अश्वघोषः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

अश्वघोषस्य परिचयः[सम्पादयतु]

अश्वघोषः संस्कृतसाहित्यस्य सुप्रसिद्धः कविः। साकेतनगरम् अस्य जन्मस्थानम् । साकेतनगरम् अधुनातनम् अयोध्यानगरमेव । एष आर्यसुवर्णाक्ष्याः पुत्र इति अस्य सौन्दरानन्दकाव्यान्ते आर्यसुवर्णाक्षीपुत्रस्य साकेतकस्य भिक्षोराचार्यभदन्ताश्वघोषस्य महाकवेर्महावादिनः कृतिरियम् । इत्यस्मात् वाक्यादवगन्तुम् शक्यते । अस्य काल ईशायाः प्रथमशताब्दीति स्वीकृयते जिज्ञासुभिः । अयं सम्राजः कनिष्कस्य समकालिकः आसीत् । अश्वघोषः कनिष्कराजस्य गुरुः इति, सः जन्मना ब्राह्मणः आसीदिति, वेदादिशास्त्रेषु निष्णातः प्रतिवादिभयङ्करः महापण्डित आसीत् इत्यपि ज्ञायते। पश्चात् अश्वघोषः बुद्धस्य उपदेशैः आकृष्टः बुद्धसङ्घाध्यक्षात् वसुमित्रात् बौद्धदीक्षां प्राप्य बौद्धमतमङ्गीकृतवान् । अयम् सङ्गीतेऽपि परिणतः आसीत् । अस्य गायनसमये अश्वाः अपि गानश्रवाणपरवशाः भूत्वा तत्समये तृणादीनि न सेवन्ते स्म । अत एव "अश्वघोष" इति अस्य नाम जातम् इति विचिन्तकाः वदन्ति ।

अश्वघोषः स्वर्णाक्षीपुत्रः पार्श्वस्य शिष्यश्च कथ्यते । स हि मगधराजाश्रितः आसीत् । उत्तरभारतशासकः कनिष्को मगधाधीशम् आक्रमणेन नमयित्वा राज्यस्य परिवर्त्ते वस्तुद्वयं दातुमादिष्टवान् – १. बुध्दस्य पात्रम् २. अश्वघोषञ्च । राजा मगधानां पात्रं दातुमुद्यतोऽपि कविमश्वघोषं दातुं नैच्छत् मन्त्रिणस्तं तथाऽवलोक्य चिन्तिता अजायन्त । राजा मन्त्रिणां बोधनाय उपायमेकं कृतवान् । स हि स्वाश्वशालास्थितेभ्योऽश्वेभ्यो दिनमेकं यावत् ग्रास् प्रदानं न्यषेधत् । दिनान्तरे सर्वेषां हयानामग्रे ग्रासं प्रदाय अश्वघोषाय स्वस्ङ्गीतिं कर्तुं प्रोक्तवान् अश्वघोषस्य सङ्गीतिमेव श्रोतुमैहन्त, तदा मन्त्रिणः कवेरश्वघोषस्य मूल्यमजानन् । तदवध्येवासौ तन्नाम्ना प्रयते स्म । वास्तविकं च तन्नामालुप्यत् । अश्वघोषः कथञ्चित् कनिष्केण सह कश्मीरान् गतस्तेन बहवादृतश्च । कनिष्कसमकालि कतयाऽश्वघोषस्य समयः प्रथम ई.पू.स्थिरः । अश्वघोषस्य काव्यं चीनभाषायाम् ३८४-४१७ ई. समयेऽनूद्तिम् । इत्सिङ्गो नाम चीनवासी यात्री अश्वघोषं महोपदेशकं नागार्जुनात् पूर्ववर्त्तिनञ्चाह । अयं साकेतवासीति प्रसिध्दम् ।

अश्वघोषस्य बुध्दचरितम्[सम्पादयतु]

बुध्दचरितं संस्कृतभाषामयं सप्तदशसर्गनिबध्दमेकं महाकाव्यं विद्यते । अत्र बुध्दस्य चरित्रमुपदेशंश्च कविरवर्णयत् । चतुर्दशसर्गस्य मध्यादयं ग्रन्थः चीनभाषानुवादेन सह न संवदति । प्रायोऽयं ग्रन्थः चतुर्दशसर्गमध्यभागपर्यन्त एव मिलति स्म, तदनन्तरभागो नश्यति स्म । पश्चादसौ केनचित् कविना निर्माय पूरितः ।

अश्वघोषस्य सौन्दरानन्दम्[सम्पादयतु]

अष्टादशसर्गात्मकेऽत्र महाकाव्ये इक्ष्वाकुवंश्यस्य राज्ञो नन्दस्य धर्मपरिवर्तनम् सुन्दर्या सह तत्पाणिग्रहणं च वर्णयति कविः । बहोः कालात् पूर्वं बुध्दाः काव्यमिदं नान्द्रिरयन्त । अत्र ग्रन्थे बुध्दधर्मेऽश्वघोषेण ये तर्काः प्रदर्शितास्ते ध्यानमाकर्षन्ति ।

इमे द्वे अपि काव्ये बुध्दधर्मेण सह सम्बध्दे । अश्वघोषस्य रुपकमन्यत्र प्रकरेणे निदर्शयिष्यते ।

अश्वघोषस्य पाण्डित्वम्[सम्पादयतु]

अश्वघोषस्य साहित्यिकं पाण्डित्यं बौध्दर्शनज्ञानंचातीव गभीरमासीत् । स हि दार्शनिकमपि तथ्यं सरससरलशैल्यां समुपस्थापयति । अश्वघोषः पूर्वं ब्राह्मण आसीदतो ब्राह्मणसाहित्यस्यापि गाढं ज्ञानं रक्षति स्म । तत्कालप्रचलितानां नीतिशास्त्रकौटिल्यार्थशास्त्रवैद्यकादीनां ज्ञानेन सह व्याकरणस्य विस्तृतं ज्ञानं तेन रक्ष्यते स्म । तदीयं बौध्ददर्शनज्ञानं तु नितान्तसबलमासीत्, असौ योगाचारमतस्यास्यापक आसीत् । अश्वघोषेण शब्दानां विशिष्टेऽर्थं प्रयोगः कृतो योऽन्यत्र नासाद्यते, यथा ग्रन्त्री’ शब्दो यानार्थे ‘धर्मन्’ शब्दश्च व्यवहारार्थे ।


कृतयः[सम्पादयतु]

अस्य कवेः सौन्दरनन्दम्बुद्धचरितम् शारीपुत्रप्रकरणं च रचनात्रयं विद्यते । आश्वघोषस्य चतुर्थः ग्रन्थः सूत्रालङ्कारशास्त्रम् इति । अस्य रचनासु बुद्धोपदेश एव प्रमुखरूपेण दृश्यते। महाकवेः अश्वघोषस्य रचनाः तिबते चीनदेशे च प्रसिद्धाः । सौन्दरनन्दम् अष्टादशसर्गात्मकं प्रथमं महाकाव्यम् उपलभ्यते। अस्मिन् महाकाव्ये बुद्धोपदेशस्य कथाया वर्णनम् अस्ति। बुद्धः विमातृजं स्वभार्याप्रेमपाशेन बद्धं नन्दम् उपदिशति । नन्दः बुद्धोपदेशप्रभावेण सांसारिकसुखं परित्यज्य प्रव्रज्यां स्वीकरोति । संस्कृतसाहित्यस्य उपलब्धेषु नाटकेषु अतिप्राचीनं नाटकं 'शारिपुत्रप्रकरणम्' इति। शारिपुत्रप्रकरणम् इति नाटिका खण्डितावस्थायां लभ्यते । एतषां ग्रन्थानां समाप्तिवाक्येषु स्वमातरम् सुवर्णाक्षीं स्मरत्येषः । वेदं, रामायणं, महाभारतम्, आर्हतं, सांख्यं, वैशेषिकादिदर्शनानि च एषः सम्यक् जानाति स्म । अश्वघोषस्य नाटकानि लक्षणशास्त्रानुगुणानि एव सन्ति । अश्वघोषस्य कालिदासस्य च काव्येषु साम्यं दृश्यते । आचार्यपार्श्वेन अभिधम्मपिटकम् नाम्नः ग्रन्थस्य महाविभाषा नामकम् व्याख्यानम् रचयितुं साहाय़्य़ार्थम् अश्वघोषः काबूल्नगरं प्रति आहूतः आसीत् । इदं व्याख्यानं कनिष्कराजस्य काले विलिखितमिति ज्ञायते । अयं स्वस्य ’सूत्रालङ्कारशास्त्रग्रन्थे’ आश्रयदातारम् कनिष्कम्, आचार्यम् पार्श्वम्, महाभाषाव्याख्यानकर्तारम् वसुमित्रम् च स्तौति । एतान् ग्रन्थान् अतिरिच्य वल्लभदेवस्य सुभाषितावलौ अश्वघोषस्य पञ्च श्लोकाः दृश्यन्ते ।


काव्यशैली[सम्पादयतु]

आश्वघोषः शैल्या कालिदासम् अनुकरोति इति भासते । कालिदासः यं शब्दं यस्मिन्नर्थे उपायुङ्त, अश्वघोषोऽपि तं तथैव प्रयुङ्ते । वैदर्भ्यां शैल्याम् अस्य पद्यानि हृद्यानि भवन्ति । उपमाद्यलङ्कारेष्वपि एतस्य नैपुणी प्रकृष्टा दृश्यते । कानिचिदत्र उदाह्रियन्ते ।

१.:ताः स्रस्तकाञ्चीगुणविघ्निताश्च, सुप्तप्रबुद्धाकुललोचनाश्च ।

वृत्तान्तविन्यस्तविभूषणाश्च, कौतूहलेनाभिबृता परीयुः ॥ बुद्ध च. ३-१४

२.:स हि स्वगात्रप्रभयोज्वलन्त्या, दीपप्रभां भास्करवन्मुमोच ।

महार्हजाम्बूनदचारुवर्णः, प्रद्योतयामास दिशश्च सर्वाः ॥ बुद्ध च. १-३२

३.:स्रस्तां नितम्बादवलम्बमानाम्, पुनः पुनः केसरदामकाञ्चीम् ।

न्यासीकृतां स्थानविदा स्मरेण, मौर्वीं द्वितीयामिव कार्मुकस्य ॥ बुद्धच. ३-५५

४.:ततो नृपस्तस्य निशम्य भावम्, पुत्राभिधानस्य मनोरथस्य ।

स्नेहस्य लक्ष्म्या वयसश्च योग्याम् आज्ञापयामास विहारयात्राम् ॥ बुद्धच. ३-३

५.:तां सुन्दरीं चेन्नलभेत नन्दः, सा वा न सेवेत नतं नतभ्रूः ।

द्वन्द्वं ध्रुवं तद्विकलं न शोभेतान्योन्यहीनाविव रात्रिचन्दौ ॥ सौन्दरा.

६.:नावजानामि विषयान् जाने लोकं तदात्मकम् ।

अनित्यं तु जगन्मत्वा नात्र मे रमते मनः ॥ बुद्धच. ४-८४‎
"http://sa.wikipedia.org/w/index.php?title=अश्वघोषः&oldid=281198" इत्यस्माद् पुनः प्राप्तिः