अर्जुनः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अर्जुनः

अर्जुनः चन्द्रवंशे जातः अप्रतिमः वीरः । अयं पुरुवंशोद्भवस्य विचित्रवीर्यस्य पौत्रः, पाण्डुमहाराजस्य पुत्रः। इन्द्रांशसमुद्भूतः अयम् अर्जुनः अतिरथाग्रणिः । कुन्ती अस्य माता । द्रौपदी, सुभद्रा, उलूपी, चित्राङ्गदा च अस्य पत्न्यः । श्रुतकीर्तिः , अभिमन्युः , इरावान्, बभ्रुवाहनः च अर्जुनस्य पुत्राः ।

अर्जुनस्य गुरुभक्तिः[सम्पादयतु]

आबाल्यादेव महामेधावी, पराक्रमवान् च अयम् अर्जुनः एकवारं गुरुवर्यं द्रोणाचार्यं मकरात् रक्षितवान्। निरन्तराभ्यासेन शब्दवेधीविद्याम् आत्मसात् कृतवान् । गुरुदक्षिणारूपेण पाञ्चालराजस्य द्रुपदस्य बन्धनं कृतवान् ।महाभारते कर्णद्रोणाश्वत्त्थामाः अर्जुनेन पराजिताः । अपि च भीष्मस्य कृते शरशय्यां निर्माय पर्जन्यास्त्रेण तस्य पिपासां परिहृतवान् ।

स्वयंवरः[सम्पादयतु]

द्रौपदीस्वयंवरे मत्स्ययन्त्रभेदनम् अर्जुनेनैव कृतम् । तीर्थयात्रार्थं मणिपुरं प्राप्तः अर्जुनः चित्राङ्गदाम् उलूपीं च परिणीतवान् ।

शङ्खप्राप्तिः[सम्पादयतु]

खाण्डववनदहनकाले अर्जुनेन उपकृतः मयासुरः देवदत्तनामकं शङ्खम् अर्जुनाय प्रायच्छत् । अग्नेः गाण्डीवधनुः,रथम्,अक्षयतूणीरञ्च प्राप्तवान् ।

अर्जुनस्य पराक्रमः[सम्पादयतु]

राजसूययागस्य अवसरे अर्जुनः भगदत्तस्य प्राग्ज्यौतिषपुरं, किम्पुरुष-इलावृतेत्यादीन् खण्डान् च जित्वा भूरिषः सम्पदः सङ्ग्रहणं कृत्वा धनञ्जयः इति नाम्ना प्रथितः। इन्द्रकीले शिवानुग्रहेण पाशुपतास्त्रं प्राप्तवान् । स्वर्गे इन्द्रात् अमूल्यं किरीटं सम्प्राप्य किरीटी इति विख्यातः ।

उर्वशीशापः[सम्पादयतु]

अर्जुनः स्वर्गे चित्रसेननामकात् गन्धर्वात् नृत्यम् अभ्यस्य उर्वश्या नपुंसकत्वप्राप्तिरूपं शापं प्राप्तवान् । पाण्डवानाम् अज्ञातवासे बृहन्नलारूपेण सः शापविमुक्तोऽभवत् ।

अर्जुनस्य नामान्तराणि[सम्पादयतु]

अर्जुनः, फाल्गुन:,जिष्णुः,किरीटी,श्वेतवाहनः,बीभत्सुः,विजयः,पार्थः,सव्यसाची,धनञ्जयः इति अर्जुनस्य प्रसिद्धानि १० नामानि
एतत् सम्बन्धे प्रातः काले भक्ता इमौ श्लोकौ पठन्ति-
अर्जुनः फाल्गुनो जिष्णुः किरीटी श्वेतवाहनः। बीभत्सुर्विजयः पार्थः सव्यसाची धनञ्जयः ॥
एतान्यर्जुन-नामानि प्रातरुत्थाय यः पठेत् । उद्यतेष्वपि शस्त्रेषु हन्ता तस्य न विद्यते ॥

अर्जुनस्य कृष्णभक्तिः[सम्पादयतु]

अर्जुन: साक्षात नरर्षेः अवतार: आसीत् । एष: श्रीकृष्णपरमात्मनः परमभक्त:, मित्रं, प्रेमी च आसीत् । भगवत: कश्चित् यन्त्रमासीत् एष: । एतं निमित्यीकृत्य भगवान् महाभारतस्य युद्धे महायोधानां संहारं कृत्वा स्वस्य अवतारस्य उद्देशं भूभारहरणं परिणामकारि कृतवान् । एतं वचनं स्वयं श्रीकृष्ण: गीताया: विश्वरूपदर्शनस्य प्रसङ्गे वदति- ‘भवत: शत्रव: मत्कारणात् इदानीमेव मृता: । भवान् तेषां हनने केवलं निमित्तम् ’ इति । यं भगवान् एव स्वयं स्वस्य भक्त:, प्रिय: च इति घोषितवान् अस्ति तस्य भक्तत्वस्य अन्यप्रमाणस्य आवश्यकता नास्ति । श्रीकृष्ण: अर्जुन: च मिलित्वा एव अन्यान्येषु स्थानेषु मासान् यावत् यापयन्ति स्म । तादृशेषु सन्दर्भेषु सहजतया तेषाम् उपवेषनम्, उत्थानं, खादनं, पानम्, अटनं, शयनम् इत्यादय: च मिलित्वा एव भवन्ति स्म । तयो: अभिन्नं हृदयमासीत् । परस्परयोः अन्त:पुराय अपि नि:सङ्कोचं गच्छन्ति स्म । एतयो: अभेदत्वस्य वर्णनं सञ्जय: दुर्योधनाय करोति । यदा पाण्ड्वा: द्यूतक्रीडाया: नियमानुसारं वनं गतवन्त: तदा भगवान् तान् द्रष्टुम् आगच्छति । तस्मिन् अवसरे स: अर्जुनेन सह स्वस्य अभिन्नताया: उल्लेखं कुर्वन् वदति यत् "भवान् एक: एव मदीय:, अहमेक: एव भवदीयः अस्मि । ये मदीया: ते भवदीयाः । ये भवदीयाः ते मदीया: । य: भवत: द्वेषं करोति स: मम द्वेषं करोति । य: भवत: प्रेमी स: मम प्रेमी भवति । आवां नरनारायणौ । भवान् मत्त: अहं भवतः भिन्नौ न स्वः । आवां समानौ स्वः" इति । एतस्य प्रमाणं तु महाभारतस्य विविधासु घटनासु प्राप्यते । वनवासस्य समये अर्जुन: तीर्थयात्राया: प्रसङ्गात् प्रभासक्षेत्रं गच्छति । एतद् श्रुत्वा श्रीकृष्ण: द्वारकात: प्रभासक्षेत्रम् आगच्छति । अर्जुनेन सह रैवतकपर्वतम् आगत्य बहूनि दिनानि तिष्ठति । तत: द्वौ अपि द्वारकाम् आगच्छत: । तत्र किञ्चित्कालपर्यन्तम् अर्जुन: श्रीकृष्णस्य प्रासादे एव तस्य प्रिय-अतिथिरूपेण तिष्ठति ।

अर्जुन: श्रीकृष्णस्य अनुजया सुभद्रया सह विवाहं कर्तुम् इच्छति इति यदा श्रीकृष्ण: ज्ञातवान् तदा स: अर्जुनम् अपृष्ट्वा एव विवाहाय अनुमतिं दत्तवान् । तस्या: अपहरणाय युक्तिमपि स्वयमेव करोति । स्वस्य रथम् आयुधमपि अर्जुनाय ददाति । यदा बलराम: एतयो: विवाहस्य विरोधं कृतवान् तदा श्रीकृष्ण: तस्य समाधाननं कारयित्वा द्वारकायामेव सुभद्राया: विवाहं कारयति । खाण्डववनस्य दहनसमये श्रीकृष्ण:, स्वस्य अर्जुनस्य च मैत्रीभाव: उत्तरोत्तरम् अधिकं भवतु इति इन्द्रात् वरं प्राप्तवान् । यदा खाण्डववनं दहति स्म मय: नामक दानवशिल्पि: तत: धावितुं यत्नं कुर्वन् आसीत् । स्वयम् अग्निदेव: तं दग्धुं तस्य पृष्ठत: धावनं कुर्वन् आसीत् । चक्रधर: श्रीकृष्ण: अपि तं मारयितुम् उद्युक्त: आसीत् । तदा मय: अर्जुनस्य शरणं गच्छति ।

शरीरत्यागः[सम्पादयतु]

पाण्डवानां महाप्रस्थानकाले अर्जुनः मध्येमार्गं शरीरत्यागं कृतवान् । [१]

आधाराः[सम्पादयतु]

  • Pratāpacandra Rāya, Kisari Mohan Ganguli, The Mahabharata of Krishna-Dwaipayana Vyasa, Volume 13
  1. व्यासभारतम्

अर्जुनः

"http://sa.wikipedia.org/w/index.php?title=अर्जुनः&oldid=271053" इत्यस्माद् पुनः प्राप्तिः