अशोकः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अशोकः
Indian relief from Amaravati, Guntur. Preserved in Guimet Museum.jpg
भरतखण्डस्य सार्वभौमः
कालः क्रि.पू २७३-२३२
राज्याभिषेकः क्रि.पू २७०
पूर्वजः बिन्दुसारः
उत्तराधिकारी दशरथ मौर्यः
राज्ञी देवी
वंशः
वंशः मौर्यः
पिता बिन्दुसारः
माता सुभद्राङ्गिनी
परिवारः
भार्या(ः) तिश्यरक्षा
पद्मावती
कौर्वकी
देवी
पुत्राः महेन्द्रः
कुनालः
तीवालः
दुहितारः सङ्गमित्रा

अशोकः (क्रि पू २६९-२३२) समस्तभारतस्य सम्राट् आसीत्। सः मौर्यवंशस्य तृतीयः महाराजः आसीत्। सः कलिङ्गयुद्धे युद्धस्य दुष्परिणामान् दृष्ट्वा हिंसाम् त्यक्त्वा बौद्धधर्मम् स्वीकृतवान्। सः अनेकेषाम् अभिलेखनानाम् स्तूपानां च निर्माणं कृतवान्। न शोकं यस्य सः एव अशोकः। सः चक्रवर्ती इति अभिधानं लब्धवान्। सः प्रियदर्शी देवानाम्प्रियः इति अपि प्रसिद्धः। तस्य चरितम् अशोकवदनदिव्यवदनग्रन्थयोः कथितम्।

चरितम्[सम्पादयतु]

सः बिन्दुसारस्य पुत्रः आसीत्। तस्य अनेके अग्रजाः वित्ताशोकः नाम एकः अनुजः च आसन्। सः क्षत्रियः सन् सैन्यविद्यां सकलानि शास्त्राणि च अपठत्। सः धीरः दक्षः भटः आसीत्। तस्य कौशलस्य कारणात् संक्षोभम् नाशयितुम् अवन्तिकापुरीं प्रति सः प्रेषितः। अशोकस्य वर्धमानां कीर्तिं दृष्ट्वा स्वभ्रातरः तस्मै ईर्ष्यन्ति स्म। तस्य ज्येष्ठभ्राता सुसीमः अशोकम् उद्दिश्य तक्षशीलायाह् संक्षोभम् नाशयितुम् आदिशत्। सः तान् तक्षशीलावासिनः युद्धप्रियायवनान् विजित्य पाटलिपुत्रं प्रत्यागच्छत्। सुसीमस्य वचनानुसारं पिता बिन्दुसारः अशोकं विवासनं गन्तुम् आदिशत्। अलक्ष्यलिङ्गः अशोकः कलिङ्गाम् गतवान्। तत्र सः कौर्वकी नाम धिवरपुत्रीं परिणीतवान्। सः कदाचित् बौद्धविहारे अवसत् | ततः सः स्वपितुः इच्छया उज्जयिन्याः प्रशासकः अभूत्। तस्य पितुः मरणात् अनन्तरम् स्वभ्रातॄन् सर्वान् हत्वा मौर्यसम्राट् बभूव।

कलिङ्गयुद्धम्[सम्पादयतु]

अशोकस्य साम्राज्यविस्तारः

समस्तं भारतवर्षम् (अद्यतन-भारतपाकिस्थानाफगनिस्थानदेशाः) पारसिकदेशस्य पूर्वभागम् (अद्यतन-इरान्-पश्चिमाफ्गनिस्थादेशौ) च अस्य साम्राज्यम् आसीत्। अशोकाय युद्धम् अरोचत। अतः एव जनाः तं चण्डाशोकः इति अकथयन्। सः कलिङ्गस्य राजानम् परिदातुम् आदिशत्। परन्तु स राजा आदघ्नोत्। अशोकः क्रुध्यन् कलिङ्गं जेतुं तस्य सेनाम् अनयत्। सः युद्धे विजयं प्राप्नोत्। रणभूमिः रक्तकल्मषः आसीत्। युद्धे लक्षसैनिकाः हताः। युद्धस्य अनन्तरम् अशोकः कलिङ्गदेशे अभ्रमत्। सः सर्वत्र दग्धगृहाणि शवाः च एव अपश्यत्। सः एतत् घोरं दृश्यम् वीक्ष्य उक्तवान् -"अहं किं अकरवम्? किम् अयं विजयः उत अपजयः? एतत् न्यायं वा अन्यायम्? एतत् धैर्यम् वा भीरुता? किं शिशुमहिलानां संहरणम् शौर्यस्य द्योतकम् ? अहं राज्यस्य हिताय वा परदेशनाशनाय एतत् कार्यं कृतवान्?.........................एते काकश्येनगृध्राः मरणपापदुताः वा?" सः एतत् ध्वंसदृश्यं दृष्ट्वा दुःखितः अभवत्।

बौद्धधर्मग्रहणम्[सम्पादयतु]

ततः सः हिंसां परित्यज्य बौद्धधर्मं गृहीतवान्। क्रि पू २६० तमे वर्षे बौद्धधर्मः तस्य राष्ट्रधर्मः अभवत्। सः बौद्धधर्मस्य प्रचारं कर्तुं प्रायतत। तस्य पुत्रः महेन्द्रः पुत्री सङ्गमित्रा बौद्धधर्मस्य प्राचाराय लङ्काम् अगच्छन्। सः सहस्राणि स्तूपविहाराणि निर्मापितवान्। तस्य अहिंसाविषये परमविश्वासः उत्पन्नः। सः पशूनां संहरणस्य निषेधम् अकरोत्। सः हैंसिकदण्डनानि न्यवर्तत। सः विद्यालयान् आरब्धवान् | कृषिवाणिज्ययोः कृते कुल्याः निर्मितवान्| सः पशुवैद्यशालानां निर्माणम् अपि कृतवान्। सः मार्गान् अपि समादधाति स्म। सः ब्राह्मणान् विदुषः अपि आद्रियते। अतः सः धर्माशोकः इति नाम्नि प्रसिद्धः अभवत्।

वैशाल्याम् स्थितः अशोकस्तम्भः

अशोकः युद्धात् अबिभेत् इति केचन मन्यन्ते। अतः एव सः अधीनराजानां सख्यम् अपोषयत्। तेन अनेके स्तम्भाः स्थापिताः। तेषु उपदेशवचनानि लिखितानि। एषु अभिलेखनेषु अशोकः प्रजान् "मम पुत्राः" इति संबोधितवान् अस्ति। तेषु मृगदावे स्थितः सिंहस्तम्भः प्रमुखः। एतत् एव भारतगणराज्यस्य मुद्रा अस्ति। अशोकः तेषु अभिलिखितवान् -" सर्वे नराः मम पुत्राः इव। यथा पिता स्वपुत्राणां कृते सौभाग्यं इच्छति तथा अहम् विश्वस्य सर्वेषां मानवानां कृते सुखम् एव इच्छामि।"

तस्य प्रयत्नैः लङ्कराजः यवनराजाः च बौद्धधर्मं गृहीतवन्तः। तस्य स्तम्भे लिखितं च "

धर्मः अत्र अजयत् प्रान्तभूमौ च षट्शतयोजनानां दूरे यत्र यवनराजः अंतियोकः शास्ते। अपि। तत् देशाग्रे प्टोलेमी अंटीगोनः मगः अलेक्सान्द्र नाम चतुर्णाम् राज्ञाम् शासनेषु अपि। एवं दक्षिणदिशि पाण्ड्यचोळदेशयोः ताम्रपर्णी पर्यन्तम्।"

सः मानवानाम् आरोग्यवृद्ध्यर्थं विशेषप्रयासान् अकरोत्| स्तम्भे सः अलिखत् "सर्वत्र प्रियदर्शिनः साम्राज्ये प्रान्ताग्रे चोळपाण्ड्यसत्यपुत्रकेरळपुत्रराष्ट्रेषु अंतियोकस्य राज्ये अपि प्रियदर्शिना द्विविधाः वैद्यशालाः स्थापिताः मनुष्येभ्यः पशुभ्यः च। यत्र औषधयः न सन्ति तत्र अहम् ताः कर्षयामि। अहं मार्गाणाम् उभयतः वृक्षान् आरोपयम् जनहिताय कूपान् च खनितवान्""

- अशोकस्य अभिलेखनम्

दायम्[सम्पादयतु]

अशोकः चत्वारिंशत् संवत्सरान् प्राशासत्। तस्य मरणात् अनन्तरम् मौर्यवंशः नष्टः अभवत्। तस्य अनेके पत्न्यः पुत्राः पुत्र्यः च आसन्। तस्य प्रथमा पत्नी देवी आसित्। तस्य मरणस्य पश्चात् तस्य पौत्रः महाराजः अभवत्। क्रि पू १८५ तमे वर्षे अन्तिमः मौर्यराजः बृहद्रथः पुष्यमित्रशुङ्गेन हतः। सः भारतस्य प्रथमाभिलेखनानि कृतवान्। भारतगणराज्यं स्वतन्त्रो भूत्वा अशोकधर्मचक्रं स्वमुद्रिकाम् अकरोत्। इतिहासस्य राजसु सहस्रेषु अशोकस्य नाम नक्षत्रम् इव भासते- ह.ज वेल्स्

अशोकस्तम्भे सिंहशीर्षमुद्रा
"http://sa.wikipedia.org/w/index.php?title=अशोकः&oldid=284897" इत्यस्माद् पुनः प्राप्तिः