अशोकवृक्षः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
अशोकवृक्षः
Ashoka flower bunch
Ashoka flower bunch
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Fabales
कुलम् Fabaceae
वंशः Saraca
जातिः S. asoca
द्विपदनाम
Saraca asoca
(Roxb.) Wilde
पर्यायपदानि

Saraca indica Linnaeus

अशोकवृक्षस्य पुष्पाणि

अशोकः कश्चित् मध्यमाकारकःय सुन्दरः वृक्षः । मन्दं प्रवर्धमानस्य अस्य वृक्षस्य औन्नत्यं ६मीटर् मितम्. । लम्बानि कुशाग्राणि च अस्य पत्राणि । आवृक्षं पुष्पाणां मञ्जर्यः भवन्ति । काषायवर्णस्य पुष्पाणि नयनमनोहराणि भावति । अस्य शलाटवः पिङ्गलवर्णेन १०सें.मी लम्बाः भवन्ति । शलाटूनाम् अन्तः बीजपङ्क्तिः भवति । समुद्रस्तरात् २-३सहस्रं पादपरिमितोन्नतेषु प्रदेशेषु नाम पूर्वभारतस्य ईशान्यभारतस्य च अरण्येषु अधिकतया प्ररोहन्ति । अयम् अशोकः भारते सर्वत्र वर्धमानः कश्चन प्रसिद्धः वृक्षविशेषः । अस्य वृक्षस्य त्वक्, बीजं, तथा पुष्पं च औषधत्वेन उपयुज्यते । अस्मिन् अशोकवृक्षे “हिमोटाक्सिलिन्” इत्येषः रासायनिकः अंशः अस्ति । अस्य “आल्कोहालिक् एक्स्ट्राक्ट्(सारजननकीये सत्त्वे)” इत्यत्र “ट्यानिन्” अंशः तथा केचन् लोहांशाः च सन्ति । अस्य अशोकवृक्षस्य “ताम्रपल्लवः” इत्यपि नाम अस्ति ।

पर्णानि तथा पुष्पाणि कोलकता, पश्चिमबङाल्, भारतम्.

इतरभाषासु अस्य अशोकवृक्षस्य नामानि[सम्पादयतु]

अयम् अशोकवृक्षः आङ्ग्लभाषयाAshok Tree अथवा Saraca Indica इति उच्यते । हिन्दीभाषया “असोक्” इति, तेलुगुभाषया “असोक” इति, तमिळ्भाषया “असोगम्” इति, मलयाळभाषया “अशोक” इति, कन्नडभाषया “अशोक” अथवा “केङ्कलि मर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य अशोकवृक्षस्य प्रयोजनानि[सम्पादयतु]

अयम् अशोकः यद्यपि वृक्षजातौ अन्तर्भवति तथापि तस्य औषधीयत्वस्य कारणतः औषधीयानां सस्यानां गणे अपि अन्तर्भवति । अस्य अशोकस्य रसः तिक्तमिश्रित - कषायरुचियुक्तः सः रूक्षः न्यूनभारयुतः चापि । १. अस्य अशोकवृक्षस्य त्वक् गर्भाशयस्य रोगाणां निमित्तम् अत्यन्तं प्रयोजनकारिणी । अधिक – मासिक्रस्रावे अस्य उपयोगः उत्तमं फलं ददाति । अशोकस्य त्वचः चूर्णम् एकप्रमाणं, धेनोः दुग्धं तस्य चतुर्गुणितं, तथा जलं तस्य चूर्णस्य १६ गुणितं योजयित्वा सम्यक् क्वथनीयम् । जलं सम्पूर्णतया न्यूनं भवेत् । अनन्तरम् अवशिष्टम् औषधम् अधिकस्रावे ४ चमसं यावत् सेवनीयम् । २. रक्त – अतिसारे अस्य अशोकस्य पुष्पस्य चूर्णं जलेन सह सेवनीयम् ।


वृक्षपावित्र्यम्[सम्पादयतु]

अशोकवृक्षस्य सस्यशास्त्रीयं नाम Saraca Indica इति । अस्य कुलम् abaceae। भारतीयाः अमुं वृक्षं पवित्रं भावयन्ति । अनेन वृक्षेण सह इतिहासपुराणादीनां कथाः सम्बद्धाः । रावणस्य लङ्कायाम् अशोकवनस्य उल्लेखः अस्ति । अयमेव वृक्षः यस्य अधः रावणेन अपहृता सीता उपविष्टा आसीत् । अशोकवृक्षे पुष्पाणां विकासः एव मनोहरम् । कुसुमकाले काण्डतः शाखापर्यन्तं सर्वत्र पुष्पगुच्छाः सम्भवन्ति । प्रतिगुच्छम् अनेकाः लघुगुच्छाः भवन्ति । ४दलायुतानां पुष्पाणां मध्ये लम्बाः केसराः भवन्ति । (यथा चित्रे) विकसनकाले मन्दपीतवर्णेन विद्यमानानि पुष्पाणि अन्येद्युः निबिडरक्तवर्णं प्राप्नुवन्ति । विकसनकाले पुष्पेषु प्रबलः सुगन्धः न भवति किन्तु दिनावसाने सुगन्धः अधिकः भवति । गौतमबुद्धः अशोकवने जातः इति प्रतीतिः अस्ति । अतः बौद्धविहारेषु अस्य वृक्षस्य विशेषप्रामुख्यम् अस्ति । कामदेवस्य अस्मिन् वृक्षे विशेषः आदरः इति पुराणेषु कथितम् ।

ओषधी[सम्पादयतु]

अशोकवृक्षे भेषजगुणाः सन्तीति चरकसंहितायाम् उल्लिखितम् । अस्य वृक्षस्य वल्कलानि, पुष्पाणि, बीजानि अशोकारिष्टम्, अशोकघृतम् इत्यादिषु औषधेषु उपयुज्यन्ते । वल्कलेषु ट्यानिन् अंशः अस्ति । अतः रुचिवर्धनार्थं आकर्षकवर्णार्थं च अस्य त्वचः रजांसि चायपत्ररजैः सह योजयन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=अशोकवृक्षः&oldid=270596" इत्यस्माद् पुनः प्राप्तिः