अशोकवृक्षः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
अशोकवृक्षस्य पुष्पाणि

अशोकः कश्चित् मध्यमाकारकःय सुन्दरः वृक्षः । मन्दं प्रवर्धमानस्य अस्य वृक्षस्य औन्नत्यं ६मीटर् मितम्. । लम्बानि कुशाग्राणि च अस्य पत्राणि । आवृक्षं पुष्पाणां मञ्जर्यः भवन्ति । काषायवर्णस्य पुष्पाणि नयनमनोहराणि भावति । अस्य शलाटवः पिङ्गलवर्णेन १०सें.मी लम्बाः भवन्ति । शलाटूनाम् अन्तः बीजपङ्क्तिः भवति । समुद्रस्तरात् २-३सहस्रं पादपरिमितोन्नतेषु प्रदेशेषु नाम पूर्वभारतस्य ईशान्यभारतस्य च अरण्येषु अधिकतया प्ररोहन्ति । अयम् अशोकः भारते सर्वत्र वर्धमानः कश्चन प्रसिद्धः वृक्षविशेषः । अस्य वृक्षस्य त्वक्, बीजं, तथा पुष्पं च औषधत्वेन उपयुज्यते । अस्मिन् अशोकवृक्षे “हिमोटाक्सिलिन्” इत्येषः रासायनिकः अंशः अस्ति । अस्य “आल्कोहालिक् एक्स्ट्राक्ट्(सारजननकीये सत्त्वे)” इत्यत्र “ट्यानिन्” अंशः तथा केचन् लोहांशाः च सन्ति । अस्य अशोकवृक्षस्य “ताम्रपल्लवः” इत्यपि नाम अस्ति ।

पर्णानि तथा पुष्पाणि कोलकता, पश्चिमबङाल्, भारतम्.

अन्तर्विषयाः

इतरभाषासु अस्य अशोकवृक्षस्य नामानि[सम्पादयतु]

अयम् अशोकवृक्षः आङ्ग्लभाषयाAshok Tree अथवा Saraca Indica इति उच्यते । हिन्दीभाषया “असोक्” इति, तेलुगुभाषया “असोक” इति, तमिळ्भाषया “असोगम्” इति, मलयाळभाषया “अशोक” इति, कन्नडभाषया “अशोक” अथवा “केङ्कलि मर” इति च उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य अशोकवृक्षस्य प्रयोजनानि[सम्पादयतु]

अयम् अशोकः यद्यपि वृक्षजातौ अन्तर्भवति तथापि तस्य औषधीयत्वस्य कारणतः औषधीयानां सस्यानां गणे अपि अन्तर्भवति । अस्य अशोकस्य रसः तिक्तमिश्रित - कषायरुचियुक्तः सः रूक्षः न्यूनभारयुतः चापि । १. अस्य अशोकवृक्षस्य त्वक् गर्भाशयस्य रोगाणां निमित्तम् अत्यन्तं प्रयोजनकारिणी । अधिक – मासिक्रस्रावे अस्य उपयोगः उत्तमं फलं ददाति । अशोकस्य त्वचः चूर्णम् एकप्रमाणं, धेनोः दुग्धं तस्य चतुर्गुणितं, तथा जलं तस्य चूर्णस्य १६ गुणितं योजयित्वा सम्यक् क्वथनीयम् । जलं सम्पूर्णतया न्यूनं भवेत् । अनन्तरम् अवशिष्टम् औषधम् अधिकस्रावे ४ चमसं यावत् सेवनीयम् । २. रक्त – अतिसारे अस्य अशोकस्य पुष्पस्य चूर्णं जलेन सह सेवनीयम् ।


वृक्षपावित्र्यम्[सम्पादयतु]

अशोकवृक्षस्य सस्यशास्त्रीयं नाम Saraca Indica इति । अस्य कुलम् abaceae। भारतीयाः अमुं वृक्षं पवित्रं भावयन्ति । अनेन वृक्षेण सह इतिहासपुराणादीनां कथाः सम्बद्धाः । रावणस्य लङ्कायाम् अशोकवनस्य उल्लेखः अस्ति । अयमेव वृक्षः यस्य अधः रावणेन अपहृता सीता उपविष्टा आसीत् । अशोकवृक्षे पुष्पाणां विकासः एव मनोहरम् । कुसुमकाले काण्डतः शाखापर्यन्तं सर्वत्र पुष्पगुच्छाः सम्भवन्ति । प्रतिगुच्छम् अनेकाः लघुगुच्छाः भवन्ति । ४दलायुतानां पुष्पाणां मध्ये लम्बाः केसराः भवन्ति । (यथा चित्रे) विकसनकाले मन्दपीतवर्णेन विद्यमानानि पुष्पाणि अन्येद्युः निबिडरक्तवर्णं प्राप्नुवन्ति । विकसनकाले पुष्पेषु प्रबलः सुगन्धः न भवति किन्तु दिनावसाने सुगन्धः अधिकः भवति । गौतमबुद्धः अशोकवने जातः इति प्रतीतिः अस्ति । अतः बौद्धविहारेषु अस्य वृक्षस्य विशेषप्रामुख्यम् अस्ति । कामदेवस्य अस्मिन् वृक्षे विशेषः आदरः इति पुराणेषु कथितम् ।

ओषधी[सम्पादयतु]

अशोकवृक्षे भेषजगुणाः सन्तीति चरकसंहितायाम् उल्लिखितम् । अस्य वृक्षस्य वल्कलानि, पुष्पाणि, बीजानि अशोकारिष्टम्, अशोकघृतम् इत्यादिषु औषधेषु उपयुज्यन्ते । वल्कलेषु ट्यानिन् अंशः अस्ति । अतः रुचिवर्धनार्थं आकर्षकवर्णार्थं च अस्य त्वचः रजांसि चायपत्ररजैः सह योजयन्ति ।

"http://sa.wikipedia.org/w/index.php?title=अशोकवृक्षः&oldid=232552" इत्यस्माद् उद्धृतम्