अर्थः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
हिन्दुधर्मःOm.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

अथ कामपूर्तेः सुखार्जनस्य वा यद् यत् साधनं तत् तद् अर्थशब्देन अभिधीयते । यथोक्तं कामसूत्रे वात्स्यायनेन –‘विद्याभूमिहिरण्यपशुधान्य भाण्डोपस्करमित्रादीनाम् अर्जनम् अर्जनस्य विवर्धनम् अर्थः ।’ (का. सू. १-२-८)इति । वस्तुतः अस्मिन् सूत्रे निर्दिष्टानि वस्तूनि अर्थस्यैव उपकरणानि परंतु तत्र धनस्य प्राधान्यात् प्राधान्येन व्यपदेशः इति न्यायेन धनमेव अर्थः इति सामान्यतया उच्यते । धनैषणा तु स्वाभाविकी एव मनुष्याणाम् । किन्तु तत्र 'अगर्हितेन कर्मणा धनान्यादाय गार्हस्थ्ये वर्तेत्’ इत्यादिष्टम् । मनुनाप्युक्तम् –‘सर्वेषामेव शौचानामर्थशौचं परं स्मृतम्’ इति । यथा अर्जने निर्बन्धः तथा व्यये ऽपि नियन्त्रणरुपं मार्गदर्शनं कृतं वर्तते । उक्तं च 'तेन त्यक्तेन भुञ्जीथाः (ई.उ.१) इति । समन्ततः अवस्थितान् अर्थार्थिनः दानेन संतोष्य धनोपभोगः कार्यः, सा एव कृतार्थता अर्थस्य, इत्यासीत् धारणा । कालिदासेनापि रघुवंशीयानाम् आदर्शं चारित्र्यं वर्णयता उत्तम् 'त्यागाय संभृतार्थानाम् (रघु.१-७)इति ।

एवम् अर्थस्यापि द्विविधो हेतुः । एकः व्यष्टिनिष्ठः, अपरश्च समष्टिनिष्ठः तत्र व्यष्टिनिष्ठहेतुस्तु तत्साहाय्येन सुखावाप्तिः । अनेन ये नाम भाग्यवन्तः अर्थार्जने प्राप्तयशस्काः तेषां सुखावाप्तेः विचारः अभूत् । किन्तु ये किल अर्थविहीनाः तेषां किं स्यात् । तेऽपि समाजस्य अङ्गभूता एव । संपूर्ण-समाजस्य सुखं सिसाधयिषुभिः शास्त्रकारैः अत एव दानस्य महिमा प्रगीतः । एतदर्थविहीनेभ्यः दानमेव भवति समष्टिनिष्ठो द्वितीयो हेतुः अर्थस्य । अथ अर्थविहीनाः अपि द्विविधाः । एके तु द्रव्यम् अभिलषन्तोऽपि परिस्थितिवशात् तत् संपादयितुम् अक्षमाः । अपरे पुनः समाजसेवानिरतत्वात् स्वेच्छया निष्काञ्चनत्वं वरयमाणाः । तत्र परिस्थितिनिपीडितेभ्यः दानम् अर्थनिः स्पृहेभ्यश्च आतिथ्यम् उपदिष्टं शास्त्रकारैः । दाने द्रव्यादीनाम् अन्तर्भावः । आतिथ्ये तु प्राधान्येन भोजनशयनादीनामेव समावेशः । तत्र परिग्रहस्य अनपेक्षितत्वात् । तत्र आतिथ्यं चतुर्षु ॠणेषु मनुष्य-ऋणरुपेण तथा पञ्चमहायज्ञेषु नृयज्ञरुपेण समावेश्य अतिथये अतिसम्मानस्य खलु स्थानं प्रदत्तं शास्त्रकारैः । अथर्ववेदेऽपि साङ्गरुपकम् आश्रित्य आतिथ्यस्य यज्ञेन साकं तुलना कृता उपलभ्यते । अनेन तस्य माहात्म्यम् एव द्योत्यते ।

अर्थकामयोः धर्मद्वारा नियन्त्रणं भारतीयानां वैशिष्ट्यम्[सम्पादयतु]

चतुर्षु पुरुषार्थेषु अर्थकामौ एव मानवमात्रस्य कृते महत्त्वं भजेते । सुखावाप्तये दुः खपरिहाराय च प्रयतितव्यम् इति भवति मनुष्यस्य स्वाभाविकी प्रवृत्तिः । न तत्र कस्यापि आदेशस्य उपदेशस्य वा आवश्यकता । येन केन प्रकारेण सुखं प्राप्तव्यम् इत्यर्थं स अहर्निशं संघर्षरतः तिष्ठति । किन्तु तस्य एभिः प्रयासैः तस्य वास्तविकं कल्याणं भवेत् तथा अन्येषां कोऽपि उपद्रवः मा भूत् इत्यर्थं केचन विधिनिषेधाः विहिताः सन्ति शासनेन । परन्तु प्रायः एतत् दृष्टिपथम् आयाति यत् केवलं शासनानुशासनं विधिनियमानां पालने तथा तेषां अङ्गानां दण्डविधानेन निवारणे प्रेरयितुं न अलं भवति । यदि शासनसंस्थायाः स्वतन्त्रा कापि व्यवस्था सर्वेषां प्रवृत्तिनियन्त्रणं कृत्वा सदाचरणे प्रेरयेत् तदा एव समाजोन्नतिः घटेत । भारतीयैः शास्त्रकारैः मनुजस्य प्रवृत्तिम् इमां सम्यक्तया अभ्यस्य एव धर्मतत्त्वस्य आविष्कारः कृतः । सुखप्राप्तये प्रवृत्ताय मानवाय तैः अर्थकामयोः सेवनं सहर्षम् अनुमतम् । केवलं तौ धर्मस्य नियन्त्रणे तथा धर्ममोक्षयोः मध्यवर्तिरुपेण स्थापयित्वा उभयोः संरक्षणे न्यस्तौ । द्वयोः कूलयोः मध्यगामिनी काचित् नदी सर्वेषां सुखाय कल्पते । परन्तु जलप्रलये यदा सा कूलयोः विध्वंसं कृत्वा प्रवृध्दवेगा प्रवहति तदा सर्वेषां नाशस्य एव कारणं भवति । पाश्चात्त्यविचारसरण्यां भारतीयधर्मसदृशं नियमनार्थं किमपि तत्त्वं न विद्यते ।ईसाईसम्प्रदाये (religion) नियमनकारकं भवति उपासनापध्दतेः कर्मकाण्डम् लौकिकजीवने न तेषां कोऽपि हस्यक्षेपः । यद्यपि नैतिकमूल्यानाम् उपदेशः तत्रापि अस्ति, तथापि तस्य क्रियान्वयनार्थं कस्याः अपि प्रक्रियायाः अभावात् न तस्य कोऽपि प्रभावः जनानां जीवनयापनविधौ दृश्यते । तस्मात् तत्र अर्थकामयोः अनिर्बन्धं सेवनं प्रचलति । परिणामतः ऎहिकविभवे आकण्ठं निमग्नाः अपि आपाततः सुखिनः दृश्यमानाः पाश्चात्त्याः मानसिकशान्तिं समाधानं च न प्राप्नुवन्ति । यदि भारतीयानां जीवनम् आधुनिकतैलरथेन (मोटर् कार) सह उपमितं स्यात् तर्हि तत्र दिङ्नियामकं यन्त्रं (स्टिअरिंग व्हील) भवति मोक्षः यः अन्तिमलक्ष्यम् उद्दिश्य मार्गदर्शनं करोति । गतिवर्धकयन्त्रं (अक्सिलरेटर्) भवति अर्थकामयोः युग्मम् । एवं गतिरोधकं (ब्रेक्स) यन्त्रं भवति धर्मः । यदा वाहनस्य परीक्षणं क्रियते तदा यन्त्रज्ञः न गतिवर्धकम् अपि तु गतिरोधकं यन्त्रं निरीक्षते । यतः यदा गत्यवरोधः अभीष्टः तदा यदि गतिरोधकं यन्त्रं यथावत् कार्यं न निर्वहेत् तर्हि न केवलं चालकम् अपि तु अन्यान् बहून् अपि क्षतिग्रस्तान् कुर्यात् । गतिरोधकं यन्त्रं यदा कार्यप्रवणं भवति तदा गतिवर्धकयन्त्रात् पदम् अपनेतव्यं भवति । यदि धर्मः अनुसर्तव्यः चेत् अर्थकामयोः आकर्षणं मन्दीकर्तव्यं स्यात् । अर्थकामयोः संयमः नाम दर्मः । मोक्षः मार्गभ्रष्टतां वारयति धर्मश्च गर्तपतनात् संरक्षति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=अर्थः&oldid=269741" इत्यस्माद् पुनः प्राप्तिः