अर्जुनवृक्षः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Terminalia arjuna
अर्जुनवृक्षस्य फलम्
अर्जुनवृक्षस्य फलम्
Arjuna flowers with a Sykes's Warbler
Arjuna flowers with a Sykes's Warbler
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
विभागः Magnoliophyta
वर्गः Magnoliopsida
गणः Myrtales
कुलम् Combretaceae
वंशः Terminalia
जातिः T. arjuna
द्विपदनाम
Terminalia arjuna
(Roxb.) Wight & Arn.
अर्जुनवृक्षस्य फलम्
प्रौढः अर्जुनवृक्षः

परिचयः[सम्पादयतु]

अर्जुनवृक्षः भारतदेशस्य कश्चित् औषधीयवृक्षः अस्ति । अस्य धवलः, ककुभः, नदीसर्जः इति नामान्तरम् अस्ति । सामान्यतः अस्य औन्नत्यं ६०-८०पादपरिमितं भवति । हिमालयस्य सानुप्रदेशे, शुष्कगिरिप्रदेशेषु नदीनां तटेषु च अर्जुनवृक्षं दृष्टुं शक्यते । भारतदेशे बिहारे, मध्यप्रदेशे अधिकतया प्ररोहति । अस्य वृक्षस्य चर्म निष्कासितं चेदपि पुनः संवर्धते । अर्जुनवृक्षस्य ४मि.मी.स्फीता त्वक् संवत्सरे एकवारं स्वयं निपतति । अस्य वृक्षस्य पत्राणि बीजपूरस्य पत्राणि इव ७तः१८से.मी.पर्यन्तं दीर्घाणि भवन्ति । पत्रस्य अञ्चले तत्र तत्र लघुलघुदन्तानि भवन्ति । अर्जुनवृक्षः वसन्तकाले नूतनानि पत्राणि प्राप्य तदन्ते फलानि उत्पादयन्ति । अयम् अर्जुनवृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं ६० – ८० पादमितः उन्नतः वृक्षः । अयं वृक्षः विशेषतया भारतस्य हिमालयप्रदेशे, बङ्गाले, बिहारे, मध्यप्रदेशे च वर्धन्ते । नदीतीरेषु अपि वर्धते । अस्य त्वचः बहिर्भागः श्वेतवर्णीयः, अन्तर्भागः रक्तवर्णीयः सुकोमलः च भवति । अस्य् पर्णानि आम्रपर्णानाम् आकारकाणि । तानि ४ – ६ अङ्गुलं यावत् दीर्घाणि, १ – ६ अङ्गुलं यावत् विशालानि च भवन्ति । अस्य पुष्पाणि गुच्छाकाराणि श्वेतवर्णीयानि अथवा मन्दपीतवर्णीयानि भवन्ति । अस्य फलानि धाराम्लस्य फलानि इव पक्षयुक्तानि भवन्ति । तानि लघ्वाकारकाणि, १ – १.५ अङ्गुलं यावत् दीर्घाणि, ५ – ६ पक्षयुक्तानि च भवन्ति ।

इतरभाषासु अस्य अर्जुनवृक्षस्य नामानि[सम्पादयतु]

अयम् अर्जुनवृक्षः आङ्ग्लभाषया Terminala Arjuna इति उच्यते । हिन्दीभाषया अपि “अर्जुन” इति, तेलुगुभाषया “तेल्लमत्ति” इति, तमिळभाषया “बेल्म” इति, कन्नडाभाषया “मत्तिमर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य मदनवृक्षस्य प्रयोजनानि[सम्पादयतु]

अस्य अर्जुनवृक्षस्य त्वचः रसः कषायः । अयं रूक्षः लघुः च । अस्मिन् त्वचि सिटोस्टिराल्, अर्जुनेटन्, पेड्रिलीन् इत्यादयः अंशाः सन्ति । २० – २५ % यावत् डयानिन्, ०.३३ % यावत् क्याल्सियं, ०.०७६ % यावत् मेग्नेषियं, ०.०७६ % यावत् अल्युमिनियं च अस्ति । अस्य वृक्षस्य त्वक् एव औषधत्वेन उपयुज्यते ।

१. अस्य अर्जुनवृक्षस्य त्वक् कफं पित्तं च निवारयति ।
२. अस्य त्वचः कषायः व्रणानां क्षालने उपयुज्यते ।
३. सः च कषायः रक्तस्तम्भकत्वेन कार्यं करोति । अतः रक्तस्रावे अपि उपयुज्यते ।
४. अस्य कषायस्य सेवनेन हृदयरोगाः अपि अपगच्छन्ति । स च कषायः हृदयस्य स्नायूनां पुष्टिवर्धनं करोति ।
५. अयं रक्तचापं (Blood Pressure) न्यूनीकरोति ।
६. अयं मूत्रविकारेषु, रक्तविकारेषु च हितकरः ।
७. अयं मेदोहरः अपि । तस्मात् अतिमेदयुक्तानां हितकरः ।
८. अस्य क्षीरपाकः ५ – १० ग्रां यावत्, स्वरसः १० – २० मि. ली. यावत्, कषायः ३० मि.ली. यावत्, चूर्णं ५ – १० ग्रां यावत् सेवनीयम् ।


सस्यशास्त्रीयवर्गीकरणम्[सम्पादयतु]

genus Terminalia इति अस्य सस्यशास्त्रीयं नाम । अर्जुनजातौ १५प्रजातीयाः वृक्षभेदाः भारतदेशे भवन्ति । होमियोपति वैद्यपद्धतौ हृदयसम्बद्धरोगनिवारणस्य औषधनिर्माणे अस्य अवयवानि उपयुज्यन्ते ।

रारायनिकांशाः[सम्पादयतु]

अस्य वृक्षस्य चर्मणः बीटा साय्टोस्टेराँल्, अर्जुनाम्लं च प्राप्येते । अर्जुनिकम् आम्लं तु ग्लूकोस् रसायनिकेन संयुक्तं ग्लूकोसायिड् निर्माति यस्य अर्जुनेटिक् इति कथ्यते । पत्रस्य २०-२५%भागः टैनिन्स् द्वारा निर्मितं भवति । पायरोगेलाल अथवा केटेकॉल प्रकारद्वयस्य टैनिन्स् भवतः । अस्य भस्मनि ३४% केल्शियं कार्बोनेट् भवति । अन्यक्षारेषु सोडियम्, मेग्नेशियं अथवा अल्युमीनियं प्रमुखानि भवन्ति । अस्य केल्शियं सोडियं पक्षस्य प्रचुरतायाः कारणेन हृदयस्य मांसखण्डेषु कार्यं करोति । पुनश्च अस्मिन् वृक्षाङ्गेषु शर्करा, रञ्जकः विविधानि कार्बानिक् अम्लानि च बिभिन्नपदार्थाः अपि भवन्ति ।

अर्जुनफलानि
अर्जुनपुष्पम्

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

  • Dwivedi S. (2007). "Terminalia arjuna Wight & Arn. A useful drug for cardiovascular disorders". Journal of Ethnopharmacology 114: 114–129. 
"https://sa.wikipedia.org/w/index.php?title=अर्जुनवृक्षः&oldid=460467" इत्यस्माद् प्रतिप्राप्तम्