अर्कसस्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अर्कवृक्षः/ Calotropis gigantea
Gigantic swallow wort (Calotropis gigantea) in Hyderabad, AP W IMG 8086.jpg
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
विभागः Magnoliophyta
वर्गः Magnoliopsida
गणः Gentianales
कुलम् Apocynaceae
उपकुलम् Asclepiadoideae
वंशः Calotropis
जातिः C. gigantea
द्विपदनाम
Calotropis gigantea
(L.) W.T.Aiton
अर्कसस्यम्

इदम् अर्कसस्यं भारते सर्वत्र वर्धमानं किश्चन सस्यविशेषम् । इदं सस्यं सर्वेषु प्रदेशेषु अपि वर्धते । कम्बोडिया, इण्डोनेषिया, मलेष्या, फिलिफैन्स्, थाय्लेण्ड्, श्रीलङ्का, भारतम् इत्यादिषु देशेषु अधिकतया वर्धते । अस्मिन् अर्कसस्ये मदर् आल्बन्, अदर् प्लूविल्, ब्ल्याक् आसिड्, रेसिन्, एल्लो रेसिन् इत्यादयः अंशाः भवन्ति । इदं सस्य औषधत्वेन केवलम् उपयुज्यते न तु आहारत्वेन । अस्य अर्कसस्यस्य मूलं त्वक्, पुष्पं पर्णं चापि औषधत्वेन उपयुज्यते । रथसप्तम्याम् अस्य पर्णानि शिरसि संस्थाप्य स्नानं कुर्वन्ति । शनिवासरेषु, विशेषदिनेषु च अस्य पर्णैः निर्मितः हारः आञ्जनेयस्य श्रेष्ठः इति धार्मिकः विश्वासः अस्ति भारते । अस्य पुष्पाणि श्वेतवर्णीयानि, मन्दनीललोहितवर्णीयानि च भवन्ति । अस्य पर्णानि स्थूलानि, हरिद्वर्णीयानि च । पर्णानाम् उपरि श्वेतवर्णीयं किमपि चूर्णं स्थापितम् इव भवति । अस्य पर्णं वा काण्डं वा कर्तयामः चेत् श्वेतवर्णीयः द्रवपदार्थः ततः निस्सरति । अतः एव आङ्ग्लभाषया तस्य “मिल्क् वीड्” इत्यपि उच्यते । अस्य अर्कसस्यस्य वल्कलैः रज्जुः, मीनग्रहणजालं चापि निर्मातुं शक्यते । अस्य सस्यभागः अन्येषां सस्यानां गोभरत्वेन अपि उपयुज्यते । सावयवकृषौ उपयुज्यमानेषु सप्तवर्णकषायं तथा च दशवर्णकषायेषु अस्य अर्कस्य पर्णानि उपयुज्यन्ते । जैविकरससारेषु (बयो डैजेस्टर्) रञ्जकस्य अंशस्य वर्धनार्थम् अर्कपर्णानि एव अधिकतया उपयुज्यन्ते ।

इतरभाषाभिः अस्य अर्कसस्यस्य नामानि[सम्पादयतु]

इदम् अर्कसस्यम् आङ्ग्लभाषया“जेग्याण्टिक् स्वालोवर्” अथवा “क्रौन् फ्लवर्” इति उच्यते । सस्यकुले इदम् अर्कसस्यं Calotropis Giganatica इत्यस्मिन् कुले अन्तर्भवति । हिन्दीभाषया“मड्डर्” अथवा “अफेद् अरा” इति, तेलुगुभाषया “एक्क” अथवा “जिल्लेडि पूवु” इति, तमिळ्भाषायां “बडबडम्” अथवा “एरक्कु” इति, मलयाळभाषया “इरिक्क” इति, कन्नडभाषया “एक्के” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य अर्कसस्यस्य प्रयोजनानि[सम्पादयतु]

इदम् अर्कसस्यं यद्यपि किञ्चित् लघु सस्यं तथापि प्रयोजनस्य विषये महत् एव । अस्य अर्कवृक्षस्य रसः तिक्तः तथा कटुः च ।
१. अस्य अर्कसस्यस्य त्वक् कफं निवारयति, वमनम् अपि कारयति ।
२. अस्य अर्कस्य पुष्पं जीर्णकारकम् ।
३. चर्मरोगेषु, “सिफिलिस्”क्षीणतायां, “सिफिलिस्”व्रणेषु, अतिसारे, आमवाते च अर्कस्य उपयोगः हितकरः ।
४. अस्य अर्कसस्यस्य मूलं त्वक् च गजपादरोगे, चर्मरोगे, उदररोगे (उदरे जलं सङ्गृहीतं चेत्) च उपयुज्येते ।
५. अस्य अर्कस्य रसः शिरसि जातानां कीटानां (कन्नडभाषया“हुळुकड्डि” इति वदन्ति) निवारणे, गुदद्वारे जाते “फिस्टुला”रोगे, मूलव्याधौ च उपयुज्यते ।
६. दन्ताः कीटविद्धाः इति कारणात् दन्तवेदना यदि जायते तर्हि अर्कस्य रसे कार्पासं निमज्ज्य तस्मिन् दन्ते स्थापनेन वेदना अपगच्छति ।
७. “सिफिलिस्”रोगे अस्य अर्कस्य मूलस्य त्वचा धूमपानं कारयन्ति ।
८. अस्य अर्कस्य पर्णानि शुष्कीकृत्य चूर्णीकृत्य व्रणेषु लेपनेन व्रणाः अपगच्छन्ति ।
९. अर्कपर्णस्य चूर्णम् अपस्मारे, “हिस्टीरिया”रोगे, हनुग्रहे, विषजन्तूनां दशने च उपयोक्तुं शक्यते ।
१०. अस्य अर्कस्य पुष्पं कासे, श्वासावरोधे, अग्निमान्द्ये च उपयोक्तुं श्क्यते ।
११. पादे कण्टकं लग्नं चेत् अस्य अर्कस्य पर्णस्य रसस्य स्थापनेन कण्टकं बहिः आगच्छति ।
१२. इदम् अर्कं “होमियोपति” औषधानां निर्माणे अपि उपयुज्यते ।
१३. धेनूनां नेत्रसमस्या अस्ति चेत् सूर्योदयस्य अवसरे लभ्यमानां तुषारयुक्तानाम् अर्कपर्णानां रसेन औषधं निर्मान्ति ।
१४. अर्कलवणं १२५ ग्रां यावत् जलेन सह वा मधुना सह वा दिने द्विवारम् इव उपयोक्तव्यम् ।
१५. अस्य अर्कपर्णस्य मूलस्य च उपयोगः कल्कस्य निर्माणे, वटिकायाः (गुलिका) निर्माणे च क्रियते ।

वीथिका[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=अर्कसस्यम्&oldid=269737" इत्यस्माद् पुनः प्राप्तिः