अविद्या (योगदर्शनम्)

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
Palabra favorita.PNG

विद्यायाः अभावः अविद्या इति व्युत्पत्त्या ‘निर्मक्षिकम्’ इत्यत्र अव्ययीभावसमासेन मक्षिकानामभावः यथा प्रतीयते तथा पूर्वपदप्रधानग्रहणेन अविद्या पदशब्दार्थः विद्याभावः इति सिध्यति । अथवा न विद्या अविद्या इति विग्रहे नञतत्पुरुषसमासः प्रयुज्यते तर्हि विद्याविरोधित्वेन अन्यः अर्थः उच्यते । यथां -अब्राह्मणः अराजपुरुषः इत्यादिषु । एतादृशस्थलेषु उत्तरपदार्थः प्रधानः भवति । उत वा अविद्यमाना विद्या यस्याः यस्यां वा इति अविद्याशब्दस्य बहुव्रीहिसमासः क्रियते तदा अन्यपदार्थः प्रधानभूतः भवति । अर्थात् यस्यां विद्यायाः अभावः इति विचार्यमाण बुद्धौ विद्यायाः अभावात् अविद्याशब्दवाच्यार्थः बुद्धिः इति सिध्यति ।
आगतेषु त्रिषु प्रकारेषु कः प्रकारः अविद्याशब्दवाच्यार्थः बुद्धिः इति सिध्यति । आगतेषु त्रिषु प्रकारेषु कः प्रकारः अविद्याशब्दस्य शेयः इति सन्दिह्य एतेषु कोऽपि प्रकारः न समीचीनः भवति इति पूर्वपक्षी स्वमतं व्याचष्टे । यथा -अवैद्यापदनिर्वचने यः कृतः अव्ययीभावसमासः सः न समीचीनः । यतो हि अविद्या इति शब्दे पूर्वपदार्थः प्रधानत्वात् नञप्रसज्यप्रतिषेधार्थः क्रियते । तथाच अविद्याशब्देन विद्यायाः प्राप्ति पूर्वकाभावः एव कृतः न तु भावरूपस्यान्यस्य । अस्यामवस्थायां विद्यायाः अभावारूपाविद्या क्लेशादीनामुत्पादने न सामर्थ्यवती भवति । यतः अभावेन न कस्यापि उत्पत्तिर्भवति । अव्ययीभावसमासकरणेन अन्योऽपि दोषः जाग्रति यत् अविद्याशब्दः स्त्रीलिङ्गवाची इत्येव च सम्भवति ।
"अव्ययीभावश्च" इति पाणिन्यनुसार "निर्मक्षिकवत्" नपुं स्कत्वमापद्येत । एवमेव अविद्यायाः तत्पुरुषसमासोऽपि न् भवति । कुतः ? तत्पुरुषे सति उत्तरपदार्थः विद्याशब्दः प्रधानः, एवं नञथः अभावः । अस्यां स्थितौ अभावयुक्तविद्या एव अविद्याशब्दार्थः स्यात् । एवमेव रागद्वेषाद्यभावेन युक्ता या विद्या सा क्लेशादीनां नाशकर्त्री न भवति इत्ययं सर्वतन्त्रसिद्धान्तः जागर्ति । अतः अयमपि पक्षः न समीचीनः । अविद्याशब्दे बहुव्रीहिसमासकरणेऽप योऽर्थः सिध्यति तेन अविद्या क्लेशादीनां कारणीभूता इत्यर्थावबोधो न जायते । तत्र कारणम्-बुद्धिः अभावमात्रेण क्लेशादीनामुत्पादिका नास्ति । विद्यायाः अभावेन कियत्पर्यन्तं विपरीतबुद्धिः न उदेति तावत्पर्यन्तं कस्यापि क्लेशप्रकारस्य सम्भावना एव न भवति । चोक्तं पतञ्जलिना-"अविद्याक्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नोदारणाम्" (यो० सू० २-४) इति । उक्तं च योगभाष्यटीकाकारेण वाचस्पतिमित्रेण-

प्रसुप्तस्तत्वलीनानां तन्ववस्थाश्व योगिनाम् ।
विच्छिन्नोदाररुपाश्च क्लेशाः विषयसङ्गिनाम् ॥
(यो. भा. वा.टी-४) इति । तस्मात् तृतीया व्युत्पत्तिरपि न समीचीना इति जाते पूर्वपक्षे सिद्धान्ती प्रतिसन्धत्ते । अविद्यापदस्थनञ्पदेन पर्युदासार्थः स्वीक्रियते । विद्यायाः सह नञ समासकरणेन विद्याविरोधी इति विपरीतज्ञानार्थबोधो जायते । भणितं च -
नामधात्वर्थयोगे तु नैव नञ् प्रतिषेधकः ।
वदन्त्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ॥
वृद्ध्प्रयोगगस्म्यो हि शब्दार्थः सर्व एव नः ।
तेन यत्र प्रयुक्तो यो न तस्मादपनीयते ॥

इति । श्लोकः स्पष्टार्थः । तस्मात् नामार्थधात्वर्थभूते योगे नञः निषेधार्थप्रतीतिर्न भवति, अपितु पयुर्द दासार्थः इति सिद्धम् । वाचस्पति मिश्राः अपि -"अनित्याशुचिदुःखानाऽत्मसु नित्यशुचिः सुखाऽमख्यातिरविद्या" (यो० सू० २-५) इति सूत्रभाष्याख्यानावसरे एवमलिखन्- लोकाधीनावधारणो हि शब्दार्थयोः सम्बन्धः । लोके चोत्तर पदार्थपिधानस्यापि नञः तत्पुरुषस्य उत्तरपदाभिधेयोपमर्दकस्य तल्लक्षिततद्विरुद्धपरतया तत्र तत्रोपलब्धेरिहापि तद्विरुद्धे वृत्तिरिति । एवम्भूतायाः अस्याः अविद्यायाः पादचतुष्टयरुपेण स्यास्यन्ति-अस्मितारागद्वेषाभिनिवेशाः । अस्मितायाः स्वरुपं परिभाषारुपेणा पतञ्जलिना लिखितम् -"दृग्दर्शनशक्त्योरेकात्मतैवास्मिता’ ( यो० सू० २-६) इति अर्थात् यदा अनात्मभूतायां बुद्धौ आत्मबुद्धिरूपाविद्या भवति तदा सा अस्मिता भवति । येषु सुखसाधनेषु विषयेषु तृष्णा जायते सा एव रागः इत्त्युच्यते । एवमेव दुःखसाधनेषु या जिहासा उत्पाद्यते सा द्वेष इति कथ्यते । एतयोः स्वरूपनिर्वचनं पतञ्जलिना सूत्ररूपेण प्रतिपादितम्-"सुखानुशायी रागः" (यो० सू० २-७) " दुःखानुशायी द्वेषः" (यो० सू० २-८) इति । पूर्वजन्मनि अनुभूतं मरणजन्ययददुःखं, तदनुभवजन्या या वासना, तस्मात् विना कारणेन स्वभावतः एव उत्पत्स्यमानं यन्मरणभयं तत् अभिनिवेशत्वेन उच्यते । सूत्रेण चास्य स्वरूपप्रतिपादनं कृतम् - "स्वरसवाही विदुषोऽपि तथारूढोऽभिनिवेशः" (यो० सू० २-९) इति । एते अविद्यादयः पञ्च अनेकप्रकारेण सांसारिकदुःखानां कारणत्वात् मनुष्यस्य क्लेशदायकाः भवन्ति । तस्मात् क्लेशादिपरिपन्थिघटितायाः चित्तवृत्तेः निरोधः एव असम्प्रज्ञातसमाधिः इति सुविदितम् ।

"http://sa.wikipedia.org/w/index.php?title=अविद्या_(योगदर्शनम्)&oldid=252432" इत्यस्माद् पुनः प्राप्तिः