यमानानां जनानां “झूम” कृषिप्रकारस्य पारंपरिकविधिः भवति। अस्य कृषिप्रकारस्य मुख्य फलचयाः तण्डुलम्,यावानलः,आर्द्रकः,तिलं तथा इक्षु इत्यादि भवन्ति। अद्यत्वे आलू एवं सेब,नारङ्गं तथा पनसादि फलानि अत्रत्य फलचयाः भवन्ति।

खनिजः तथा उद्योगः[सम्पादयतु]

अरुणाचलप्रदेशस्य विशालस्य खनिजस्य रक्षणार्थं १९९१ तमे संवत्सरे “अरुणाचलप्रदेश खनिजविकासः तथा व्यापार निगम लिमिटेड्” इति संस्था सार्वकारेण स्थापिता । सार्वकारस्य पक्षतः “सार्वकार औद्योगिक प्रशिक्षण संस्थाः” सन्ति । क्रयविक्रयणप्रशिक्षणम्, रोयिङ्ग, टबारीजो, दिरांग, युपैया तथा मैओ इत्यादि प्रशिक्षणकेन्द्राणि सन्ति ।

विभागाः[सम्पादयतु]

अरुणाचलप्रदेशः १७ जनपदेषु (विभागेषु) विभक्तोऽस्ति। तेषु तेषु जनपदेषु जनपदाधिकारि एव मुख्यः भवति । जनपदेषु जनापेक्षित अंशान् सः एव पूरयति । सीमाप्रदेशेषु भारतीय सेनायाः रक्षणाकार्यम् अहर्निशं भवति । अन्तः आगन्तुकानां सर्वविधपरीक्षणं कुर्वन्ति।

अरुणाचलप्रदेशस्य मण्डलानि
तिरप् मण्डलम्
अञ्जावमण्डलम्
चङ्लङ् मण्डलम्
पूर्वकमेङ्गमण्डलम्
पूर्वसियाङ्गमण्डलम्
कुरुङ्गकुमेमण्डलम्
लोहितमण्डलम्
दक्षिणदिबाङ्गव्यालीमण्डलम्
दक्षिणसुबनसिरीमण्डलम्
पपुम्पारेमण्डलम्
तवाङ्गमण्डलम्
उत्तरदिबाङ्गव्यालीमण्डलम्
उत्तरसुबनसिरीमण्डलम्
उत्तरसियाङ्गमण्डलम्
पश्चिमसियाङ्गमण्डलम्
पश्चिमकामेङ्गमण्डलम्
लोन्गडिङ्गमण्डलम्

वीथिका[सम्पादयतु]

बाह्यानुबन्धः[सम्पादयतु]

सम्‍बद्धा: विषया: